📿
अग्नि देव
ऋग्वेद / अग्नि पुराण
ऋषि: अंगिरस
छंद: गायत्री / अनुष्टुप्
लार्ड अग्नि देवा
Lord Agni Deva Sahasranama
अग्नि देव के 1000 पावन नामों का यह दिव्य सहस्रनाम सनातन धर्म का अमूल्य रत्न है। तेज, ओज, रोग निवारण, वास्तु शुद्धि व ऊर्जा में वृद्धि।
फॉन्ट आकार:
॥ मूल सहस्रनाम पाठ व भावार्थ ॥
लार्ड अग्नि देवा मूल श्लोक व भावार्थ
नाम 1 — 5
सहस्रनाम श्लोक
अथ अग्नि देवा सहस्रनाम स्तोत्रम् ।
ॐ अग्निर्वसुपतिर्होता दीदिवी रत्नधातमः । आध्रसाचित्पिता जातः शीर्षतः सुक्रतुर्युवा ॥ १ ॥
भासाकेतुर्बृहत्केतुर्बृहदर्चाः कविक्रतुः सत्यः सत्ययजो दूतो विश्ववेदा अपस्तमः ॥ २ ॥
स्वे दमे वर्धमानोऽर्हन्तनूकृन्मृळयत्तमः । क्षेमो गुहाचरन्नाभिः पृथिव्याः सप्तमानुषः ॥ ३ ॥
अद्रेः सूनुर्नराशंसो बर्हिः स्वर्णर ईळितः । पावको रेरिहत्क्षामा घृतपृष्ठो वनस्पतिः ॥ ४ ॥
+919681 600 600
सरल भावार्थ:
लार्ड अग्नि देवा (नाम 1 — 5): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation:
लार्ड अग्नि देवा (नाम 1 — 5): Sacred divine 1000 names recitation.
नाम 6 — 10
सहस्रनाम श्लोक
सुजिह्वो यज्ञनीरुक्षन्सत्यमन्मा सुमद्रथः । समुद्रः सुत्यजो मित्रो मियेध्यो नृमणोऽर्यमा ॥ ५ ॥
पूर्व्यश्चित्ररथः स्पार्हः सुप्रथाः सहसोयहुः । यज्वा विमानो रजसा रक्षोहाऽथर्युरध्रिगुः ॥ ६ ॥
सहन्यो यज्ञियो धूमकेतुर्वाजोऽङ्गिरस्तमः । पुरुचन्द्रो वपूरेवदनिमानो विचर्षणिः ॥ ७ ॥
द्विमाता मेधिरो देवो देवानां शन्तमो वसुः । चोदिष्ठो वृषभश्चारूः पुरोगाः पुष्टिवर्धनः ॥ ८ ॥
रायोधर्ता मन्द्रजिह्वः कल्याणो वसुवित्तमः । जामिः पूषा वावशानो व्रतपा अस्तृतोऽन्तरः ॥ ९ ॥
A Trusted spiritual brand with 21+ Years of Experience , offering authentic Astro Products designed with guidance of Vedic practitioners.
सरल भावार्थ:
लार्ड अग्नि देवा (नाम 6 — 10): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation:
लार्ड अग्नि देवा (नाम 6 — 10): Sacred divine 1000 names recitation.
नाम 11 — 15
सहस्रनाम श्लोक
सम्मिश्लोऽङ्गिरसां ज्येष्टो गवां त्राता महिव्रतः । विशां दूतस्तपुर्मूर्धा स्वध्वरो देववीतमः ॥ १० ॥
प्रत्नो धनस्पृदविता तपुर्जम्मो महागयः । अरुषोऽतिथिरस्यद्मसद्वा दक्षपतिः सहः ॥ ११ ॥
तुविष्माञ्छवसासूनुः स्वधावा ज्योतिरप्सुजाः । अध्वराणां रथी श्रेष्ठः स्वाहुतो वातचोदितः ॥ १२ ॥
धर्णसिर्भोजनस्त्राता मधुजिह्वो मनुर्हितः । नमस्य ऋग्मियो जीरः प्रचेताः प्रभुराश्रितः ॥ १३ ॥
रोहिदश्वः सुप्रणीतिः स्वराड्गृत्सः सुदीदितिः । दक्षो विवस्वतो दूतो बृहद्भा रयिवान् रयिः ॥ १४ ॥
Monday-Friday: 9:30 am to 5:30 pm . Saturday: 9:30 am to 2:00 pm. Sunday: Closed
सरल भावार्थ:
लार्ड अग्नि देवा (नाम 11 — 15): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation:
लार्ड अग्नि देवा (नाम 11 — 15): Sacred divine 1000 names recitation.
नाम 16 — 20
सहस्रनाम श्लोक
अध्वराणां पतिः सम्राड् घृष्विर्दास्वद्विशां प्रियः । घृतस्नुरदितिः स्वर्वाञ्छ्रुत्कर्णो नृतमो यमः ॥ १५ ॥
अङ्गिराः सहसःसूनुर्वसूनामरतिः क्रतुः । सप्तहोता केवलोऽप्यो विभावा मघवा धुनिः ॥ १६ ॥
समिधानः प्रतरणः पृक्षस्तमसि तस्थिवान् । वैश्वानरो दिवोमूर्धा रोदस्योररतिः प्रियः ॥ १७ ॥
यज्ञानां नाभिरत्रिः सत्सिन्धूनाञ्जामिराहुतः । मातरिश्वा वसुधितिर्वेधा ऊर्ध्वस्तवो हितः ॥ १८ ॥
अश्वी भूर्णिरिनो वामो जनीनां पतिरन्तमः । पायुर्मर्तेषु मित्रोऽर्यः श्रुष्टिः साधुरहिरृभुः ॥ १९ ॥
Copyright © 2005-2026 | Trademark®
सरल भावार्थ:
लार्ड अग्नि देवा (नाम 16 — 20): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation:
लार्ड अग्नि देवा (नाम 16 — 20): Sacred divine 1000 names recitation.
नाम 21 — 25
सहस्रनाम श्लोक
भद्रोऽजुर्यो हव्यदातिश्चिकित्वान्विश्वशुक्पृणन् । शंसः संज्ञातरूपोऽपाङ्गर्भस्तुविश्रवस्तमः ॥ २० ॥
गृध्नुः शूरः सुचन्द्रोऽश्वोऽदब्धो वेधस्तमः शिशुः । वाजश्रवा हर्यमाण ईशानो विश्वचर्षणिः ॥ २१ ॥
पुरुप्रशस्तो वाध्र्यश्वोऽनूनवर्चाः कनिक्रदत् । हरिकेशो रथी मर्यः स्वश्वो राजन्तुविष्वणिः ॥ २२ ॥
तिग्मजम्भः सहस्राक्षस्तिग्मशोचिर्द्रुहन्तरः । ककुदुक्थ्यो विशां गोपा मंहिष्ठो भारतो मृगः ॥ २३ ॥
शतात्मोरुज्रया वीरश्चेकितानो धृतव्रतः । तनूरुक् चेतनोऽपूर्व्यो व्यध्वा चक्रिर्धियावसुः ॥ २४ ॥
GUTIKA 12% OFF APPLY CODE → NEW24 Free shipping on all orders above → ₹500 Flat 5% off apply code → SAVE05 Flat 10% off apply code → ASTROM10 GUTIKA 12% OFF APPLY CODE → NEW24 Free shipping on all orders above → ₹500 Flat 5% off apply code → SAVE05 Flat 10% off apply code → ASTROM10
सरल भावार्थ:
लार्ड अग्नि देवा (नाम 21 — 25): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation:
लार्ड अग्नि देवा (नाम 21 — 25): Sacred divine 1000 names recitation.
नाम 26 — 30
सहस्रनाम श्लोक
श्रितः सिन्धुषु विश्वेष्वनेहा ज्येष्ठश्चनोहितः । अदाभ्यश्चोद ऋतुपा अमृक्तः शवसस्पतिः ॥ २५ ॥
गुहासद्वीरुधां गर्भः सुमेधाः शुष्मिणस्पतिः । सृप्रदानुः कवितमः श्वितानो यज्ञसाधनः ॥ २६ ॥
तुविद्युम्नोऽरुणस्तूपो विश्वविद्गातुवित्तमः । श्रुष्टीवाञ्छ्रेणिदन्दाता पृथुपाजाः सहस्कृतः ॥ २७ ॥
अभिश्रीः सत्यवाक्त्वेषो मात्रोः पुत्रो महिन्तमः । घृतयोनिर्दिदृक्षेयो विश्वदेव्यो हिरण्मयः ॥ २८ ॥
अनुषत्यः कृष्णजंहाः शतनीथोऽप्रतिष्कुतः । इळायाः पुत्र ईळेन्यो विचेता वाघतामुशिक् ॥ २९ ॥
सरल भावार्थ:
लार्ड अग्नि देवा (नाम 26 — 30): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation:
लार्ड अग्नि देवा (नाम 26 — 30): Sacred divine 1000 names recitation.
नाम 31 — 35
सहस्रनाम श्लोक
वीतोऽर्को मानुषोऽजस्रो विप्रः श्रोतोर्विया वृषः । आयोयुवान आबाधो वीळुजम्भो हरिव्रतः ॥ ३० ॥
दिवःकेतुर्भुवोमूर्धा सरण्यन्दुर्दभः सुरुक् । दिव्येन शोचिषा राजन्सुदीतिरिषिरो बृहत् ॥ ३१ ॥
सुदृशीको विशाङ्केतुः पुरुहूत उपस्थसद् । पुरोयावा पुर्वणीकोऽनिवृतः सत्पतिर्द्युमान् ॥ ३२ ॥
यज्ञस्य विद्वानव्यथ्यो दुर्वर्तु र्भूर्जयन्नपात् । अमृतः सौभगस्येशः स्वराज्यो देवहूतमः ॥ ३३ ॥
कीलालपा वीतिहोत्रो घृतनिर्णिक् सनश्रुतः । शुचिवर्णस्तुविग्रीवो भारती शोचिषस्पतिः ॥ ३४ ॥
सरल भावार्थ:
लार्ड अग्नि देवा (नाम 31 — 35): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation:
लार्ड अग्नि देवा (नाम 31 — 35): Sacred divine 1000 names recitation.
नाम 36 — 40
सहस्रनाम श्लोक
सोमपृष्ठो हिरिश्मश्रुर्भद्रशोचिर्जुगुर्वणिः । ऋत्विक् पूर्वेभिरृषिभिरीड्यश्चित्रश्रवस्तमः ॥ ३५ ॥
भीमः स्तियानां वृषभो नूतनैरीड्य आसुरः । स्तभूयमानोऽध्वराणां गोपा विश्पतिरस्मयुः ॥ ३६ ॥
ऋतस्य गोपा जीराश्वो जोहूत्रो दम्पतिः कविः । ऋतजातो द्युक्षवचा जुह्वास्योऽमीवचातनः ॥ ३७ ॥
सोमगोपाः शुक्त्रशोचि र्घृताहवन आयजिः । असन्दितः सत्यधर्मा शशमानः शुशुक्वनिः ॥ ३८ ॥
वातजूतो विश्वरूपस्त्वष्टा चारुतमो महान् । इळा सरस्वती हर्षन्तिस्त्रो देव्यो मयोभुवः ॥ ३९ ॥
सरल भावार्थ:
लार्ड अग्नि देवा (नाम 36 — 40): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation:
लार्ड अग्नि देवा (नाम 36 — 40): Sacred divine 1000 names recitation.
नाम 41 — 45
सहस्रनाम श्लोक
अर्वा सुपेशसौ देव्यौ होतारौ स्वर्पतिः सुभाः । देवीर्द्वारो जराबोधो हूयमानो विभावसुः ॥ ४० ॥
सहसावान् मर्मृजेन्यो हिंस्त्रोऽमृतस्य रक्षिता । द्रविणोदा भ्राजमानो धृष्णुरूर्जाम्पतिः पिता ॥ ४१ ॥
सदायविष्ठो वरुणो वरेण्यो भाजयुः पृथुः । वन्द्योध्वराणां सम्राजन् सुशेवो धीरृषिः शिवः ॥ ४२ ॥
पृथुप्रगामा विश्वायुर्मीढ्वान्यन्ता शुचत् सखा । अनवद्यः पप्रथानः स्तवमानो विभुः शयुः ॥ ४३ ॥
श्वैत्रेयः प्रथमो द्युक्षो बृहदुक्षा सुकृत्तरः । वयस्कृदग्नित्तोकस्य त्राता प्रीतो विदुष्टरः ॥ ४४ ॥
सरल भावार्थ:
लार्ड अग्नि देवा (नाम 41 — 45): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation:
लार्ड अग्नि देवा (नाम 41 — 45): Sacred divine 1000 names recitation.
नाम 46 — 50
सहस्रनाम श्लोक
तिग्मानीको होत्रवाहो विगाहः स्वतवान्भृमिः । जुजुषाणः सप्तरश्मिरृषिकृत्तुर्वणिः शुचिः ॥ ४५ ॥
भूरिजन्मा समनगाः प्रशस्तो विश्वतस्पृथुः । वाजस्य राजा श्रुत्यस्य राजा विश्वभरा वृषा ॥ ४६ ॥
सत्यतातिर्जातवेदास्त्वाष्टोऽमर्त्यो वसुश्रवाः । सत्यशुष्मो भाऋजीकोऽध्वरश्रीः सप्रथस्तमः ॥ ४७ ॥
पुरुरूपो बृहद्भानुर्विश्वदेवो मरुत्सखः । रुशदूर्मिर्जेहमानो भृगवान् वृत्रहा क्षयः ॥ ४८ ॥
वामस्यरातिः कृष्टीनां राजा रुद्रः शचीवसुः । दक्षैः सुदक्ष इन्धानो विश्वकृष्टिर्बृहस्पतिः ॥ ४९ ॥
सरल भावार्थ:
लार्ड अग्नि देवा (नाम 46 — 50): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation:
लार्ड अग्नि देवा (नाम 46 — 50): Sacred divine 1000 names recitation.
नाम 51 — 55
सहस्रनाम श्लोक
अपांसधस्थो वसुविद्रण्वो भुज्म विशाम्पतिः । सहस्रवल्शो धरुणो वह्निः शम्भुः सहन्तमः ॥ ५० ॥
अच्छिद्रोतिश्चित्रशोचिर्हृषीवानतिथिर्विशाम् । दुर्धरीतुः सपर्येण्यो वेदिषच्चित्र आतनिः ॥ ५१ ॥
दैव्यःकेतुस्तिग्महेतिः कनीनाञ्जार आनवः । ऊर्जाहुतिरृतश्चेत्यः प्रजानन्सर्पिरासुतिः ॥ ५२ ॥
गुहाचतञ्चित्रमहा द्व्रन्नः सूरो नितोशनः । क्रत्वाचेतिष्ठ ऋतचित्त्रिवरूथः सहस्रजित् ॥ ५३ ॥
सन्दृग्जूर्णिः क्षोदायुरुषर्भुद्वाजसातमः । नित्यः सूनुर्जन्य ऋतप्रजातो वृत्रहन्तमः ॥ ५४ ॥
सरल भावार्थ:
लार्ड अग्नि देवा (नाम 51 — 55): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation:
लार्ड अग्नि देवा (नाम 51 — 55): Sacred divine 1000 names recitation.
नाम 56 — 60
सहस्रनाम श्लोक
वर्षिष्ठः स्पृहयद्वर्णो घृणिर्जातो यशस्तमः । वनेषु जायुः पुत्रःसन्पिता शुक्त्रो दुरोणयुः ॥ ५५ ॥
आशुहेमः क्षयद्घोरो देवानां केतुरह्नयः । दुरोकशोचिः पलितः सुवर्चा बहुलोऽद्भुतः ॥ ५६ ॥
राजा रयीणां निषत्तो धूर्षद्रूक्षो ध्रुवो हरिः । धर्मो द्विजन्मा सुतुकः शुशुक्वाञ्जार उक्षितः ॥ ५७ ॥
नाद्यः सिष्णुर्दधिः सिंह ऊर्ध्वरोचिरनानतः । शेवः पितूनां स्वाद्माऽऽहावोऽप्सु सिंह इव श्रितः ॥ ५८ ॥
गर्भो वनानाञ्चरथां गर्भो यज्ञः पुरूवसुः । क्षपावान्नृपतिर्मेध्यो विश्वः श्वेतोऽपरीवृतः ॥ ५९ ॥
सरल भावार्थ:
लार्ड अग्नि देवा (नाम 56 — 60): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation:
लार्ड अग्नि देवा (नाम 56 — 60): Sacred divine 1000 names recitation.
नाम 61 — 65
सहस्रनाम श्लोक
स्थातां गर्भः शुक्रवर्चास्तस्थिवान् परमे पदे । विद्वान्मर्तागुंश्च देवानां जन्म श्येतः शुचिव्रतः ॥ ६० ॥
ऋतप्रवीतः सुब्रह्मा सविता चित्तिरप्सुषद् । चन्द्रः पुरस्तूर्णितमः स्पन्द्रो देवेषु जागृविः ॥ ६१ ॥
पुर एता सत्यतर ऋतावा देववाहनः । अतन्द्र इन्द्रः ऋतुविच्छोचिष्ठः शुचिदच्छितः ॥ ६२ ॥
हिरण्यकेशः सुप्रीतो वसूनां जनिताऽसुरः । ऋभ्वा सुशर्मा देवावीर्दधद्रत्नानि दाशुषे ॥ ६३ ॥
पूर्वो दधृग्दिवस्पायुः पोता धीरः सहस्रसाः । सुमृळीको देवकामो नवजातो धनञ्जयः ॥ ६४ ॥
सरल भावार्थ:
लार्ड अग्नि देवा (नाम 61 — 65): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation:
लार्ड अग्नि देवा (नाम 61 — 65): Sacred divine 1000 names recitation.
नाम 66 — 70
सहस्रनाम श्लोक
शश्वत्तमो नीलपृष्ठ ऋष्वो मन्द्रतरोऽग्रियः । स्वर्चिरंशो दारुरस्रिच्छितिपृष्ठो नमोवहन् ॥ ६५ ॥
पन्यांसस्तरुणः सम्राट् चर्षणीनां विचक्षणः । स्वङ्गः सुवीरः कृष्णाध्वा सुप्रतूर्तिरिळो मही ॥ ६६ ॥
यविष्ठ्यो दक्षुषवृको वाशीमानवनो घृतम् । ईवानस्ता विश्ववाराश्चित्रभानुरपां नपात् ॥ ६७ ॥
नृचक्षा ऊर्जयञ्च्छीरः सहोजा अद्भुतक्त्रतुः । बहुनामवमोऽभिद्युर्भानुर्मित्रमहो भगः ॥ ६८ ॥
वृश्चद्वनो रोरुचानः पृथिव्याः पतिराधृषः । दिवः सूनुर्दस्मवर्चा यन्तुरो दुष्टरो जयन् ॥ ६९ ॥
सरल भावार्थ:
लार्ड अग्नि देवा (नाम 66 — 70): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation:
लार्ड अग्नि देवा (नाम 66 — 70): Sacred divine 1000 names recitation.
नाम 71 — 75
सहस्रनाम श्लोक
स्वर्विद्गणश्रीरथिरो नाकः शुभ्रोऽप्तुरः ससः । हिरिशिप्रो विश्वमिन्वो भृगूणां रातिरद्वयन् ॥ ७० ॥
सुहोता सुरणः सुद्यौर्मन्धाता स्ववसः पुमान् । अश्वदावा श्रेष्ठशोचिर्यजीयान्हर्यतोऽर्णवः ॥ ७१ ॥
सुप्रतीकश्चित्रयामः स्वभिष्टिश्चक्षणीरुशन् । बृहत्सूरः पृष्टबन्धुः शचीवान्संयतश्चिकित् ॥ ७२ ॥
विशामीड्योऽहिंस्यमानो वयोधा गिर्वणास्तपुः । वशान्न उग्रोऽद्वयावी त्रिधातुस्तरणिः स्वयुः ॥ ७३ ॥
त्रययाय्यश्चर्षणीनां होता वीळुः प्रजापतिः । गुहमानो निर्मथितः सुदानुरिषितो यजन् ॥ ७४ ॥
सरल भावार्थ:
लार्ड अग्नि देवा (नाम 71 — 75): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation:
लार्ड अग्नि देवा (नाम 71 — 75): Sacred divine 1000 names recitation.
नाम 76 — 80
सहस्रनाम श्लोक
मेधाकारो विप्रवीरः क्षितीनां वृषभोऽरतिः । वाजिन्तमः कण्वतमो जरिता मित्रियोऽजरः ॥ ७५ ॥
रायस्पतिः कूचिदर्थी कृष्णयामो दिविक्षयः । घृतप्रतीकश्चेतिष्ठः पुरुक्षुः सत्वनोऽक्षितः ॥ ७६ ॥
नित्यहोता पूतदक्षः ककुद्मान् क्रव्यवाहनः । दिधिषाय्यो दिद्युतानः सुद्योत्मा दस्युहन्तमः ॥ ७७ ॥
पुरुवारः पुरुतमो जर्हृषाणः पुरोहितः । शुचिजिह्वो जर्भुराणो रेजमानस्तनूनपात् ॥ ७८ ॥
आदितेयो देवतमो दीर्घतन्तुः पुरन्दरः । दिवियोनिर्दर्शतश्रीर्जरमाणः पुरुप्रियः ॥ ७९ ॥
सरल भावार्थ:
लार्ड अग्नि देवा (नाम 76 — 80): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation:
लार्ड अग्नि देवा (नाम 76 — 80): Sacred divine 1000 names recitation.
नाम 81 — 85
सहस्रनाम श्लोक
ज्रयसानः पुरुप्रैषो विश्वतूर्तिः पितुष्पिता । सहसानः सञ्चिकित्वान् दैवोदासः सहोवृधः ॥ ८० ॥
शोचिष्केशो धृषद्वर्णः सुजातः पुरुचेतनः । विश्वश्रुष्टिर्विश्ववर्य आयजिष्ठः सदानवः ॥ ८१ ॥
नेता क्षितीनां दैवीनां विश्वादः पुरुशोभनः । यज्ञवन्युर्वह्नितमो रंसुजिह्वो गुहाहितः ॥ ८२ ॥
त्रिषधस्थो विश्वधाया होत्राविद्विश्वदर्शतः । चित्रराधाः सूनृतावान् सद्योजातः परिष्कृतः ॥ ८३ ॥
चित्रक्षत्रो वृद्धशोचिर्वनिष्टो ब्रह्मणस्पतिः । बभ्रिः परस्पा उषसामिघानः सासहिः सदृक् ॥ ८४ ॥
सरल भावार्थ:
लार्ड अग्नि देवा (नाम 81 — 85): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation:
लार्ड अग्नि देवा (नाम 81 — 85): Sacred divine 1000 names recitation.
नाम 86 — 90
सहस्रनाम श्लोक
वाजी प्रशंस्यो मधुपृक् चिकित्रो नक्ष्यः सुदक्षोऽदृपितो वसिष्ठः । दिव्यो जुषाणो रघुयत्प्रयज्युः दुर्यः सुराधाः प्रयतोऽप्रमृष्यः ॥ ८५ ॥
वातोपधूतो महिनादृशेन्यः श्रीणामुदारो धरुणो रयीणाम् । दीद्यद्रुरुक्व्वान्द्रविणस्युरत्यः श्रियंवसानः प्रवपन्यजिष्ठः ॥ ८६ ॥
वस्यो विदानो दिविजः पनिष्ठो दम्यः परिज्मा सुहवो विरूपः । जामिर्जनानां विषितो वपुष्यः शुक्रेभिरङ्गैरज आततन्वान् ॥ ८७ ॥
अध्रुग्वरूथ्यः सुदृशीकरूपः ब्रह्मा विविद्वाञ्चिकितुर्विभानुः । var अद्रुह्वरूथ्यः धर्णि र्विधर्ता विविचिः स्वनीको यह्वः प्रकेतो वृषणश्चकानः ॥ ८८ ॥
जुष्टो मनोता प्रमतिर्विहायाः जेन्यो हविष्कृत् पितुमाञ्छविष्ठः । मतिः सुपित्र्यः सहसीदृशानः शुचिप्रतीको विषुणो मितद्रुः ॥ ८९ ॥
सरल भावार्थ:
लार्ड अग्नि देवा (नाम 86 — 90): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation:
लार्ड अग्नि देवा (नाम 86 — 90): Sacred divine 1000 names recitation.
नाम 91 — 95
सहस्रनाम श्लोक
दविद्युतद्वाजपतिर्विजावा विश्वस्य नाभिः सनृजःसुवृक्तिः । तिग्मः सुदंसा हरितस्तमोहा जेता जनानां ततुरिर्वनर्गुः ॥ ९० ॥
प्रेष्ठो धनर्चः सुषखो धियन्धिः मन्युःपयस्वान्महिषः समानः । सूर्यो घृणीवान् रथयुर्घृतश्रीः भ्राता शिमीवान्भुवनस्य गर्भः ॥ ९१ ॥
सहस्ररेता नृषदप्रयुच्छन् वेनो वपवान्सुषुमञ्छिशानः । मधुप्रतीकः स्वयशाः सहीयान् नव्यो मुहुर्गीः सुभगो रभस्वान् ॥ ९२ ॥
यज्ञस्य केतुः सुमनस्यमानः देवः श्रवस्यो वयुनानि विद्वान् । दिवस्पृथिव्योररतिर्हविर्वाट् विष्णू रथः सुष्टुत ऋञ्जसानः ॥ ९३ ॥
विश्वस्य केतुश्च्यवनः सहस्यो हिरण्यरूपः प्रमहाः सुजम्भः । रुशद्वसानः कृपनीळ ऋन्धन् कृत्व्यो घृतान्नः पुरुधप्रतीकः ॥ ९४ ॥
सरल भावार्थ:
लार्ड अग्नि देवा (नाम 91 — 95): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation:
लार्ड अग्नि देवा (नाम 91 — 95): Sacred divine 1000 names recitation.
नाम 96 — 100
सहस्रनाम श्लोक
सहस्रमुष्कः सुशमी त्रिमूर्धा मन्द्रः सहस्वानिषयन्तरुत्रः । तृषुच्युतश्चन्द्ररथोभुरण्युः धासिः सुवेदः समिधा समिद्धः ॥ ९५ ॥
हिरण्यवर्णः शमिता सुदत्रः यज्ञस्य नेता सुधितः सुशोकः । कविप्रशस्तः प्रथमोऽमृतानां सहस्रशृङ्गो रयिविद्रयीणाम् ॥ ९६ ॥
ब्रध्नो हृदिस्पृक् प्रदिवोदिविस्पृक् विभ्वा सुबन्धुः सुयजो जरद्विट् । अपाकचक्षा मधुहस्त्य इद्धो धर्मस्त्रिपस्त्यो द्रविणा प्रतिव्यः ॥ ९७ ॥
पुरुष्टुतः कृष्णपविः सुशिप्रः पिशङ्गरूपः पुरुनिष्ठ एकः । हिरण्यदन्तः सुमखः सुहव्यो दस्मस्तपिष्ठः सुसमिद्ध इर्यः ॥ ९८ ॥
सुद्युत् सुयज्ञः सुमना सुरत्नः सुश्रीः सुसंसत् सुरथः सुसन्दृक् । तन्वा सुजातो वसुभिः सुजातः सुदृक् सुदेवः सुभरः सुबर्हिः ॥
सरल भावार्थ:
लार्ड अग्नि देवा (नाम 96 — 100): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation:
लार्ड अग्नि देवा (नाम 96 — 100): Sacred divine 1000 names recitation.
नाम 101 — 105
सहस्रनाम श्लोक
ऊर्जोनपाद्रयिपतिः सुविदत्र आपिः अक्रोऽजिरो गृहपतिः पुरुवारपुष्टिः । विद्युद्रथः सुसनिता चतुरक्ष इष्टिः दीद्यान इन्दुरुरुकृद्धृतकेश आशुः ॥ १०० ॥
॥ इति अग्नि देवा सहस्रनाम स्तोत्रम् सम्पूर्णम् ॥
Om agnirvasupatirhota didivi ratnadhatamah । adhrasacitpita jatah sirsatah sukraturyuva ॥ 1 ॥
bhasaketurbrhatketurbrhadarcah kavikratuh । satyah satyayajo duto visvaveda apastamah ॥ 2 ॥
sve dame vardhamano’rhantanukrnmrlayattamah । ksemo guhacarannabhih prthivyah saptamanusah ॥ 3 ॥
सरल भावार्थ:
लार्ड अग्नि देवा (नाम 101 — 105): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation:
लार्ड अग्नि देवा (नाम 101 — 105): Sacred divine 1000 names recitation.
नाम 106 — 110
सहस्रनाम श्लोक
adreh sunurnarasamso barhih svarnara ilitah । pavako rerihatksama ghrtaprstho vanaspatih ॥ 4 ॥
sujihvo yajnaniruksansatyamanma sumadrathah । samudrah sutyajo mitro miyedhyo nrmano’ryama ॥ 5 ॥
purvyascitrarathah sparhah suprathah sahasoyahuh । yajva vimano rajasa raksoha’tharyuradhriguh ॥ 6 ॥
sahanyo yajniyo dhumaketurvajo’ngirastamah । purucandro vapurevadanimano vicarsanih ॥ 7 ॥
dvimata medhiro devo devanam santamo vasuh । codistho vrsabhascaruh purogah pustivardhanah ॥ 8 ॥
सरल भावार्थ:
लार्ड अग्नि देवा (नाम 106 — 110): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation:
लार्ड अग्नि देवा (नाम 106 — 110): Sacred divine 1000 names recitation.
नाम 111 — 115
सहस्रनाम श्लोक
rayodharta mandrajihvah kalyano vasuvittamah । jamih pusa vavasano vratapa astrto’ntarah ॥ 9 ॥
sammislo’ngirasam jyesto gavam trata mahivratah । visam dutastapurmurdha svadhvaro devavitamah ॥ 10 ॥
pratno dhanasprdavita tapurjammo mahagayah । aruso’tithirasyadmasadva daksapatih sahah ॥ 11 ॥
tuvismanchavasasunuh svadhava jyotirapsujah । adhvaranam rathi sresthah svahuto vatacoditah ॥ 12 ॥
dharnasirbhojanastrata madhujihvo manurhitah । namasya rgmiyo jirah pracetah prabhurasritah ॥ 13 ॥
सरल भावार्थ:
लार्ड अग्नि देवा (नाम 111 — 115): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation:
लार्ड अग्नि देवा (नाम 111 — 115): Sacred divine 1000 names recitation.
नाम 116 — 120
सहस्रनाम श्लोक
rohidasvah supranitih svaradgrtsah sudiditih । dakso vivasvato duto brhadbha rayivan rayih ॥ 14 ॥
adhvaranam patih samrad ghrsvirdasvadvisam priyah । ghrtasnuraditih svarvanchrutkarno nrtamo yamah ॥ 15 ॥
angirah sahasahsunurvasunamaratih kratuh । saptahota kevalo’pyo vibhava maghava dhunih ॥ 16 ॥
samidhanah prataranah prksastamasi tasthivan । vaisvanaro divomurdha rodasyoraratih priyah ॥ 17 ॥
yajnanam nabhiratrih satsindhunanjamirahutah । matarisva vasudhitirvedha urdhvastavo hitah ॥ 18 ॥
सरल भावार्थ:
लार्ड अग्नि देवा (नाम 116 — 120): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation:
लार्ड अग्नि देवा (नाम 116 — 120): Sacred divine 1000 names recitation.
नाम 121 — 125
सहस्रनाम श्लोक
asvi bhurnirino vamo janinam patirantamah । payurmartesu mitro’ryah srustih sadhurahirrbhuh ॥ 19 ॥
bhadro’juryo havyadatiscikitvanvisvasukprnan । samsah samjnatarupo’pangarbhastuvisravastamah ॥ 20 ॥
grdhnuhh surah sucandro’svo’dabdho vedhastamah sisuh । vajasrava haryamana isano visvacarsanih ॥ 21 ॥
puruprasasto vadhryasvo’nunavarcah kanikradat । harikeso rathi maryah svasvo rajantuvisvanih ॥ 22 ॥
tigmajambhah sahasraksastigmasocirdruhantarah । kakudukthyo visam gopa mamhistho bharato mrgah ॥ 23 ॥
सरल भावार्थ:
लार्ड अग्नि देवा (नाम 121 — 125): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation:
लार्ड अग्नि देवा (नाम 121 — 125): Sacred divine 1000 names recitation.
नाम 126 — 130
सहस्रनाम श्लोक
satatmorujraya virascekitano dhrtavratah । tanuruk cetano’purvyo vyadhva cakrirdhiyavasuh ॥ 24 ॥
sritah sindhusu visvesvaneha jyesthascanohitah । adabhyascoda rtupa amrktah savasaspatih ॥ 25 ॥
guhasadvirudham garbhah sumedhah susminaspatih । srpradanuh kavitamah svitano yajnasadhanah ॥ 26 ॥
tuvidyumno’runastupo visvavidgatuvittamah । srustivanchrenidandata prthupajah sahaskrtah ॥ 27 ॥
abhisrih satyavaktveso matroh putro mahintamah । ghrtayonirdidrkseyo visvadevyo hiranmayah ॥ 28 ॥
सरल भावार्थ:
लार्ड अग्नि देवा (नाम 126 — 130): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation:
लार्ड अग्नि देवा (नाम 126 — 130): Sacred divine 1000 names recitation.
नाम 131 — 135
सहस्रनाम श्लोक
anusatyah krsnajamhah satanitho’pratiskutah । ilayah putra ilenyo viceta vaghatamusik ॥ 29 ॥
vito’rko manuso’jasro viprah srotorviya vrsah । ayoyuvana abadho vilujambho harivratah ॥ 30 ॥
divahketurbhuvomurdha saranyandurdabhah suruk । divyena socisa rajansuditirisiro brhat ॥ 31 ॥
sudrsiko visanketuh puruhuta upasthasad । puroyava purvaniko’nivrtah satpatirdyuman ॥ 32 ॥
yajnasya vidvanavyathyo durvartu rbhurjayannapat । amrtah saubhagasyesah svarajyo devahutamah ॥ 33 ॥
सरल भावार्थ:
लार्ड अग्नि देवा (नाम 131 — 135): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation:
लार्ड अग्नि देवा (नाम 131 — 135): Sacred divine 1000 names recitation.
नाम 136 — 140
सहस्रनाम श्लोक
kilalapa vitihotro ghrtanirnik sanasrutah । sucivarnastuvigrivo bharati socisaspatih ॥ 34 ॥
somaprstho hirismasrurbhadrasocirjugurvanih । rtvik purvebhirrsibhiridyascitrasravastamah ॥ 35 ॥
bhimah stiyanam vrsabho nutanairidya asurah । stabhuyamano’dhvaranam gopa vispatirasmayuh ॥ 36 ॥
rtasya gopa jirasvo johutro dampatih kavih । rtajato dyuksavaca juhvasyo’mivacatanah ॥ 37 ॥
somagopah suktrasoci rghrtahavana ayajih । asanditah satyadharma sasamanah susukvanih ॥ 38 ॥
सरल भावार्थ:
लार्ड अग्नि देवा (नाम 136 — 140): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation:
लार्ड अग्नि देवा (नाम 136 — 140): Sacred divine 1000 names recitation.
नाम 141 — 145
सहस्रनाम श्लोक
vatajuto visvarupastvasta carutamo mahan । ila sarasvati harsantistro devyo mayobhuvah ॥ 39 ॥
arva supesasau devyau hotarau svarpatih subhah । devirdvaro jarabodho huyamano vibhavasuh ॥ 40 ॥
sahasavan marmrjenyo himstro’mrtasya raksita । dravinoda bhrajamano dhrsnururjampatih pita ॥ 41 ॥
sadayavistho varuno varenyo bhajayuh prthuh । vandyodhvaranam samrajan susevo dhirrsih sivah ॥ 42 ॥
prthupragama visvayurmidhvanyanta sucat sakha । anavadyah paprathanah stavamano vibhuh sayuh ॥ 43 ॥
सरल भावार्थ:
लार्ड अग्नि देवा (नाम 141 — 145): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation:
लार्ड अग्नि देवा (नाम 141 — 145): Sacred divine 1000 names recitation.
नाम 146 — 150
सहस्रनाम श्लोक
svaitreyah prathamo dyukso brhaduksa sukrttarah । vayaskrdagnittokasya trata prito vidustarah ॥ 44 ॥
tigmaniko hotravaho vigahah svatavanbhrmih । jujusanah saptarasmirrsikrtturvanih sucih ॥ 45 ॥
bhurijanma samanagah prasasto visvatasprthuh । vajasya raja srutyasya raja visvabhara vrsa ॥ 46 ॥
satyatatirjatavedastvasto’martyo vasusravah । satyasusmo bharjiko’dhvarasrih saprathastamah ॥ 47 ॥
pururupo brhadbhanurvisvadevo marutsakhah । rusadurmirjehamano bhrgavan vrtraha ksayah ॥ 48 ॥
सरल भावार्थ:
लार्ड अग्नि देवा (नाम 146 — 150): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation:
लार्ड अग्नि देवा (नाम 146 — 150): Sacred divine 1000 names recitation.
नाम 151 — 155
सहस्रनाम श्लोक
vamasyaratih krstinam raja rudrah sacivasuh । daksaih sudaksa indhano visvakrstirbrhaspatih ॥ 49 ॥
apamsadhastho vasuvidranvo bhujma visampatih । sahasravalso dharuno vahnih sambhuh sahantamah ॥ 50 ॥
acchidrotiscitrasocirhrsivanatithirvisam । durdharituh saparyenyo vedisaccitra atanih ॥ 51 ॥
daivyahketustigmahetih kaninanjara anavah । urjahutirrtascetyah prajanansarpirasutih ॥ 52 ॥
guhacatancitramaha dvrannah suro nitosanah । kratvacetistha rtacittrivaruthah sahasrajit ॥ 53 ॥
सरल भावार्थ:
लार्ड अग्नि देवा (नाम 151 — 155): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation:
लार्ड अग्नि देवा (नाम 151 — 155): Sacred divine 1000 names recitation.
नाम 156 — 160
सहस्रनाम श्लोक
sandrgjurnih ksodayurusarbhudvajasatamah । nityah sunurjanya rtaprajato vrtrahantamah ॥ 54 ॥
varsisthah sprhayadvarno ghrnirjato yasastamah । vanesu jayuh putrahsanpita suktro duronayuh ॥ 55 ॥
asuhemah ksayadghoro devanam keturahnayah । durokasocih palitah suvarca bahulo’dbhutah ॥ 56 ॥
raja rayinam nisatto dhursadrukso dhruvo harih । dharmo dvijanma sutukah susukvanjara uksitah ॥ 57 ॥
nadyah sisnurdadhih simha urdhvarocirananatah । sevah pitunam svadma”havo’psu simha iva sritah ॥ 58 ॥
सरल भावार्थ:
लार्ड अग्नि देवा (नाम 156 — 160): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation:
लार्ड अग्नि देवा (नाम 156 — 160): Sacred divine 1000 names recitation.
नाम 161 — 165
सहस्रनाम श्लोक
garbho vananancaratham garbho yajnah puruvasuh । ksapavannrpatirmedhyo visvah sveto’parivrtah ॥ 59 ॥
sthatam garbhah sukravarcastasthivan parame pade । vidvanmartagumsca devanam janma syetah sucivratah ॥ 60 ॥
rtapravitah subrahma savita cittirapsusad । candrah purasturnitamah spandro devesu jagrvih ॥ 61 ॥
pura eta satyatara rtava devavahanah । atandra indrah rtuvicchocisthah sucidacchitah ॥ 62 ॥
hiranyakesah suprito vasunam janita’surah । rbhva susarma devavirdadhadratnani dasuse ॥ 63 ॥
सरल भावार्थ:
लार्ड अग्नि देवा (नाम 161 — 165): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation:
लार्ड अग्नि देवा (नाम 161 — 165): Sacred divine 1000 names recitation.
नाम 166 — 170
सहस्रनाम श्लोक
purvo dadhrgdivaspayuh pota dhirah sahasrasah । sumrliko devakamo navajato dhananjayah ॥ 64 ॥
sasvattamo nilaprstha rsvo mandrataro’griyah । svarciramso darurasricchitiprstho namovahan ॥ 65 ॥
panyamsastarunah samrat carsaninam vicaksanah । svangah suvirah krsnadhva supraturtirilo mahi ॥ 66 ॥
yavisthyo daksusavrko vasimanavano ghrtam । ivanasta visvavarascitrabhanurapam napat ॥ 67 ॥
nrcaksa urjayancchirah sahoja adbhutaktratuh । bahunamavamo’bhidyurbhanurmitramaho bhagah ॥ 68 ॥
सरल भावार्थ:
लार्ड अग्नि देवा (नाम 166 — 170): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation:
लार्ड अग्नि देवा (नाम 166 — 170): Sacred divine 1000 names recitation.
नाम 171 — 175
सहस्रनाम श्लोक
vrscadvano rorucanah prthivyah patiradhrsah । divah sunurdasmavarca yanturo dustaro jayan ॥ 69 ॥
svarvidganasrirathiro nakah subhro’pturah sasah । hirisipro visvaminvo bhrgunam ratiradvayan ॥ 70 ॥
suhota suranah sudyaurmandhata svavasah puman । asvadava sresthasociryajiyanharyato’rnavah ॥ 71 ॥
supratikascitrayamah svabhistiscaksanirusan । brhatsurah prstabandhuh sacivansamyatascikit ॥ 72 ॥
visamidyo’himsyamano vayodha girvanastapuh । vasanna ugro’dvayavi tridhatustaranih svayuh ॥ 73 ॥
सरल भावार्थ:
लार्ड अग्नि देवा (नाम 171 — 175): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation:
लार्ड अग्नि देवा (नाम 171 — 175): Sacred divine 1000 names recitation.
नाम 176 — 180
सहस्रनाम श्लोक
trayayayyascarsaninam hota viluh prajapatih । guhamano nirmathitah sudanurisito yajan ॥ 74 ॥
medhakaro vipravirah ksitinam vrsabho’ratih । vajintamah kanvatamo jarita mitriyo’jarah ॥ 75 ॥
rayaspatih kucidarthi krsnayamo diviksayah । ghrtapratikascetisthah puruksuh satvano’ksitah ॥ 76 ॥
nityahota putadaksah kakudman kravyavahanah । didhisayyo didyutanah sudyotma dasyuhantamah ॥ 77 ॥
puruvarah purutamo jarhrsanah purohitah । sucijihvo jarbhurano rejamanastanunapat ॥ 78 ॥
सरल भावार्थ:
लार्ड अग्नि देवा (नाम 176 — 180): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation:
लार्ड अग्नि देवा (नाम 176 — 180): Sacred divine 1000 names recitation.
नाम 181 — 185
सहस्रनाम श्लोक
aditeyo devatamo dirghatantuh purandarah । diviyonirdarsatasrirjaramanah purupriyah ॥ 79 ॥
jrayasanah purupraiso visvaturtih pituspita । sahasanah sancikitvan daivodasah sahovrdhah ॥ 80 ॥
sociskeso dhrsadvarnah sujatah purucetanah । visvasrustirvisvavarya ayajisthah sadanavah ॥ 81 ॥
neta ksitinam daivinam visvadah purusobhanah । yajnavanyurvahnitamo ramsujihvo guhahitah ॥ 82 ॥
trisadhastho visvadhaya hotravidvisvadarsatah । citraradhah sunrtavan sadyojatah pariskrtah ॥ 83 ॥
सरल भावार्थ:
लार्ड अग्नि देवा (नाम 181 — 185): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation:
लार्ड अग्नि देवा (नाम 181 — 185): Sacred divine 1000 names recitation.
नाम 186 — 190
सहस्रनाम श्लोक
citraksatro vrddhasocirvanisto brahmanaspatih । babhrih paraspa usasamighanah sasahih sadrk ॥ 84 ॥
vaji prasamsyo madhuprk cikitro naksyah sudakso’drpito vasisthah । divyo jusano raghuyatprayajyuh duryah suradhah prayato’pramrsyah ॥ 85 ॥
vatopadhuto mahinadrsenyah srinamudaro dharuno rayinam । didyadrurukvvandravinasyuratyah sriyamvasanah pravapanyajisthah ॥ 86 ॥
vasyo vidano divijah panistho damyah parijma suhavo virupah । jamirjananam visito vapusyah sukrebhirangairaja atatanvan ॥ 87 ॥
adhrugvaruthyah sudrsikarupah brahma vividvancikiturvibhanuh । var adruhvaruthyah dharni rvidharta vivicih svaniko yahvah praketo vrsanascakanah ॥ 88 ॥
सरल भावार्थ:
लार्ड अग्नि देवा (नाम 186 — 190): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation:
लार्ड अग्नि देवा (नाम 186 — 190): Sacred divine 1000 names recitation.
नाम 191 — 195
सहस्रनाम श्लोक
justo manota pramatirvihayah jenyo haviskrt pitumanchavisthah । matih supitryah sahasidrsanah sucipratiko visuno mitadruh ॥ 89 ॥
davidyutadvajapatirvijava visvasya nabhih sanrjahsuvrktih । tigmah sudamsa haritastamoha jeta jananam taturirvanarguh ॥ 90 ॥
prestho dhanarcah susakho dhiyandhih manyuhpayasvanmahisah samanah । suryo ghrnivan rathayurghrtasrih bhrata simivanbhuvanasya garbhah ॥ 91 ॥
sahasrareta nrsadaprayucchan veno vapavansusumanchisanah । madhupratikah svayasah sahiyan navyo muhurgih subhago rabhasvan ॥ 92 ॥
yajnasya ketuh sumanasyamanah devah sravasyo vayunani vidvan । divasprthivyoraratirhavirvat visnu rathah sustuta rnjasanah ॥ 93 ॥
सरल भावार्थ:
लार्ड अग्नि देवा (नाम 191 — 195): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation:
लार्ड अग्नि देवा (नाम 191 — 195): Sacred divine 1000 names recitation.
नाम 196 — 200
सहस्रनाम श्लोक
visvasya ketuscyavanah sahasyo hiranyarupah pramahah sujambhah । rusadvasanah krpanila rndhan krtvyo ghrtannah purudhapratikah ॥ 94 ॥
sahasramuskah susami trimurdha mandrah sahasvanisayantarutrah । trsucyutascandrarathobhuranyuh dhasih suvedah samidha samiddhah ॥ 95 ॥
hiranyavarnah samita sudatrah yajnasya neta sudhitah susokah । kaviprasastah prathamo’mrtanam sahasrasrngo rayividrayinam ॥ 96 ॥
bradhno hrdisprk pradivodivisprk vibhva subandhuh suyajo jaradvit । apakacaksa madhuhastya iddho dharmastripastyo dravina prativyah ॥ 97 ॥
purustutah krsnapavih susiprah pisangarupah purunistha ekah । hiranyadantah sumakhah suhavyo dasmastapisthah susamiddha iryah ॥ 98 ॥
सरल भावार्थ:
लार्ड अग्नि देवा (नाम 196 — 200): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation:
लार्ड अग्नि देवा (नाम 196 — 200): Sacred divine 1000 names recitation.
नाम 201 — 203
सहस्रनाम श्लोक
sudyut suyajnah sumana suratnah susrih susamsat surathah susandrk । tanva sujato vasubhih sujatah sudrk sudevah subharah subarhih ॥ 99 ॥
urjonapadrayipatih suvidatra apih akro’jiro grhapatih puruvarapustih । vidyudrathah susanita caturaksa istih didyana indururukrddhrtakesa asuh ॥ 100 ॥
॥ Iti Lord Agni Sahasranaam Stotram Sampurna ॥
सरल भावार्थ:
लार्ड अग्नि देवा (नाम 201 — 203): पवित्र वेदोक्त व पौराणिक नामावली।
English Translation:
लार्ड अग्नि देवा (नाम 201 — 203): Sacred divine 1000 names recitation.
॥ विधि एवं नियम ॥
पाठ विधि, शुभ समय एवं नियम
⏱️
सर्वोत्तम शुभ समय:
प्रतिदिन, मंगलवार, हवन काल
🪔 क्रमबद्ध पाठ विधि:
- प्रातःकाल स्नान कर शुद्ध वस्त्र धारण करें तथा पूजा स्थान को गंगाजल से पवित्र करें।
- आसन पर बैठकर अग्नि देव की प्रतिमा या चित्र के समक्ष घी का दीपक और धूप प्रज्वलित करें।
- हाथ में जल, अक्षत व पुष्प लेकर संकल्प करें।
- लार्ड अग्नि देवा का शांत एवं लयबद्ध स्वर में एक-एक नाम का चिंतन करते हुए पाठ करें।
- पाठ के समापन पर आरती करें और क्षमा प्रार्थना के साथ प्रसाद अर्पित करें।
✨ दिव्य फलश्रुति एवं आध्यात्मिक लाभ:
- ✔ तेज, ओज, रोग निवारण, वास्तु शुद्धि व ऊर्जा में वृद्धि।
- ✔ हजार नामों के उच्चारण से उत्पन्न ध्वनि-कंपन घर व अंतःकरण की नकारात्मक ऊर्जा को समाप्त करता है।
- ✔ पारिवारिक कलह दूर होकर सुख, शांति, समृद्धि व स्वास्थ्य की वृद्धि होती है।
Frequently Asked Questions
अक्सर पूछे जाने वाले प्रश्न
लार्ड अग्नि देवा का पाठ करने से क्या फल प्राप्त होता है?
लार्ड अग्नि देवा का पाठ करने से तेज, ओज, रोग निवारण, वास्तु शुद्धि व ऊर्जा में वृद्धि। तथा इष्ट देव की अहैतुकी कृपा से जीवन के समस्त पाप और विघ्न नष्ट होते हैं।
लार्ड अग्नि देवा का पाठ करने का सबसे शुभ समय व विधि क्या है?
इसका पाठ सामान्यतः प्रतिदिन, मंगलवार, हवन काल के दिन प्रातःकाल स्नानादि के बाद, पूर्व या उत्तर दिशा की ओर मुख करके शुद्ध घी का दीपक जलाकर करना सर्वश्रेष्ठ माना गया है।
लार्ड अग्नि देवा का मूल स्रोत क्या है?
इस पावन सहस्रनाम का प्रामाणिक स्रोत ऋग्वेद / अग्नि पुराण है। इसके ऋषि अंगिरस एवं आराध्य अग्नि देव हैं।