भक्त मनोरथ सिद्धिप्रदं गणेश स्तोत्र 

॥ भक्तमनोरथसिद्धिप्रदं गणेशस्तोत्रम् ॥

 
श्री गणेशाय नमः 
 
। स्कन्द उवाच ।
 
नमस्ते योगरूपाय सम्प्रज्ञातशरीरिणे ।
असम्प्रज्ञातमूर्ध्ने ते तयोर्योगमयाय च ॥ १॥
 
वामाङ्गभ्रान्तिरूपा ते सिद्धिः सर्वप्रदा प्रभो ।
भ्रान्तिधारकरूपा वै बुद्धिस्ते दक्षिणाङ्गके ॥ २॥
 
मायासिद्धिस्तथा देवो मायिको बुद्धिसंज्ञितः ।
तयोर्योगे गणेशान त्वं स्थितोऽसि नमोऽस्तु ते ॥ ३॥
 
जगद्रूपो गकारश्च णकारो ब्रह्मवाचकः ।
तयोर्योगे हि गणपो नाम तुभ्यं नमो नमः ॥ ४॥
 
चतुर्विधं जगत्सर्वं ब्रह्म तत्र तदात्मकम् ।
हस्ताश्चत्वार एवं ते चतुर्भुज नमोऽस्तु ते ॥ ५॥
 
स्वसंवेद्यं च यद्ब्रह्म तत्र खेलकरो भवान् ।
तेन स्वानन्दवासी त्वं स्वानन्दपतये नमः ॥ ६॥
 
द्वंद्वं चरसि भक्तानां तेषां हृदि समास्थितः ।
चौरवत्तेन तेऽभूद्वै मूषको वाहनं प्रभो ॥ ७॥
 
जगति ब्रह्मणि स्थित्वा भोगान्भुंक्षि स्वयोगगः ।
जगद्भिर्ब्रह्मभिस्तेन चेष्टितं ज्ञायते न च ॥ ८॥
 
चौरवद्भोगकर्ता त्वं तेन ते वाहनं परम् ।
मूषको मूषकारूढो हेरम्बाय नमो नमः ॥ ९॥
 
किं स्तौमि त्वां गणाधीश योगशान्तिधरं परम् ।
वेदादयो ययुः शान्तिमतो देवं नमाम्यहम् ॥ १०॥
 
इति स्तोत्रं समाकर्ण्य गणेशस्तमुवाच ह ।
वरं वृणु महाभाग दास्यामि दुर्लभं ह्यपि ॥ ११॥
 
त्वया कृतमिदं स्तोत्रं योगशान्तिप्रदं भवेत् ।
मयि भक्तिकरं स्कंद सर्वसिद्धिप्रदं तथा ॥ १२॥
 
यं यमिच्छसि तं तं वै दास्यामि स्तोत्रयंत्रितः ।
पठते शृण्वते नित्यं कार्तिकेय विशेषतः ॥ १३॥
 
। इति श्रीमुद्गलपुराणन्तर्वर्ति भक्त मनोरथ सिद्धिप्रदं गणेश स्तोत्र समाप्तम् ।

 

भक्त मनोरथ सिद्धिप्रदं गणेश स्तोत्र
भक्त मनोरथ सिद्धिप्रदं गणेश स्तोत्र

भक्त मनोरथ सिद्धिप्रदं गणेश स्तोत्र PDF



Leave a comment