श्री रघुनाथगुम्फितं राधा कृष्णा अष्टकम

॥ श्री राधाकृष्णाष्टकम् ॥

 

यः श्रीगोवर्धनाद्रिं सकलसुरपतिं त्रस्तगोगोपवृन्दं,
स्वीयं संरक्षितञ्चेत्यमरसुखकरं मोहयन् सन्दधार ।
 
तन्मानं खण्डयित्वा विजितरिपुकुलो नीलधाराधराभः,
कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव ॥ १॥
 
यं दृष्ट्वा कंसभूपः स्वकृतकृतिमहो संस्मरन्मन्त्रिवर्यान्,
किं वा पूर्वं मयेदं कृतमिति वचनं दुःखितः प्रत्युवाच ।
 
आज्ञप्तो नारदेन स्मितयुतवदनः पूरयन्सर्वकामान्,
कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव ॥ २॥
 
येन प्रोद्यत्प्रतापा नृपतिकुलभवाः पाण्डवाः कौरवाब्धिं,
तीर्त्वा पारं तदीयं जगदखिवलनृणां दुस्तरञ्चेति जग्मुः ।
 
तत्पत्नीचीरवृद्धिप्रविदितमहिमा भूतले भूपतीशः,
कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव ॥ ३॥
 
यस्मै चोद्धृत्य पात्राद्दधियुतनवनीतं करैर्गोपिकाभि-,
र्दत्तं तद्भावपूर्तौ विनिहितहृदयः सत्यमेवं तिरोधात् ।
 
मुक्तागुञ्जावलीभिः प्रचुरतमरुचिः कुण्डलाकान्तगण्डः,
कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव ॥ ४॥
 
यस्माद्विश्वाभिरामादिह जननविधौ सर्वनन्दादिगोपाः,
संसारार्ते विमुक्ताः सकलसुखकराः सम्पदः प्रापुरेव ।
 
इत्थं पूर्णेन्दुवक्त्रः कलकमलदृशः स्वीयजन्म स्तुवन्तः,
कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव ॥ ५॥
 
यस्य श्रीनन्दसूनोर्व्रजयुवतिजनाश्चागता भतृपुत्रां-,
स्त्यक्त्वा श्रुत्वा समीपे विचकितनयनाः सप्रमोदाः स्वगेहे ।
 
रन्तुं रासादिलीला मनसिजदलिता वेणुनादञ्च रम्यं,
कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव ॥ ६॥
 
यस्मिन्दष्टे समस्ते जगति युवतयः प्राणनाथव्रताया-,
स्ता अप्येवं हि नूनं किमपि च हृदये कामभावं दधत्यः ।
 
तत्स्नेहाब्धिं वपुश्चेदविदितधरणौ सूर्यबिम्बस्वरूपाः,
कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव ॥ ७॥
 
यः स्वीये गोकुलेऽस्मिन्विदितनिजकुलोद्भूतबालैः समेतो,
मातर्येवं चकार प्रसृततमगुणान्बाललीलाविलासान् ।
 
हत्वा वत्सप्रलम्बद्विविदबकखरान्गोपवृन्दं जुगोप,
कृष्णो राधा समेतो विलसतु हृदये सोऽस्मदीये सदैव ॥ ८॥
 
राधाकृष्णाष्टकं प्रातरुत्थाय प्रपठेन्नरः ।
य एवं सर्वदा नूनं स प्राप्नोति परां गतिम् ॥ ९॥
 
॥ इति श्रीरघुनाथगुम्फितं श्रीराघाकृष्णाष्टकस्तोत्रं समाप्तम् ॥
 
 
श्री रघुनाथगुम्फितं राधा कृष्णा अष्टकम
श्री रघुनाथगुम्फितं राधा कृष्णा अष्टकम

Leave a comment