श्री ललिता अष्टोत्तर शतनामावली 

सिन्दूरारुणविग्रहां त्रिनयनां माणिक्यमौलिस्फुरत्-
 
तारानायकशेखरां स्मितममुखीम् आपीनवक्षोरुहाम् ।
 
 
पाणिभ्यामलिपूर्णरत्नचषकं रक्तोत्पलं विभ्रतीम्
 
सौम्यां रत्नघटस्थरक्तचरणां ध्यायेत् परामम्बिकाम् ॥
 
 
अरुणां करुणातरङ्गिताक्षीं धृतपाशाङ्कुशपुष्पबाणचापाम् ।
 
अणिमादिभिरावृतां मयूखैरहमित्येव विभावये भवानीम् ॥
 
 
ध्यायेत् पद्मासनस्थां विकसितवदनां पद्मपत्रायताक्षीम्
 
हेमाभां पीतवस्त्रां करकलितलसद्धेमपद्मां वराङ्गीम् ।
 
 
सर्वालङ्कार-युक्तां सततमभयदां भक्तनम्रां भवानीम्
 
श्रीविद्यां शान्तमूर्तिं सकलसुरनुतां सर्वसम्पत्प्रदात्रीम् ॥
 
 
  1. ॐ भूरूपसकलाधारायै नमः
  2. ॐ बीजौषध्यन्नरूपिण्यै नमः ।
  3. ॐ जरायुजाण्डजोद्भिज्ज- स्वेदजादिशरीरिण्यै नमः ।
  4. ॐ क्षेत्ररूपायै नमः ।
  5. ॐ तीर्थरूपायै नमः ।
  6. ॐ गिरिकाननरूपिण्यै नमः ।
  7. ॐ जलरूपाखिलाप्यायायै नमः ।
  8. ॐ तेजःपुञ्जस्वरूपिण्यै नमः ।
  9. ॐ जगत्प्रकाशिकायै नमः ।
  10. ॐ अज्ञानतमोहृद्भानुरूपिण्यै नमः । 
  11. ॐ वायुरूपायै नमः ।
  12. ॐ अखिलव्याप्तायै नमः ।
  13. ॐ उत्पत्यादिविधायिन्यै नमः ।
  14. ॐ नभोरूपायै नमः ।
  15. ॐ इन्दुसूर्यादि- ज्योतिर्भूतावकाशदायै नमः ।
  16. ॐ घ्राणरूपायै नमः ।
  17. ॐ गन्धरूपायै नमः ।
  18. ॐ गन्धग्रहणकारिण्यै नमः ।
  19. ॐ रसनायै नमः ।
  20. ॐ रसरूपायै नमः । 
  21. ॐ रसग्रहणकारिण्यै नमः ।
  22. ॐ चक्षुरूपायै नमः ।
  23. ॐ रूपरूपायै नमः ।
  24. ॐ रूपग्रहणकारिण्यै नमः ।
  25. ॐ त्वग्रूपायै नमः ।
  26. ॐ स्पर्शरूपायै नमः । 
  27. ॐ स्पर्शग्रहणकारिण्यै नमः ।
  28. ॐ श्रोत्ररूपायै नमः ।
  29. ॐ शब्दरूपायै नमः ।
  30. ॐ शब्दग्रहणकारिण्यै नमः । 
  31. ॐ वागिन्द्रियस्वरूपायै नमः ।
  32. ॐ वाचावृत्तिप्रदायिन्यै नमः ।
  33. ॐ पाणीन्द्रियस्वरूपायै नमः ।
  34. ॐ क्रियावृत्तिप्रदायिन्यै नमः ।
  35. ॐ पादेन्द्रियस्वरूपायै नमः ।
  36. ॐ गतिवृत्तिप्रदायिन्यै नमः ।
  37. ॐ पाय्विन्द्रियस्वरूपायै नमः ।
  38. ॐ विसर्गार्थैककारिण्यै नमः ।
  39. ॐ रहस्येन्द्रियरूपायै नमः ।
  40. ॐ विषयानन्ददायिन्यै नमः । 
  41. ॐ मनोरूपायै नमः ।
  42. ॐ सङ्कल्पविकल्पादि- स्वरूपिण्यै नमः ।
  43. ॐ सर्वोपलब्धिहेतवे नमः ।
  44. ॐ बुद्धिनिश्चयरूपिण्यै नमः ।
  45. ॐ अहङ्कारस्वरूपायै नमः ।
  46. ॐ अहङ्कर्तव्यवृत्तिदायै नमः ।
  47. ॐ चेतनाचित्तरूपायै नमः ।
  48. ॐ सर्वचैतन्यदायिन्यै नमः ।
  49. ॐ गुणवैषम्यरूपाढ्य- महत्तत्त्वाभिमानिन्यै नमः ।
  50. ॐ गुणसाम्याव्यक्तमायामूल- प्रकृतिसञ्चिकायै नमः । 
  51. ॐ पञ्चीकृतमहाभूत- सूक्ष्मभूतस्वरूपिण्यै नमः ।
  52. ॐ विद्याऽविद्यात्मिकायै नमः ।
  53. ॐ मायाबन्धमोचनकारिण्यै नमः ।
  54. ॐ ईश्वरेच्छारागरूपायै नमः ।
  55. ॐ प्रकृतिक्षोभकारिण्यै नमः ।
  56. ॐ कालशक्त्यै नमः ।
  57. ॐ कालरूपायै नमः ।
  58. ॐ नियत्यादिनियामिकायै नमः ।
  59. ॐ धूम्रादिपञ्चव्योमाख्यायै नमः ।
  60. ॐ यन्त्रमन्त्रकलात्मिकायै नमः । 
  61. ॐ ब्रह्मरूपायै नमः ।
  62. ॐ विष्णुरूपायै नमः ।
  63. ॐ रुद्ररूपायै नमः ।
  64. ॐ महेश्वर्यै नमः ।
  65. ॐ सदाशिवस्वरूपायै नमः ।
  66. ॐ सर्वजीवमय्यै नमः ।
  67. ॐ शिवायै नमः ।
  68. ॐ श्रीवाणीलक्ष्म्युमारूपायै नमः ।
  69. ॐ सदाख्यायै नमः ।
  70. ॐ चित्कलात्मिकायै नमः । 
  71. ॐ प्राज्ञतैजसविश्वाख्य- विराट्सूत्रेश्वरात्मिकायै नमः ।
  72. ॐ स्थूलदेहस्वरूपायै नमः ।
  73. ॐ सूक्ष्मदेहस्वरूपिण्यै नमः ।
  74. ॐ वाच्यवाचकरूपायै नमः ।
  75. ॐ ज्ञानज्ञेयस्वरूपिण्यै नमः ।
  76. ॐ कार्यकारणरूपायै नमः ।
  77. ॐ तत्तत्तत्वाधिदेवतायै नमः ।
  78. ॐ दशनादस्वरूपायै नमः । 
  79. ॐ नाडीरूपाढ्यकुण्डल्यै नमः ।
  80. ॐ अकारादिक्षकारान्तवैखरी- वाक्स्वरूपिण्यै नमः । 
  81. ॐ वेदवेदाङ्गरूपायै नमः ।
  82. ॐ सूत्रशास्त्रादिरूपिण्यै नमः ।
  83. ॐ पुराणरूपायै नमः ।
  84. ॐ सद्धर्मशात्ररूपायै नमः ।
  85. ॐ परात्परस्यै नमः ।
  86. ॐ आयुर्वेदस्वरूपायै नमः ।
  87. ॐ धनुर्वेदस्वरूपिण्यै नमः ।
  88. ॐ गान्धर्वविद्यारूपायै नमः ।
  89. ॐ अर्थशास्त्रादिरूपिण्यै नमः ।
  90. ॐ चतुष्षष्टिकलारूपायै नमः । 
  91. ॐ निगमागमरूपिण्यै नमः ।
  92. ॐ काव्येतिहासरूपायै नमः ।
  93. ॐ गानविद्यादिरूपिण्यै नमः ।
  94. ॐ पदवाक्यस्वरूपायै नमः ।
  95. ॐ सर्वभाषास्वरूपिण्यै नमः ।
  96. ॐ पदवाक्यस्फोटरूपायै नमः ।
  97. ॐ ज्ञानज्ञेयक्रियात्मिकायै नमः ।
  98. ॐ सर्वतन्त्रमय्यै नमः ।
  99. ॐ सर्वयन्त्रतन्त्रादिरूपिण्यै नमः ।
  100. ॐ वेदमात्रे नमः । 
  101. ॐ ललितायै नमः ।
  102. ॐ महाव्याहृतिरूपिण्यै नमः ।
  103. ॐ अव्याकृतपदानाद्यचिन्त्य- शक्त्यै नमः ।
  104. ॐ तमोमय्यै नमः ।
  105. ॐ परस्मै ज्योतिषे नमः ।
  106. ॐ परब्रह्मसाक्षात्कार- स्वरूपिण्यै नमः ।
  107. ॐ परब्रह्ममय्यै नमः ।
  108. ॐ सत्यासत्यज्ञानसुधात्मिकायै नमः । 
 
 
                   इति श्रीललिताष्टोत्तरशतनामावलिः समाप्ता ।

Leave a comment