श्री हनुमत प्रोक्ता मन्त्रराजात्मक रामस्तव स्तोत्र


तिरश्चामपि चारातिसमवायं समेयुषाम् । 

यतः सुग्रीवमुख्यानां यस्तमुग्रं नमाम्यहम् ॥ १ ॥
 
 
सकुदेव प्रपन्नाय विशिष्टामैरयच्छ्रियम् ।
 
बिभीषणायाब्धितटे यस्तं वीरं नमाम्यहम् ॥ २ ॥
 
 
यो महान् पूजितो व्यापी महान् वै करुणामृतम् । 
 
श्रुतं येन जटायोश्च महाविष्णुं नमाम्यहम् ॥ ३ ॥
 
 
तेजसाप्यायिता यस्य ज्वलन्ति ज्वलनादयः ।
 
प्रकाशयते स्वतन्त्रो यस्तं ज्वलन्तं नमाम्यहम् ॥ ४ ॥
 
 
सर्वतोमुखता येन लीलया दर्शिता रणे । 
 
रक्षसां खरमुख्यानां तं वन्दे सर्वतोमुखम् ॥ ५ ॥
 
 
नृभावं यः प्रपन्नानां हिनस्ति च तथा नृषु । 
 
सिंहः सत्त्वेष्विवोत्कृष्टस्तं नृसिंहं नमाम्यहम् ॥ ६ ॥
 
 
यस्माद्विभ्यति वातर्कज्वलनेन्द्राः समृत्यवः । 
 
भियं तनोति पापानां भीषणं तं नमाम्यहम् ॥ ७ ॥
 
 
परस्य योग्यतापेक्षारहितो नित्यमङ्गलम् । 
 
ददात्येव निजौदार्याद्यस्तं भद्रं नमाम्यहम् ॥ ८ ॥
 
 
यो मृत्युं निजदासानां नाशयत्यखिलेष्टदः । 
 
तत्रोदाहृतये व्याधो मृत्युमृत्युं नमाम्यहम् ॥ ९ ॥
 
 
यत्पादपद्मप्रणतो भवत्युत्तमपुरुषः । 
 
तमजं सर्वदेवानां नमनीयं नमाम्यहम् ॥ १० ॥
 
 
अहंभावं समुत्सृज्य दास्येनैव रघुत्तमम् । 
 
भजेऽहं प्रत्यहं रामं ससीतं सहलक्ष्मणम् ॥ ११ ॥
 
 
नित्यं श्रीरामभक्तस्य किंकरा यमकिंकराः । 
 
शिवमय्यो दिशस्तस्य सिद्धयस्तस्य दासिकाः ॥ १२ ॥
 
 
इमं हनुमता प्रोक्तं मन्त्रराजात्मकं स्तवम् । 
 
पठत्यनुदिनं यस्तु स रामे भक्तिमान् भवेत् ॥ १३ ॥
 
॥ इति श्री हनुमत प्रोक्ता मन्त्रराजात्मक रामस्तव संपूर्णम् ॥
 

 

श्री हनुमत प्रोक्ता मन्त्रराजात्मक रामस्तव स्तोत्र
श्री हनुमत प्रोक्ता मन्त्रराजात्मक रामस्तव स्तोत्र


Leave a comment