श्री घटिकाचल हनुमान स्तोत्र


॥ श्रीघटिकाचलहनुमत्स्तोत्रम् ॥

 
ब्रह्माण्डपुराणतः स्तोत्रं
 
अतिपाटलवक्त्राब्जं धृतहेमाद्रिविग्रहम् ।
 
आञ्जनेयं शङ्खचक्रपाणिं चेतसि धीमहि ॥ १॥
 
 
श्रीयोगपीठविन्यस्तव्यत्यस्तचरणाम्बुजम् ।
 
दरार्यभयमुद्राक्षमालापट्टिकया युतम् ॥ २॥
 
 
पारिजाततरोर्मूलवासिनं वनवासिनम् ।
 
पश्चिमाभिमुखं बालं नृहरेर्ध्यानसंस्थितम् ॥ ३॥
 
 
सर्वाभीष्टप्रदं नॄणां हनुमन्तमुपास्महे ।
 
नारद उवाच
 
स्थानानामुत्तमं स्थानं किं स्थानं वद मे पितः ।
 
ब्रह्मोवाच ब्रह्मन् पुरा विवादोऽभून्नारायणकपीशयोः ॥
 
 
तत्तेऽहं सम्प्रवक्ष्यामि सावधानमनाः शृणु ।
 
एकमासाद्वरदः साक्षात् द्विमासाद्रङ्गनायकः ॥ १॥
 
 
मासार्धेन प्रवक्ष्यमि तथा वै वेङ्कटेश्वरः ।
 
अर्धमासेन दास्यामि कृतं तु परमं शिवम् ॥ २॥
 
 
घटिकाचलसंस्थानाद्धटिकाचलवल्लभः ।
 
हनुमानञ्जनासूनू रामभक्तो जितेन्द्रियः ॥ ३॥
 
 
घटिकादेव काम्यानां कामदाता भवाम्यहम् ।
 
शङ्खचक्रप्रदो येन प्रदास्यामि हरेः पदम् ॥ ४॥
 
 
घटिकाचलसंस्थाने घटिकां वसते यदि ।
 
स मुक्तः सर्वलोकेषु वायुपुत्रप्रसादतः ॥ ५॥
 
 
ब्रह्मतीर्थस्य निकटे राघवेन्द्रस्य सन्निधौ ।
 
वायुपुत्रं समालोक्य न भयं विद्यते नरे ॥ ६॥
 
 
तस्माद्वायुसुतस्थानं पवित्रमतिदुलर्भम् ।
 
पूर्वाब्धेः पश्चिमे भागे दक्षिणाब्धेस्तथोत्तरे ॥ ७॥
 
 
वेङ्कटाद्दक्षिणे भागे पर्वते घटिकाचले ।
 
तत्रैव ऋषयः सर्वे तपस्तप्यन्ति सादरम् ॥ ८॥
 
 
पञ्चाक्षरमहामन्त्रं द्विषट्कं च द्विजातिनाम् ।
 
नाममन्त्रं ततः श्रीमन् स्त्रीशूद्राणामुदाहृतम् ॥ ९॥
 
 
तत्र स्नात्वा ब्रह्मतीर्थे नत्वा तं वायुमन्दिरे ।
 
वायुपुत्रं भजेन्नित्यं सर्वारिष्टविवर्जितः ॥ १०॥
 
 
सेवते मण्डलं नित्यं तथा वै ह्यर्धमण्डलम् ।
 
वाञ्छितं विन्दते नित्यं वायुपुत्रप्रसादतः ॥ ११॥
 
 
तस्मात्त्वमपि भोः पुत्र निवासं घटिकाचले ॥ ११॥
 
नारद उवाच
 
कथं वासः प्रकर्तव्यो घटिकाचलमस्तके ।
 
केन मन्त्रेण बलवानाञ्जनेयः प्रसीदति ॥ १२॥
 
 
विधानं तस्य मन्त्रस्य होमं चैव विशेषतः ।
 
कियत्कालं तत्र वासं कर्तव्यं तन्ममावद ॥ १३॥
 
ब्रह्मोवाच
 
ब्रह्मतीर्थे ततः स्नत्वा हनुमत्संमुखे स्थितः ।
 
द्वादशाक्षरमन्त्रं तु नित्यमष्टसहस्रकम् ॥ १४॥
 
 
जपेन्नियमतः शुद्धस्तद्भक्तस्तु परायणः ।
 
निराहारः फलाहारो ब्रह्मचर्यव्रते स्थितः ॥ १५॥
 
 
मण्डलं तत्र वस्तव्यं भक्तियुक्तेन चेतसा ।
 
ध्यानश्लोकं प्रवक्ष्यामि शृणु नारद तत्वतः ॥ १६॥
 
 
तमञ्जनानन्दनमिन्दुबिम्बनिभाननं सुन्दरमप्रमेयम् ।
 
सीतासुतं सूक्ष्मगुणस्वदेहं श्रीरामपादार्पणचित्तवृत्तिम् ॥ १७॥
 
 
एवं ध्यात्वा सदा भक्त्या तत्पादजलजं मुदा ।
 
चतुर्थांशेन होमं वा कर्तव्यं पायसेन च ॥ १८॥
 
 
विधिना विधियुक्तस्तु विदित्वा घटिकाचलम् ।
 
जगाम जयमन्विच्छन्निन्द्रियाणां महामनाः ॥ १९॥
 
 
एवं नियमयुक्तः सन् यः करोति हरेः प्रियम् ।
 
विजयं विन्दते देही वायुपुत्रप्रसादतः ॥ २०॥
 
 
इति ब्रह्माण्डपुराणतः श्रीघटिकाचल हनुमान स्तोत्र सम्पूर्णम् ।
 

 

Ghatikachal Hanuman Stotram,श्री घटिकाचल हनुमान स्तोत्र
Ghatikachal Hanuman Stotram


Leave a comment