श्रीगणेशाष्टकम्

यतोऽनंतशक्तेरनंताश्च जीवाः यतो निर्गुणादप्रमेया गुणास्ते ।
यतो भाति सर्वं त्रिधाभेदभिन्नं सदा तं गणेशं नमामो भजामः ॥ १ ॥
 
यतश्चाविरासीज्जगत्सर्वमेतत् तथाब्जासनो विश्वगो विश्वगोप्ता ।
तथेन्द्रादयो देवसंघा मनुष्याः सदा तं गणेशं नमामो भजामः ॥ २ ॥
 
यतो वह्निभानू  भवोभूर्जलं च यतस्सागराश्चन्द्रमा व्योमवायुः ।
यतः स्थावरा जंगमा वृक्षसंघाः सदा तं गणेशं नमामो भजामः ॥ ३ ॥

यतो दानवाः किन्नरा यक्षसंघाः यतश्चारणा वारणाः श्वापदाश्च ।
यतः पक्षिकीटाः यतो वीरुधश्च सदा तं गणेशं नमामो भजामः ॥ ४ ॥
 
यतो बुद्धिरज्ञाननाशो मुमुक्षो: यतस्संपदो भक्तसंतोषिकाः स्युः । 
यतो विघ्ननाशो यतः कार्यसिद्धिः सदा तं गणेशं नमामो भजामः  ॥ ५ ॥
 
यतो पुत्रसंपद्यतो वांछितार्थो यतोऽभक्तविघ्नास्तथानेकरूपाः ।
यतः शोकमोहौ यतः काम एवं सदा तं गणेशं नमामो भजामः ॥ ६ ॥
 
यतोऽनंतशक्तिः स शेषो बभूव धराधारणेऽनेकरूपे च शक्तः ।
यतोऽनेकधा स्वर्गलोकाहि नानाः सदा तं गणेशं नमामो भजामः ॥ ७ ॥

यतो वेदवाचो विकुण्ठा मनोभिः सदा नेति नेतीति यत्ता गृणन्ति ।
परब्रह्मरूपं चिदानन्दभूतं सदा तं गणेशं नमामो भजामः ॥ ८ ॥
 
पुनरूचे गणाधीशः स्तोत्रमेतत्पठेन्नरः ।
त्रिसन्ध्यं त्रिदिनं तस्य सर्वं कार्यं भविष्यति ॥ ९ ॥
 
यो जपेदष्टदिवसं श्लोकाष्टकमिदं शुभम् ।
अष्टवारं चतुर्थ्यां तु सोऽष्टसिद्धीरवाप्नुयात् ॥ १० ॥
 
यः पठेन्मासमात्रन्तु दशवारं दिने दिने ।
स मोचयेद्बंधगतं राजवध्यं न संशयः ॥ ११ ॥

विद्याकामो लभेद्विद्यां पुत्रार्थी पुत्रमाप्नुयात् ।
वांछितांल्लभते सर्वानेकविंशतिवारतः ॥ १२ ॥
 
यो जपेत्परयाभक्त्या गजाननपरोनरः ।
एवमुक्त्वा ततो देवश्चान्तर्धानं गतो प्रभुः ॥ १३ ॥

 Ganesha Ashtak श्रीगणेशाष्टकम्

 


Leave a comment