श्री शिवाष्टकम्

 
जय शङ्कर शान्त शशाङ्करुचे रुचितार्थद सर्वद सर्वरुचे ।
शुचिदत्तगृहीतमहोपहृते हृतभक्तजनोद्धततापतते ॥ १॥
 
ततसर्वहृदम्बरवरदनुते नतवृजिनमहावनदाहकृते ।
कृतविविधचरित्रतनो सुतनो तनु विशिखविशोषणधैर्यनिधे ॥ २॥

निधनादिविवर्जितकृतनतिकृत्कृतविहितमनोरथपन्नगभृत् ।
नगभर्तृसुतार्पितवामवपुः स्ववपुःपरिपूरितसर्वजगत् ॥ ३॥
 
त्रिजगन्मयरूप विरूपसुदृगृगुदञ्चनकिञ्चनकृद्धुतभुक् ।
भवभूतपते प्रमथैकपते पतितेष्वतिदत्तकरप्रसृते ॥ ४॥
 
प्रसृताखिलभूतलसंवरणप्रणवध्वनिसौधसुधांशुधर ।
गिरिराजकुमारिकया परया परितः परितुष्ट नतोऽस्मि शिव ॥ ५॥
 
शिव देव महेश गिरीश विभो विभवप्रद शर्व शिवेश मृड ।
मृडयोडुपतीध्रजगत्त्रितयं कृतयन्त्रण भक्तिविघातकृताम् ॥ ६॥

न कृतान्तत एष बिभेमि हर प्रहराशु ममाघममोघमते ।
न मतान्तरमन्यमवैमि शिवं शिवपादनतेः प्रणतोऽस्मि ततः ॥ ७॥
 
विततेऽत्र जगत्यखिलाघहरं परितोषणमेव परं गुणवत् ।
गुणहीनमहीनमहावलयं लयपावकमीश नतोऽस्मि ततः ॥ ८॥
 
इति स्तुत्वा महादेवं विररामाङ्गिरःसुतः ।
व्यतरच्च महादेवः स्तुत्या तुष्टो वरान् बहून् ॥ ९॥
 
॥ इति शिवाष्टकं समाप्तम् ॥


Shiva ashtakam श्री शिवाष्टकम्

 

                         


Leave a comment