श्री शिव पञ्चकम् स्तोत्र 

 
॥ शिवपञ्चाननस्तोत्रम् ॥
 
प्रालेयाचलमिन्दुकुन्दधवलं गोक्षीरफेनप्रभं
 
भस्माभ्यङ्गमनङ्गदेहदहनज्वालावलीलोचनम् ।
 
 
विष्णुब्रह्ममरुद्गणार्चितपदं ऋग्वेदनादोदयं
 
वन्देऽहं सकलं कलङ्करहितं स्थाणोर्मुखं पश्चिमम् ॥ १॥
 
 
गौरं कुङ्कुमपङ्किलं सुतिलकं व्यापाण्डुकण्ठस्थलं
 
भ्रूविक्षेपकटाक्षवीक्षणलसत्संसक्तकर्णोत्पलम् ।
 
 
स्निग्धं बिम्बफलाधरं प्रहसितं नीलालकालङ्कृतं
 
वन्दे याजुषवेदघोषजनकं वक्त्रं हरस्योत्तरम् ॥ २॥
 
 
संवर्ताग्नितटित्प्रतप्तकनकप्रस्पर्द्धितेजोमयं
 
गम्भीरध्वनि सामवेदजनकं ताम्राधरं सुन्दरम् ।
 
 
अर्धेन्दुद्युतिभालपिङ्गलजटाभारप्रबद्धोरगं
 
वन्दे सिद्धसुरासुरेन्द्रनमितं पूर्वं मुखं शूलिनः ॥ ३॥
 
 
कालाभ्रभ्रमराञ्जनद्युतिनिभं व्यावृत्तपिङ्गेक्षणं
 
कर्णोद्भासितभोगिमस्तकमणि प्रोत्फुल्लदंष्ट्राङ्कुरम् ।
 
 
सर्पप्रोतकपालशुक्तिसकलव्याकीर्णसच्छेखरं
 
वन्दे दक्षिणमीश्वरस्य वदनं चाथर्ववेदोदयम् ॥ ४॥
 
 
व्यक्ताव्यक्तनिरूपितं च परमं षट्त्रिंशतत्त्वाधिकं
 
तस्मादुत्तरतत्वमक्षरमिति ध्येयं सदा योगिभिः ।
 
 
ओङ्कारदि समस्तमन्त्रजनकं सूक्ष्मातिसूक्ष्मं
 
परं वन्दे पञ्चममीश्वरस्य वदनं खव्यापितेजोमयम् ॥ ५॥
 
 
एतानि पञ्च वदनानि महेश्वरस्य ये कीर्तयन्ति पुरुषाः सततं प्रदोषे ।
 
गच्छन्ति ते शिवपुरीं रुचिरैर्विमानैः क्रीडन्ति नन्दनवने सह लोकपालैः ॥
 
॥ इति शिवपञ्चाननस्तोत्रं सम्पूर्णम् ॥
 
Shiva Panchakam श्री शिव पञ्चकम् स्तोत्र
 

Leave a comment