श्री शिव महिमा अष्टकम 

सुरवृन्दमुनीश्वरवन्द्यपदो हिमशैलविहारकरो रुचिरः ।

अनुरागनिधिर्मणिसर्पधरो जयतीह शिवः शिवरूपधरः ॥ १॥
 
भवतापविदग्धविपत्तिहरो भवमुक्तिकरो भवनामधरः ।
धृतचन्द्रशिरो विषपानकरो जयतीह शिवः शिवरूपधरः ॥ २॥
 
निजपार्षदवृन्दजयोच्चरितः करशूलधरोऽभयदानपरः ।
जटया परिभूषितदिव्यतमो जयतीह शिवः शिवरूपधरः ॥ ३॥
 
वृषभाङ्गविराजित उल्लसितः कृपया नितरामुपदेशकरः ।
त्वरितं फलदो गणयूथयुतो जयतीह शिवः शिवरूपधरः ॥ ४॥
 
अहिहारसुशोभित आप्तनुतो समुपास्यमहेश्वर आर्तिहरः ।
धृतविष्णुपदीसुजटो मुदितो जयतीह शिवः शिवरूपधरः ॥ ५॥
 
व्रजकृष्णपदाब्जपरागरतो व्रजकुञ्जसखीनवरूपधरः ।
व्रजगोपसुरेश उमाधिपतिर्जयतीह शिवः शिवरूपधरः ॥ ६॥
 
युगकेलिविलासमहारसिको रसतन्त्रपुराणकथाचतुरः ।
रसशास्त्ररसज्ञपटुर्मधुरो जयतीह शिवः शिवरूपधरः ॥ ७॥
 
यमपाशभयापहरोऽघहरः प्रबलोऽस्ति महाप्रबलः प्रखरः ।
परिपूर्णतमो हरिभक्तिभरो जयतीह शिवः शिवरूपधरः ॥ ८॥
 
शिवशान्त्यर्थदं दिव्यं श्रीशिवमहिमाष्टकम् ।
राधासर्वेश्वराख्येन शरणान्तेन निर्मितम् ॥
 
। इति श्रीनिम्बार्कपीठाधीश्वर श्रीराधासर्वेश्वरशरणदेवाचार्यजी महाराज द्वारा रचितं श्रीशिवमहिमाष्टकं सम्पूर्णम् ।
  
Shiv Mahima Ashtakam,श्री शिव महिमा अष्टकम
श्री शिव महिमा अष्टकम

Leave a comment