श्री शनि वज्र पंजर कवच 

विनियोगः ।
 
ॐ अस्य श्रीशनैश्चरवज्रपञ्जर कवचस्य कश्यप ऋषिः,
 
अनुष्टुप् छन्दः, श्री शनैश्चर देवता,
 
श्रीशनैश्चर प्रीत्यर्थे जपे विनियोगः ॥
 
 
ऋष्यादि न्यासः ।
 
श्रीकश्यप ऋषयेनमः शिरसि ।
 
अनुष्टुप् छन्दसे नमः मुखे ।
 
श्रीशनैश्चर देवतायै नमः हृदि ।
 
श्रीशनैश्चरप्रीत्यर्थे जपे विनियोगाय नमः सर्वाङ्गे ॥
 
 
ध्यानम् ।
 
नीलाम्बरो नीलवपुः किरीटी गृध्रस्थितस्त्रासकरो धनुष्मान् ।
 
चतुर्भुजः सूर्यसुतः प्रसन्नः सदा मम स्याद् वरदः प्रशान्तः ॥ १॥
 
ब्रह्मा उवाच ॥
 
शृणुध्वमृषयः सर्वे शनिपीडाहरं महत् ।
 
कवचं शनिराजस्य सौरेरिदमनुत्तमम् ॥ २॥
 
 
कवचं देवतावासं वज्रपंजरसंज्ञकम् ।
 
शनैश्चरप्रीतिकरं सर्वसौभाग्यदायकम् ॥ ३॥
 
 
ॐ श्रीशनैश्चरः पातु भालं मे सूर्यनन्दनः ।
 
नेत्रे छायात्मजः पातु पातु कणौं यमानुजः ॥ ४॥
 
 
नासां वैवस्वतः पातु मुखं मे भास्करः सदा ।
 
स्निग्धकण्ठश्च मे कण्ठं भुजौ पातु महाभुजः ॥ ५॥
 
 
स्कन्धौ पातु शनिश्चैव करौ पातु-शुभप्रदः ।
 
वक्षः पातु यमभ्राता कुक्षिं पात्वसितस्तथा ॥ ६॥
 
 
नाभिं ग्रहपतिः पातु मन्दः पातु कटिं तथा ।
 
ऊरू ममान्तकः पातु यमो जानुयुगं तथा ॥ ७॥
 
 
पादौ मन्दगतिः पातु सर्वांगं पातु पिप्पलः ।
 
अंगोपांगानि सर्वाणि रक्षेन् मे सूर्यनन्दनः ॥ ८॥
 
 
 
इत्येतत् कवचं दिव्यं पठेत् सूर्यसुतस्य यः ।
 
न तस्य जायते पीडा प्रीतो भवति सूर्यजः ॥ ९॥
 
 
व्यय-जन्म-द्वितीयस्थो मृत्युस्थानगतोऽपि वा ।
 
कलत्रस्थो गतो वाऽपि सुप्रीतस्तु सदा शनिः ॥ १०॥
 
 
अष्टमस्थे सूर्यसुते व्यये जन्मद्वितीयगे ।
 
कवचं पठते नित्यं न पीडा जायते क्वचित् ॥ ११॥
 
 
इत्येतत्कवचं दिव्यं सौरेर्यन्निर्मितं पुरा ।
 
द्वादशाऽष्टमजन्मस्थदोषान्नाशयते सदा ।
 
जन्मलग्नस्थितान् दोषान् सर्वान्नाशयते प्रभुः ॥ १२॥
 
 
॥ इति श्री ब्रह्माण्डपुराणे ब्रह्म-नारदसंवादे शनिवज्रपंजरकवचम् सम्पूर्णम् ॥
 
Shree Shani Vajra Panjar Kavacham श्री शनि वज्र पंजर कवचम्‌
 

Leave a comment