सरस्वती स्तोत्रम् 

सरस्वतीं नमस्यामि चेतनानां हृदिस्थितां ।
 
कण्ठस्थां पद्मयोनेस्तु हिमाकरप्रियास्पदाम् ॥ १ ॥
 
 
मतिदां वरदां शुद्धां वीणाहस्तवरप्रदां ।
 
ऐं ऐं मन्त्रप्रियां ह्रीं ह्रां कुमतिध्वंसकारिणीम् ॥ २ ॥
 
 
सुप्रकाशां निरालम्बां अज्ञानतिमिरापहाम् ।
 
शुक्लां मोक्षप्रदां रम्यां शुभाङ्गां शोभनप्रदाम् ॥ ३ ॥
 
 
पद्मोपविष्टां कुण्डलिनीं शुक्लवर्णां मनोरमाम् ।
 
आदित्यमण्डले लीनां प्रणमामि हरिप्रियाम् ॥ ४ ॥
 
 
इति मासं स्तुतानेन  वागीशेन महात्मना ।
 
आत्मानं दर्शयामास शरदिन्दुसमप्रभाम् ॥ ५ ॥
 
 
सरस्वत्युवाच वरं वृणीष्व भद्रं ते यत्ते मनसि वर्तते ।
 
ब्रुहस्पतिः वरदा यदि मे देवि सम्यग्ज्ञानं प्रयच्छ मे ॥ ६ ॥
Saraswati Stotram,सरस्वती स्तोत्रम् 
सरस्वती स्तोत्रम् 

Leave a comment