संकटमोचन हनुमानाष्टक

॥ सङ्कटमोचन हनुमानाष्टकम् ॥

 
ततः स तुलसीदासः सस्मार रघुनन्दनम् ।
 
हनूमन्तं तत्पुरस्तात् तुष्टाव भक्तरक्षणम् ॥ १॥
 
 
धनुर्बाण धरोवीरः सीता लक्ष्मण सयुतः ।
 
रामचन्द्रस्सहायो मां किं करिष्यत्युयं मम ॥ २॥
 
 
ॐ हनुमानञ्जनी सूनो वायुपुत्रो महाबलः ।
 
महालाङ्गूल निक्षेपैर्निहताखिल राक्षसाः ॥ ३॥
 
 
श्रीराम हृदयानन्द विपत्तौशरणं तव ।
 
लक्ष्मणे निहिते भूमौ नीत्वा द्रोणाचलं युतम् ॥ ४॥
 
 
यया जीवित वा नाद्य ता शक्तिं प्रकटीं कुरु ।
 
येन लङ्केश्वरो वीरो निःशङ्कः विजितस्त्वया ॥ ५॥
 
 
दुर्निरीक्ष्योऽपिदेवानी तद्बलं दर्शयाधुना ॥ ६॥
 
 
यया लङ्कां प्रविश्य त्वं ज्ञातवान् जानकी स्वयं ।
 
रावणांतः पुरेऽत्युग्रेतां बुद्धिं प्रकटी कुरु ॥ ७॥
 
 
रुद्रावतार भक्तार्ति विमोचन महाभुज ।
 
कपिराज प्रसन्नस्त्वं शरणं तव रक्ष माम् ॥ ८॥
 
 
इत्यष्टकं हनुमतः यः पठेत् श्रद्धयान्वितः ।
 
सर्वकष्ट विनिर्मुक्तो लभते वाञ्च्छितफलम् ॥ ९ ॥
 
 
ग्रहभूतार्दितेघोरे रणे राजभयेऽथवा ।
 
त्रिवारं पठेनाच्छ्रीघ्रं नरो मुच्येत् सङ्कटात् ॥ १० ॥
 
॥ इति श्रीगोस्वामितुलसीदास विरचितं श्रीहनुमान्नाष्टकं सम्पूर्णम् ॥
 
संकटमोचन हनुमानाष्टक, हनुमानाष्टक
हनुमान अष्टक

Leave a comment