ऋणमोचन अंगारक स्तोत्रम 

॥ ऋणमोचन अङ्गारकस्तोत्रम् ॥
 
अथ ऋणग्रस्तस्य ऋणविमोचनार्थं अङ्गारकस्तोत्रम् ।
 
स्कन्द उवाच ।
 
ऋणग्रस्तनराणां तु ऋणमुक्तिः कथं भवेत् ।
 
ब्रह्मोवाच ।
 
वक्ष्येऽहं सर्वलोकानां हितार्थं हितकामदम् ।
 
अस्य श्री अङ्गारकमहामन्त्रस्य गौतम ऋषिः ।
 
अनुष्टुप्छन्दः । अङ्गारको देवता ।
 
मम ऋणविमोचनार्थे अङ्गारकमन्त्रजपे विनियोगः ।
 
 
ध्यानम् ।
 
रक्तमाल्याम्बरधरः शूलशक्तिगदाधरः ।
 
चतुर्भुजो मेषगतो वरदश्च धरासुतः ॥ १॥
 
 
मङ्गलो भूमिपुत्रश्च ऋणहर्ता धनप्रदः ।
 
स्थिरासनो महाकायो सर्वकामफलप्रदः ॥ २॥
 
 
लोहितो लोहिताक्षश्च सामगानां कृपाकरः ।
 
धरात्मजः कुजो भौमो भूमिदो भूमिनन्दनः ॥ ३॥
 
 
अङ्गारको यमश्चैव सर्वरोगापहारकः ।
 
सृष्टेः कर्ता च हर्ता च सर्वदेशैश्च पूजितः ॥ ४॥
 
 
एतानि कुजनामानि नित्यं यः प्रयतः पठेत् ।
 
ऋणं न जायते तस्य श्रियं प्राप्नोत्यसंशयः ॥ ५॥
 
 
अङ्गारक महीपुत्र भगवन् भक्तवत्सल ।
 
नमोऽस्तु ते ममाशेषं ऋणमाशु विनाशय ॥ ६॥
 
 
रक्तगन्धैश्च पुष्पैश्च धूपदीपैर्गुडोदनैः ।
 
मङ्गलं पूजयित्वा तु मङ्गलाहनि सर्वदा ॥ ७॥
 
 
एकविंशति नामानि पठित्वा तु तदन्तिके ।
 
ऋणरेखा प्रकर्तव्या अङ्गारेण तदग्रतः ॥ ८॥
 
 
ताश्च प्रमार्जयेन्नित्यं वामपादेन संस्मरन् ।
 
एवं कृते न सन्देहः ऋणान्मुक्तः सुखी भवेत् ॥ ९॥
 
 
महतीं श्रियमाप्नोति धनदेन समो भवेत् ।
 
भूमिं च लभते विद्वान् पुत्रानायुश्च विन्दति ॥ १०॥
 
 
मूलमन्त्रः।
 
अङ्गारक महीपुत्र भगवन् भक्तवत्सल ।
 
नमस्तेऽस्तु महाभाग ऋणमाशु विनाशय ॥ ११॥
 
 
अर्घ्यम् । भूमिपुत्र महातेजः स्वेदोद्भव पिनाकिनः ।
 
ऋणार्थस्त्वां प्रपन्नोऽस्मि गृहाणार्घ्यं नमोऽस्तु ते ॥ १२॥
 
 
। इति ऋणमोचन अङ्गारकस्तोत्रं सम्पूर्णम् ।
 
 
Rin Mochan Angaraka Stotram,ऋणमोचन अंगारक स्तोत्रम
ऋणमोचन अंगारक स्तोत्रम

ऋणमोचन अंगारक स्तोत्रम PDF


Leave a comment