श्री रामाष्टकम् 

कृतार्तदेववन्दनं दिनेशवंशनन्दनम् ।
 
सुशोभिभालचन्दनं नमामि राममीश्वरम् ॥ १ ॥
 
 
मुनीन्द्रयज्ञकारकं शिलाविपत्तिहारकम् ।
 
महाधनुर्विदारकं नमामि राममीश्वरम् ॥ २ ॥
 
 
स्वतातवाक्यकारिणं तपोवने विहारिणम् ।
 
करे सुचापधारिणं नमामि राममीश्वरम् ॥ ३ ॥
 
 
कुरङ्गमुक्तसायकं जटायुमोक्षदायकम् ।
 
प्रविद्धकीशनायकं नमामि राममीश्वरम् ॥ ४ ॥
 
 
प्लवङ्गसङ्गसम्मतिं निबद्धनिम्नगापतिम् ।
 
दशास्यवंशसङ्क्षतिं नमामि राममीश्वरम् ॥ ५ ॥
 
 
विदीनदेवहर्षणं कपीप्सितार्थवर्षणम् ।
 
स्वबन्धुशोककर्षणं नमामि राममीश्वरम् ॥ ६ ॥
 
 
गतारिराज्यरक्षणं प्रजाजनार्तिभक्षणम् ।
 
कृतास्तमोहलक्षणं नमामि राममीश्वरम् ॥ ७ ॥
 
 
हृताखिलाचलाभरं स्वधामनीतनागरम् ।
 
जगत्तमोदिवाकरं नमामि राममीश्वरम् ॥ ८ ॥
 
 
इदं समाहितात्मना नरो रघूत्तमाष्टकम् ।
 
पठन्निरन्तरं भयं भवोद्भवं न विन्दते ॥ ९ ॥
 
 
श्री रामाष्टकम्
श्री रामाष्टकम्

Leave a comment