श्री महागणेश पंचरत्न स्तोत्र 


सरागलोकदुर्लभं विरागिलोकपूजितं,

सुरासुरैर्नमस्कृतं जरापमृत्युनाशकम् ।
 
गिरागुरुं श्रियाहरिं जयन्ति यत्पदार्चकाः,
नमामि तं गणाधिपं कृपापयःपयोनिधिम् ॥ १ ॥
 
गिरीन्द्रजामुखांबुज-प्रमोददान-भास्करं,
करीन्द्रवक्त्र-मानताघसंघ-वारणोद्यतम् ।
 
सरीसृपेश-बद्धकुक्षि-माश्रयामि संततं,
शरीरकान्ति-निर्जिताब्जबन्धु-बालसंततिम् ॥ २ ॥
 
शुकादिमौनिवन्दितं गकारवाच्यमक्षरं,
प्रकाममिष्टदायिनं सकामनम्रपंक्तये ।
 
चकासतं चतुर्भुजैः विकासपद्म पूजितं,
प्रकाशितात्मतत्वकं नमाम्यहं गणाधिपम् ॥ ३ ॥
 
नराधिपत्वदायकं स्वरादिलोकदायकं,
ज्वरादिरोगवारकं निराकृतासुरव्रजम् ।
 
करांबुजोल्लसत्सृणिं विकारशून्यमानसैः,
हृदा सदा विभावितं मुदा नमामि विघ्नपम् ॥ ४ ॥
 
श्रमापनोदनक्षमं समाहितान्तरात्मनां,
सुमादिभिस्सदार्चितं क्षमानिधिं गणाधिपम् ।
 
रमाधवादिपूजितं यमान्तकात्मसंभवं,
शमादिषड्गुणप्रदं नमामि तं विभूतये ॥ ५ ॥
 
गणाधिपस्य पंचकं नृणामभीष्टदायकं,
प्रणामपूर्वकं जनाः पठन्ति ये मुदायुताः ।
 
भवन्ति ते विदांपुरः प्रगीतवैभवा जवात्,
चिरायुषोऽधिकश्रियस्सुसूनवो न संशयः ॥ ६ ॥
 
श्री महागणेश पंचरत्न स्तोत्र
श्री महागणेश पंचरत्न स्तोत्र

Leave a comment