हनुमत् मंगलाष्टक प्रसन्नाञ्जनेय मंगलाष्टक 

 
भास्वद्वानररूपाय वायुपुत्राय धीमते ।
 
अञ्जनीगर्भजाताय आञ्जनेयाय मङ्गलम् ॥ १॥
 
 
सूर्यशिष्याय शूराय सूर्यकोटिप्रकाशिने ।
 
सुरेन्द्रादिभिर्वन्द्याय आञ्जनेयाय मङ्गलम् ॥ २॥
 
 
रामसुग्रीवसन्धात्रे रामायार्पितचेतसे ।
 
रामनामैक निष्ठाय राममित्राय मङ्गलम् ॥ ३॥
 
 
मनोजवेन गन्त्रे च समुद्रोल्लङ्घनाय च ।
 
मैनाकार्चितपादाय रामदूताय मङ्गलम् ॥ ४॥
 
 
निर्जित सुरसायास्मै संहृतसिंहिकासवे ।
 
लङ्किणीगर्वभङ्गाय रामदूताय मङ्गलम् ॥ ५॥
 
 
हृतलङ्केशगर्वाय लङ्कादहनकारिणे ।
 
सीताशोकविनाशाय रामदूताय मङ्गलम् ॥ ६॥
 
 
भीभत्सरणरङ्गाय दुष्टदैत्य विनाशिने ।
 
रामलक्ष्मणवाहाय रामभृत्याय मङ्गलम् ॥ ७॥
 
 
धृतसञ्जीवहस्ताय कृतलक्ष्मणजीविने ।
 
भृतलङ्कासुरार्ताय रामभटाय मङ्गलम् ॥ ८॥
 
 
जानकीरामसन्धात्रे जानकीह्लादकारिणे ।
 
हृत्प्रतिष्ठितरामाय रामदासाय मङ्गलम् ॥ ९॥
 
 
रम्ये धर्मपुरीक्षेत्रे नृसिंहस्य च मन्दिरे ।
 
विलसद् रामनिष्ठाय वायुपुत्राय मङ्गलम् ॥ १०॥
 
 
गायन्तं राम रामेति भक्तं तं रक्षकाय च ।
 
श्री प्रसन्नाञ्जनेयाय वरदात्रे च मङ्गलम् ॥ ११॥
 
 
विश्वलोकसुरक्षाय विश्वनाथनुताय च ।
 
श्रीप्रसन्नाञ्जनेयाय वरदात्रे च मङ्गलम् ॥ १२॥
 
॥ इति श्रीकोरिडे विश्वनाथशर्मणाविरचितं श्रीमद्धर्मपुरी प्रसन्नाञ्जनेय मङ्गलाष्टकं सम्पूर्णम् ॥

 

हनुमत् मंगलाष्टक प्रसन्नाञ्जनेय मंगलाष्टक,Hanuman Mangalashtakam Prasan Anjaneya
हनुमत् मंगलाष्टक प्रसन्नाञ्जनेय मंगलाष्टक

Leave a comment