गुरुवायु पुरेश मङ्गल स्तुति Guruvayupuresa Mangala Stuti
श्री कृष्णाय मुकुन्दाय श्रीराजद्दिव्यवर्ष्मणे |
गुरुवायुपुरेशाय जगदीशाय मङ्गलं ||१||
करुणार्द्रमनस्काय तरुणारुणरोचिषे |
गुरुवायुपुरेशाय हृषीकेशाय मङ्गलं ||२||
विश्वपालनदीक्षाय विश्वसन्तापहारिणे ।
गुरुवायुपुरेशाय वासुदेवाय मङ्गलं ॥३॥
भवाब्द्धितारकायाऽब्जभवाभीष्टद कर्मणे ।
गुरुवायु पुरेशाय नन्दपुत्राय मङ्गलं ॥४॥
पयोधिकन्यापतये पयोदोपम मूर्तये ।
गुरुवायुपुरेशाय नन्दपुत्राय मङ्गलं॥५॥
तापापनोदलोलाय पापारण्यदवाग्नये ।
गुरुवायुपुरेशाय देवदेवाय मङ्गलं ॥६॥