श्री घटिकाचल हनुमत्स्तोत्रम्

॥ श्रीघटिकाचलहनुमत्स्तोत्रम् ॥
 
 
शङ्खचक्रधरं देवं घटिकाचलवासिनम् ।
 
योगारूढं ह्याञ्जनेयं वायुपुत्रं नमाम्यहम् ॥ १॥
 
 
भक्ताभीष्टप्रदातारं चतुर्बाहुविराजितम् ।
 
दिवाकरद्युतिनिभं वन्देऽहं पवनात्मजम् ॥ २॥
 
 
कौपीनमेखलासूत्रं स्वर्णकुण्डलमण्डितम् ।
 
लङ्घिताब्धिं रामदूतं नमामि सततं हरिम् ॥ ३॥
 
 
दैत्यानां नाशनार्थाय महाकायधरं विभुम् ।
 
गदाधरकरो यस्तं वन्देऽहं मारुतात्मजम् ॥ ४॥
 
 
नृसिंहाभिमुखो भूत्वा पर्वताग्रे च संस्थितम् ।
 
वाञ्छन्तं ब्रह्मपदवीं नमामि कपिनायकम् ॥ ५॥
 
 
बालादित्यवपुष्कं च सागरोत्तारकारकम् ।
 
समीरवेगं देवेशं वन्दे ह्यमितविक्रमम् ॥ ६॥
 
 
पद्मरागारुणमणिशोभितं कामरूपिणम् ।
 
पारिजाततरुस्थं च वन्देऽहं वनचारिणम् ॥ ७॥
 
 
रामदूत नमस्तुभ्यं पादपद्मार्चनं सदा ।
 
देहि मे वाञ्छितफलं पुत्रपौत्रप्रवर्धनम् ॥ ८॥
 
 
इदं स्तोत्रं पठेन्नित्यं प्रातःकाले द्विजोत्तमः ।
 
तस्याभीष्टं ददात्याशु रामभक्तो महाबलः ॥ ९॥
  
Ghatikachala Hanuman Stotra,श्री घटिकाचल हनुमत्स्तोत्रम्
Ghatikachala Hanuman Stotra


Leave a comment