श्रीगणेशाष्टकम् 

गणपति परिवारं चारुकेयूरहारं गिरिधरवरसारं योगिनीचक्रचारम् ।
भवभयपरिहारं दुःखदारिद्‌र्य दूरं गणपतिमभिवंदे वक्रतुण्डावतारम् ॥ १ ॥
 
अखिलमलविनाशं पाणिनाध्वस्तपाशं कनकगिरिनिकाशं सूर्यकोटिप्रकाशम् ।
भवभयगिरिनाशं मालतीतीरवासं गणपतिमभिवन्दे मानसे राजहंसम् ॥ २ ॥
 
विविधमणिमयूखैः शोभमानं विदूरैः कनकरचित चित्रं कंठदेशे विचित्रम् ।
दधति विमल हारं सर्वदा यत्नसारं गणपतिमभिवन्दे वक्रतुण्डावतारम् ॥ ३ ॥

दुरितगजममंदं वारुणीं चैव वेदं विदितमखिलनादं नृत्यमानंदकंदम् ।
दधति शशिसुवक्त्रं चांकुशं यो विशेषं गणपतिमभिवन्दे सर्वदानंदकंदम् ॥ ४ ॥
 
त्रिणयनयुतफाले शोभमाने विशाले मकुटमणिसुडोले मौक्तिकानां च जाले ।
धवलकुसुममाले यस्य शीर्ष्णः सताले गणपतिमभिवन्दे सर्वदाचक्रपाणिम् ॥ ५ ॥
 
वपुषि महति रूपं पीठमादौ सुदीपं तदुपरि रसकोणं यस्यचोर्ध्वं त्रिकोणम् ।
गजमितदलपद्मं संस्थितं चारुछद्मं गणपतिमभिवन्दे कल्पवृक्षस्य बृंदे ॥ ६ ॥

वरदविशदहस्तं दक्षिणं यस्य हस्तं सदयमभयदं तं चिंतये चित्तसंस्थम् ।
शबलकुटिलशुण्डं चैकतुण्डं द्वितुण्डं गणपतिमभिवन्दे सर्वदा वक्रतुण्डम् ॥ ७ ॥
 
कल्पद्रुमाधःस्थितकामधेनुं चिंतामणिं दक्षिणपाणिशुण्डम् ।
बिभ्राणमत्यद्भुत चित्तरूपं यः पूजयेत् तस्य समस्तसिद्धिः ॥ ८ ॥

 Ganesha Ashtakam श्रीगणेशाष्टकम्

 


Leave a comment