धर्मशास्त्र स्तुति दशकम् 

 
आशानुरूपफलदं चरणारविन्द-भाजामपारकरुणार्णवपूर्णचन्द्रम् ।
 
नाशाय सर्वविपदामपि नौमि नित्यं ईशानकेशवभुवं भुवनैकनाथम् ॥ १ ॥
 
 
पिञ्छावलीवलयिताकलितप्रसून-संजातकान्तिभरभासुर के शभारम् ।
 
शिञ्जानमञ्जुमणिभूषितरञ्जिताङ्गं चन्द्रावतंसहरिनन्दनमाश्रयामि ॥ २ ॥
 
 
आलोलनीलललितालकहाररम्यं आकम्रनासमरुणाधरमायताक्षम् ।
 
आलम्बनं त्रिजगतां प्रमथाधिनाथं आनम्रलोकहरिनन्दनमाश्रयामि ॥ ३ ॥
 
 
कर्णावलम्बिमणिकुण्डलभासमान-गण्डस्थलं समुदिताननपुण्डरीकम् ।
 
अर्णोजनाभहरयोरिव मूर्तिमन्तं पुण्यातिरेकमिव भूतपतिं नमामि ॥ ४ ॥
 
 
उद्दण्डचारुभुजदण्डयुगाग्रसंस्थ-कोदण्डबाणमहितान्तमदान्तवीर्यम् ।
 
उद्यत्प्रभापटलदीप्रमदभ्रसारं नित्यं प्रभापतिमहं प्रणतो भवामि ॥ ५ ॥
 
 
मालेयपङ्कसमलङ्कृतभासमान-दोरन्तरालतरलामलहारजालम् ।
 
नीलातिनिर्मलदुकूलधरं मुकुन्द-कालान्तकप्रतिनिधिं प्रणतोऽस्मि नित्यम् ॥ ६ ॥
 
 
यत्पादपङ्कजयुगं मुनयोऽप्यजस्रं भक्त्या भजन्ति भवरोगनिवारणाय ।
 
पुत्रं पुरान्तकमुरान्तकयोरुदारं नित्यं नमाम्यहममित्रकुलान्तकं तम् ॥ ७ ॥
 
 
कान्तं कलायकुसुमद्युति लोभनीय-कान्तिप्रवाहविलसत् कमनीयरूपम् ।
 
कान्तातनूजसहितं निखिलामयौघ शन्तिप्रदं प्रमथनाथमहं नमामि ॥ ८ ॥
 
 
भूतेश भूरिकरुणामृतपूरपूर्ण-वारान्निधे वरद भक्तजनैकबन्धो ।
 
पायात् भवान् प्रणतमेनमपारगघोर-संसारभीतमिह मामखिलामयेभ्यः ॥ ९ ॥
 
 
हे भूतनाथ भगवन् भवदीयचारु-पादाम्बुजे भवतु भक्तिरचञ्चला मे ।
 
नाथाय सर्वजगतां भजतां भवाब्धि-पोताय नित्यमखिलाङ्गभुवे नमस्ते ॥ १० ॥
 
 
DharmaSastha धर्मशास्त्र स्तुति दशकम्
 
 

Leave a comment