शिव भुजंगम || Shiva Bhujangam || Shiva Bhujanga

गलद्दानगण्डं मिलद्भृङ्गषण्डं चलच्चारुशुण्डं जगत्त्राणशौण्डम् ।



कनद्दन्तकाण्डं  विपद्भङ्गचण्डं शिवप्रेमपिण्डं भजे वक्रतुण्डम् ॥ १ ॥


अनाद्यन्तमाद्यं परं तत्वमर्थं चिदाकारमेकं तुरीयं त्वमेयं ।

हरिब्रह्ममृग्यं परब्रह्मरूपं मनोवागतीतं महःशैवमीडे ॥ २ ॥


स्वशक्त्यादिशक्त्यन्तसिंहासनस्थं मनोहारिसर्वाङ्गरत्नोरुभूषं ।

जटाहीन्दुगंगास्थिशम्याकमौलिं पराशक्तिमित्रं नुमः पञ्चवक्त्रम् ॥ ३ ॥


शिवेशानतत्पूरुषाघोरवामादिभिः पञ्चभिर्हृन्मुखैः षड्भिरंगैः ।

अनौपम्यषड्त्रिंशतं तत्वविद्यामतीतं परं त्वां कथं वेत्ति को वा महेश ॥ ४ ॥


प्रवालप्रवाहप्रभाशोणमर्धं मरुत्वन्मणिश्रीमहःश्याममर्धम् ।

गुणस्यूतमेतद्वपुः शैवमन्तः स्मरामि स्मरापत्तिसंपत्तिहेतोः ॥ ५ ॥


स्वसेवासमायात-देवासुरेन्द्रा-नमन्मौलि-मन्दारमालाभिषक्तं ।

नमस्यामि शंभो पदांभोरुहं ते भवांभोधिपोतं भवानीविभाव्यम् ॥ ६ ॥


जगन्नाथ मन्नाथ गौरीसनाथ प्रपन्नानुकम्पिन्विपन्नार्तिहारिन् ।

महःस्तोममूर्ते समस्तैकबन्धो नमस्ते नमस्ते पुनस्ते नमोस्तु ॥ ७ ॥


विरूपाक्ष विश्वेश विश्वादिदेव त्रयीमूल शंभो शिव त्रयंबक त्वं ।

प्रसीद स्मर त्राहि पश्यावमुक्त्यै क्षमां प्राप्नुहि त्र्यक्ष मां रक्ष मोदात् ॥ ८ ॥


महादेव देवेश देवादिदेव स्मरारे पुरारे यमारे हरेति ।

ब्रुवाणः स्मरिष्यामि भक्त्या भवन्तं ततो मे दयाशील देव प्रसीद ॥ ९ ॥


त्वदन्यः शरण्यः प्रपन्नस्य नेति प्रसीद स्मरन्नेव हन्यास्तु दैन्यं ।

न चेत्ते भवद्भक्तवात्सल्यहानि-स्ततो मे दयालो सदा सन्निधेहि ॥ १० ॥



अयं दानकालस्त्वहं दानपात्रं भवानेव दाता त्वदन्यं न याचे ।

भवद्भक्तिमेव स्थिरां देहि मह्यं कृपाशील शंभॊ कृतार्थॊऽस्मि तस्मात् ॥ ११ ॥


पशुं वेत्सि चेन्मां तमेवाधिरूढः कलंकीति वा मूर्ध्नि धत्से तमेव ।

द्विजिह्वः पुनः सोऽपि ते कण्ठभूषा त्वदङ्गीकृताः शर्व सर्वेऽपि धन्याः ॥ १२ ॥


न शक्नोमि कर्तुं परद्रोहलेशं कथं प्रीयसे त्वं न जाने गिरीश ।

तथा हि प्रसन्नोऽसि कस्यापि कान्ता-सुतद्रोहिणो वा पितृद्रोहिणो वा ॥ १३ ॥


स्तुतिं ध्यानमर्चां यथावद्विधातुं भजन्नप्यजानन्महेशावलंबे ।

त्रसन्तं सुतं त्रातुमग्रे मृकण्डो-र्यमप्राणनिर्वापणं त्वत्पदाब्जम् ॥ १४ ॥


शिरोदृष्टिहृद्रोगशूलप्रमेह-ज्वरार्शोजरायक्ष्महिक्काविषार्तान् ।

त्वमाद्यो भिषग्भेषजं भस्म शंभो त्वमुल्लाघयास्मान्वपुर्लाघवाय ॥ १५ ॥


दरिद्रोऽस्म्यभद्रोऽस्मि भग्नोऽस्मि दूये विषण्णोऽस्मि सन्नोऽस्मि खिन्नोऽस्मि चाहं ।

भवान्प्राणिनामन्तरात्माऽसि शंभो ममाधिं न वेत्सि प्रभो रक्ष मां त्वं ॥ १६ ॥


त्वदक्ष्णोः कटाक्षः पतेत् त्र्यक्ष यत्र क्षणं क्ष्मा च लक्ष्मीः स्वयं तं वृणाते ।

किरीटस्फुरच्चामरच्छत्रमाला कलापीगजक्षौमभूषाविशेषैः ॥ १७ ॥


भवान्यै भवायापि मात्रे च पित्रे मृडान्यै मृडायाप्यघघ्न्यै मखघ्ने ।

शिवाङ्ग्यै शिवाङ्गाय कुर्मः शिवायै शिवायांबिकायै नमस्त्र्यंबकाय ॥ १८ ॥


भवद्गौरवं मल्लघुत्वं विदित्वा प्रभो रक्ष कारुण्यदृष्ट्यानुगं माम् ।

शिवात्मानुभावस्तुतावक्षमोऽहं स्वशक्त्या कृतं मेऽपराधं क्षमस्व ॥ १९ ॥


यदा कर्णरन्ध्रं व्रजेत्कालवाह-द्विषत्कण्ठघण्टाघणत्कारनादः ।

वृषाधीशमारुह्य देवौपवाह्यं तदा वत्स मा भीरिति प्रीणय त्वं ॥ २० ॥



यदा दारुणाभाषणा भीषणा मे भविष्यन्त्युपान्ते कृतान्तस्य दूताः ।

तदा मन्मनस्त्वत्पदांभोरुहस्थं कथं निश्चलं स्यान्नमस्तेऽस्तु शंभो ॥ २१ ॥


यदा दुर्निवारव्यथोऽहं शयानो लुठन्निःश्वसन्निःसृताव्यक्तवाणिः ।



तदा जह्नुकन्याजलालंकृतं ते जटामण्डलं मन्मनोमन्दिरं स्यात् ॥ २२ ॥


यदा पुत्रमित्रादयो मत्सकाशे रुदन्त्यस्य हा कीदृशीयं दशेति ।

तदा देवदेवेश गौरीश शंभो नमस्ते शिवायेत्यजस्रं ब्रवाणि ॥ २३ ॥


यदा पश्यतां मामसौ वेत्ति नास्मा-नयं श्वास एवेति वाचो भवेयुः ।

तदा भूतिभूषं भुजङ्गावनद्धं पुरारे भवन्तं स्फुटं भावयेयम् ॥ २४ ॥


यदा यातनादेहसंदेहवाही भवेदात्मदेहे न मोहो महान् मे ।

तदाऽऽकाशशीतांशुसंकाशमीश स्मरारे वपुस्ते नमस्ते स्मराणि ॥ २५ ॥


यदापारमच्छायमस्थानमद्भि-र्जनैर्वा विहीनं गमिष्यामि मार्गं ।

तदा तं निरुन्धन् कृतान्तस्य मार्गं महादेव मह्यं मनोज्ञं प्रयच्छ ॥ २६ ॥


यदा रौरवादि स्मरन्नेव भीत्या व्रजाम्यत्र मोहं महादेव घोरं ।

तदा मामहो नाथ कस्तारयिष्य-त्यनाथं पराधीनमर्धेन्दुमौले ॥ २७ ॥


यदा श्वेतपत्रायतालङ्घ्यशक्तेः कृतान्ताद्भयं भक्तवात्सल्यभावात् ।

तदा पाहि मां पार्वतीवल्लभान्यं न पश्यामि पातारमेतादृशं मे ॥ २८ ॥


इदानीमिदानीं मृतिर्मे भवित्री-त्यहो संततं चिन्तया पीडितोऽस्मि ।

कथं नाम माभून्मृतौ भीतिरेषा नमस्ते गतीनां गते नीलकण्ठ ॥ २९ ॥


अमर्यादमेवाहमाबालवृद्धं हरन्तं कृतान्तं समीक्ष्यास्मि भीतः ।

मृतौ तावकाङ्घ्र्‌यब्ज-दिव्यप्रसादाद्-भवानीपते निर्भयोऽहं भवानि ॥ ३० ॥



जराजन्मगर्भाधिवासादि दुःखा-न्यसह्यानि जह्यां जगन्नाथ देव ।

भवन्तं विना मे गतिर्नैव शंभो दयालो न जागर्ति किं वा दया ते ॥ ३१ ॥


शिवायेति शब्दो नमः पूर्व एष स्मरन्मुक्तिकृन्मृत्युहा तत्ववाची ।

महेशान मा गान्मनस्तो वचस्तः सदा मह्यमेतत् प्रदानं प्रयच्छ ॥ ३२ ॥


त्वमप्यंब मां पश्य शीतांशुमौलि-प्रिये  भेषजं त्वं भवव्याधिशान्तौ ।

बहुक्लेशभाजं पदांभोजपोते भवाब्धौ निमग्नं नयस्वाद्य पारं ॥ ३३ ॥


अनुद्यल्ललाटाक्षि-वह्निप्ररोहै- रवामस्फुरच्चारु-वामोरुशोभैः ।

अनंगभ्रमद्भोगिभूषाविशेषै- रचन्द्रार्धचूडैरलं दैवतैर्नः ॥ ३४ ॥


अकण्ठेकलङ्कादनङ्गे भुजङ्गा-दपाणौ कपालादफालेनलाक्षात् ।

अमौलौशशाङ्कादवामेकलत्रा-दहं देवमन्यं न मन्ये न मन्ये ॥ ३५ ॥


महादेव शंभो गिरीश त्रिशूलिं-स्त्वयीदं समस्तं विभातीति यस्मात् ।

शिवादन्यथा दैवतं नाभिजाने शिवोऽहं शिवोऽहं शिवोऽहं शिवोऽहम् ॥ ३६ ॥


यतोऽजायतेदं प्रपञ्चं विचित्रं स्थितिं याति यस्मिन् यदेकान्तमन्ते ।

स कर्मादिहीनः स्वयंज्योतिरात्मा शिवोऽहं शिवोऽहं शिवोऽहं शिवोऽहम् ॥ ३७ ॥


किरीटेनिशेशो ललाटे हुताशो भुजे भोगिराजो गले कालिमा च ।

तनौ कामिनी यस्य तत्तुल्यदेवं न जाने न जाने न जाने न जाने ॥ ३८ ॥


अनेन स्तवेनादरादंबिकेशं परां भक्तिमासाद्य यं ये नमन्ति ।

मृतौ निर्भयास्ते जनास्तं भजन्ते हृदंभोजमध्ये सदासीनमीशम् ॥ ३९ ॥


भुजङ्गप्रियाकल्प शंभो मयैवं भुजङ्गप्रयातेन वृत्तेन क्लिप्तं ।

नरः स्तोत्रमेतत् पठित्वोरुभक्त्या सुपुत्रायुरारोग्यमैश्वर्यमेति ॥ ४० ॥

Shiva Bhujangam


Post a Comment

Help us to Build Neat & Clean Content.if you have any information or useful content related to this site. Please Let us know and we are happy to update our content or Publish new Content on this website.

नया पेज पुराने