माङ्गल्यस्तवम् || Mangalya Sthavam || Mangalya Stavah

दाल्भ्य उवाच-

कार्यारंभेषु सर्वेषु  दुस्स्वप्नेषु च सत्तम ।



अमङ्गल्येषु दृष्टेषु यज्जप्तव्यं तदुच्यताम् ॥१॥


येनारंभाश्च सिद्ध्यन्ति दुस्स्वप्नश्चोपशान्तये।

अमङ्गलानां दृष्टानां परिहारश्च जायते ॥२॥

पुलस्त्य उवाच –

जनार्दनं भूतपतिं जगद्गुरुं स्मरन् मनुष्यः सततं महामुने।

दुष्टान्यशेषान्यपहन्ति साधय-त्यशेषकार्याणि च यान्यभीप्सति ॥३॥



शृणुष्व चान्यद्गदतो ममाखिलं वदामि यत्ते द्विजवर्य मङ्गलम्।

सर्वार्थसिद्धिं प्रददाति यत्सदा निहन्त्यशेषाणि च पातकानि ॥४॥


प्रतिष्ठितं यत्र जगच्चराचरं जगत्त्रये यो जगतश्च हेतुः।

जगच्च पात्यत्ति च यः स सर्वदा ममास्तु माङ्गल्यवविवृद्धये हरिः  ॥५॥



व्योमाम्बुवाय्वग्निमहीस्वरूपैः विस्तारवान् योऽणुतरोऽणुभावात्।

अस्थूलसूक्ष्मस्सततं परेश्वरो ममास्तु माङ्गल्यवविवृद्धये हरिः  ॥६॥


यस्मात्परस्मात्पुरुषादनन्तात् अनादिमध्यादधिकं न किञ्चित्।

स हेतुहेतुः परमेश्वरेश्वरो ममास्तु माङ्गल्यवविवृद्धये हरिः  ॥७॥


हिरण्यगर्भाच्युतरुद्ररूपी सृजत्यशेषं परिपाति हन्ति।

गुणाग्रणीर्यो भगवान् स सर्वदा ममास्तु माङ्गल्यवविवृद्धये हरिः  ॥८॥


परस्सुराणां परमोऽसुराणां परो यतीनां परमो मुनीनाम् ।

परस्समस्तस्य च यः स सर्वदा ममास्तु माङ्गल्यवविवृद्धये हरिः  ॥९॥


ध्यातो मुनीनामपकल्मषैर्यो ददाति मुक्तिं परमेश्वरेश्वरः।

मनोऽभिरामः पुरुषस्य सर्वदा ममास्तु माङ्गल्यवविवृद्धये हरिः  ॥१०॥


सुरेन्द्रवैवस्वतवित्तपांबुप- स्वरूपरूपी परिपाति यो जगत्।

स शुद्धशुद्धः परमेश्वरेश्वरो ममास्तु माङ्गल्यवविवृद्धये हरिः  ॥११॥


यन्नामसङ्कीर्तनतो विमुच्यते हि अनेकजन्मार्जितपापसञ्चयात् ।

पापेन्धनाग्निस्स सदैव निर्मलो ममास्तु माङ्गल्यवविवृद्धये हरिः  ॥१२॥



येनोद्धृतोऽयं धरणी रसातलात् अशेषसृष्टिस्थितिकारणादिकम् ।

बिभर्ति विश्वं जगतस्समूलं ममास्तु माङ्गल्यवविवृद्धये हरिः  ॥१३॥


पादेषु वेदा जठरे चराचरं रोमस्वशेषा मुनयो मुखे मखाः।

यस्येश्वरेशस्य स सर्वदा प्रभुः ममास्तु माङ्गल्यवविवृद्धये हरिः  ॥१४॥


समस्तयज्ञाङ्गमयं वपुः प्रभो-र्यस्याङ्गमीशेश्वरसंस्तुतस्य।

वराहरूपी भगवान् स सर्वदा ममास्तु माङ्गल्यवविवृद्धये हरिः  ॥१५॥


विक्षोभ्य सर्वोदधि तोयसंभवं दधार धात्रीं जगतश्च यो भुवम्।

यज्ञेश्वरो यज्ञपुमान् स सर्वदा ममास्तु माङ्गल्यवविवृद्धये हरिः  ॥१६॥


पातालमूलेश्वरभोगिसंहतौ विन्यस्य पादौ पृथिवीं च बिभ्रतः।

यस्योपमानं न बभूव सोऽच्युतो ममास्तु माङ्गल्यवविवृद्धये हरिः  ॥१७॥


स घर्घरं यस्य च बृंहितं मुहुः सनन्दनाद्यैर्जनलोकसंश्रितैः।

श्रुतं जयेत्युक्तिपरैस्स सर्वदा ममास्तु माङ्गल्यवविवृद्धये हरिः  ॥१८॥


एकार्णवाद्यस्य महीयसो महीं आदाय वेगेन खमुत्पतिष्यतः।

नतं वपुर्योगिवरैस्स सर्वदा ममास्तु माङ्गल्यवविवृद्धये हरिः  ॥१९॥


हतो हिरण्याक्ष महासुरः पुराणपुंसा परमॆण येन।

वराहरूपस्स पतिः प्रजापतिः ममास्तु माङ्गल्यवविवृद्धये हरिः  ॥२०॥


दंष्ट्राकरालं सुरभीतिनाशकं कृतं वपुर्दिव्यनृसिंहरूपिणा।

त्रातुं जगद्येन स सर्वदा प्रभुः ममास्तु माङ्गल्यवविवृद्धये हरिः  ॥२१॥


दैत्येन्द्रवक्षःस्थलदारदारुणैः करोरुहैर्यः क्रकचानुकारिभिः।

चिच्छेद लोकस्य भयानि सोऽच्युतो ममास्तु माङ्गल्यवविवृद्धये हरिः ॥२२॥


दन्तान्तदीप्तद्युतिनिर्मलानि यः चकार सर्वाणि दिशां मुखानि।

निनादवित्रासित दानवोह्यसौ ममास्तु माङ्गल्यवविवृद्धये हरिः ॥२३॥


यन्नामसङ्कीर्तनतो महाभयात् विमोक्षमाप्नोति न संशयं नरः।

स सर्वलोकार्तिहरो नृकेसरी ममास्तु माङ्गल्यवविवृद्धये हरिः  ॥२४॥


सटाकरालभ्रमणानिलाहताः स्फुटन्ति यस्यांबुधराः समन्ततः।

स दिव्यसिंहो स्फुरितानलेक्षणो ममास्तु माङ्गल्यवविवृद्धये हरिः  ॥२५॥


यदीक्षणज्योतिषि रश्मिमण्डलं प्रलीनमीषन्न रराज भास्वतः ।

कुतः शशाङ्कस्य स दिव्यरूपधृक् ममास्तु माङ्गल्यवविवृद्धये हरिः  ॥२६॥


अशेषदेवेशनरेश्वरेश्वरैः सदा स्तुतं यच्चरितं महाद्भुतम्।

स सर्वलोकार्तिहरो महाहरिः ममास्तु माङ्गल्यवविवृद्धये हरिः  ॥२७॥


द्रवन्ति दैत्याः प्रणमन्ति देवताः नश्यन्ति रक्षांस्यपयान्ति चारयः।

यत्कीर्तनात् सोऽद्भुतरूपकेसरी ममास्तु माङ्गल्यवविवृद्धये हरिः  ॥२८॥


ऋक्पावितं यो यजुषा हि श्रीमत् सामध्वनिध्वस्तसमस्तपातकम्।

चक्रे जगद्वामनकस्स सर्वदा ममास्तु माङ्गल्यवविवृद्धये हरिः  ॥२९॥


यत्पादविन्यासपवित्रतां मही ययौ वियच्चर्ग्यजुषामुदीरणात्।

स वामनो दिव्यशरीररूपधृक् ममास्तु माङ्गल्यवविवृद्धये हरिः  ॥३०॥




यस्मिन् प्रयातेऽसुरभूभृतोऽध्वरात् ननाम खेदादवनिस्ससागरा ।

स वामनस्सर्वजगन्मयस्सदा ममास्तु माङ्गल्यवविवृद्धये हरिः  ॥३१॥


महाद्भुते दैत्यपतेर्महाध्वरे यस्मिन् प्रविष्टे क्षुभितं महासुरैः।

स  वामनोऽन्तःस्थितसप्तलोकधृक् ममास्तु माङ्गल्यवविवृद्धये हरिः  ॥३२॥


सङ्खैस्सुराणां दिवि भूतलस्थितैः तथा मनुष्यैर्गगने च खेचरैः।

स्तुतः क्रमाद्यः प्रचचार सर्वदा ममास्तु माङ्गल्यवविवृद्धये हरिः  ॥३३॥


क्रान्त्वा धरैत्रीं गगनं तथा दिवं मरुत्पतेर्यः प्रददौ त्रिविष्टपम्।

स देवदेवो भुवनेश्वरेश्वरो ममास्तु माङ्गल्यवविवृद्धये हरिः  ॥३४॥


अनुग्रहं चापि बलेरनुत्तमं चकार यश्चेन्द्रपदोपमं क्षणात्।

सुरांश्च यज्ञांशभुजस्स सर्वदा ममास्तु माङ्गल्यवविवृद्धये हरिः  ॥३५॥


रसातलाद्येन पुरा  समाहृताः समस्तवेदाः जलचाररूपिणा।

स कैटभारिर्मधुहांबुशायी ममास्तु माङ्गल्यवविवृद्धये हरिः  ॥३६॥


निःक्षत्रियां यश्च चकार मेदिनीं अनेकशो बाहुवनं तथाऽच्छिनत्।

यः कार्तवीर्यस्य स भार्गवोत्तमो ममास्तु माङ्गल्यवविवृद्धये हरिः  ॥३७॥


निहत्य यो वालिनमुग्रविक्रमं निबद्ध्य सेतुं जलधौ दशाननम्।

जघान चान्यान् रजनीचरानसौ ममास्तु माङ्गल्यवविवृद्धये हरिः  ॥३८॥


चिक्षेप बालश्शकटं बभञ्ज यो यमार्जुनं कंसमरिं जघान च ।

ममर्द चाणूरमुखान् स सर्वदा ममास्तु माङ्गल्यवविवृद्धये हरिः  ॥३९॥


प्रातस्सहस्रांशुमरीचिमण्डलं करेण बिभ्रद्भगवान् सुदर्शनम्।

कौमोदकीं चापि गदामनन्तो ममास्तु माङ्गल्यवविवृद्धये हरिः  ॥४०॥


हिमेन्दुकुन्दस्फटिकाभनिर्मलं मुखानिलापूरितमीश्वरेश्वरः ।

मध्याह्नकालेऽपि स शङ्खमुद्वहन् ममास्तु माङ्गल्यवविवृद्धये हरिः  ॥४१॥


तथाऽपराह्ने प्रविकासि पङ्कजं वक्षःस्थलेन श्रियमुद्वहन् हरिः।

विस्तारिपद्मायतपत्रलोचनो ममास्तु माङ्गल्यवविवृद्धये हरिः  ॥४२॥



सर्वेषु कालेषु समस्तदेशे- ष्वशेषकार्येषु तथेश्वरेश्वरः ।

सर्वैस्स्वरूपैर्भगवाननादिमान् ममास्तु माङ्गल्यवविवृद्धये हरिः  ॥४३॥


एतत्पठन् दाल्भ्य समस्तपापैः विमुच्यते विष्णुपरो मनुष्यः ।

सिध्यन्ति कार्याणि तथास्य सर्वा- नर्थानवाप्नोति यथेच्छते तान्  ॥४४॥


दुःस्वप्नः प्रशममुपैति पठ्यमाने स्तोत्रेऽस्मिन् श्रवणविधौ सदोद्यतस्य।

प्रारम्भो द्रुतमुपयाति सिद्धिमीशः पापानि क्षपयति चास्य देवदेव:॥४५॥


माङ्गल्यं परमपदं सदार्थसिद्धिं निर्विघ्नामधिकफलां श्रियं ददाति।

किं लोके तदिह परत्र चापि पुंसां यद्विष्णुप्रवणधियां न दाल्भ्य साध्यम् ॥४६॥


देवेन्द्रस्त्रिभुवनमर्थमेकपिङ्गः संसिद्धिं त्रिभुवनगां च कार्तवीर्यः।

वैदेहः परमपदं प्रसाद्य विष्णुं संप्राप्तस्सकलफलप्रदो हि विष्णुः ॥४७॥


सर्वारम्भेषु दाल्भ्यैतद् दुस्स्वप्नेषु च पण्डितः।

जपेदेकमना विष्णौ तथाऽमाङ्गल्यदर्शने ॥४८॥


शमं प्रयान्ति दुष्टानि ग्रहपीडाश्च दारुणाः ।

कर्मारम्भाश्च सिध्यन्ति पुण्यमाप्नोति चोत्तमम्॥४९॥


हरिर्ददाति भद्राणि माङ्गल्यस्तुति संस्तुतः।

करोत्यखिलरूपैस्तु रक्षामक्षतशक्तिभृत् ॥५०॥

Mangalya Sthavam


Post a Comment

Help us to Build Neat & Clean Content.if you have any information or useful content related to this site. Please Let us know and we are happy to update our content or Publish new Content on this website.

नया पेज पुराने