वासुदेव कृत श्री कृष्ण स्तोत्र 

श्रीमन्तमिन्द्रियातीतमक्षरं निर्गुणं विभुम् ।
  
 
ध्यानासाध्यं च सर्वेषां परमात्मानमीश्र्वरम् ॥ १ ॥
 
 
स्वेच्छामयं सर्वरुपं स्वेच्छारुपधरं परम् ।
 
निर्लिप्तं परमं ब्रह्म बीजरुपं सनातनम् ॥ २ ॥
 
 
स्थूलात् स्थूलतरं व्याप्तमतिसूक्ष्ममदर्शनम् ।
 
स्थितं सर्वशरीरेषु साक्षिरूपमदृश्यकम् ॥ ३ ॥
 
 
शरीरवन्तं सगुणमशरीरं गुणोत्करम् ।
 
प्रकृतिं प्रकृतीशं च प्राकृतं प्रकृतेः परम् ॥ ४ ॥
 
 
सर्वेशं सर्वरूपं च सर्वान्तकरमव्ययम् ।
 
सर्वाधारं निराधारं निर्व्यूहं स्तौमि किं विभो ॥ ५ ॥
 
 
अनन्तः स्तवनेsशक्तोsशक्ता देवी सरस्वती ।
 
यं स्तोतुमसमर्थश्र्च पञ्चवक्त्रः षडाननः ॥ ६ ॥
 
 
चतुर्मुखो वेदकर्ता यं स्तोतुमक्षमः सदा ।
 
गणेशो न समर्थश्र्च योगीन्द्राणां गुरोर्गुरुः ॥ ७ ॥
 
 
ऋषयो देवताश्र्चैव मुनीन्द्रमनुमानवाः ।
 
स्वप्ने तेषामदृश्यं च त्वामेवं किं स्तुवन्ति ते ॥ ८ ॥
 
 
श्रुतयः स्तवनेsशक्ताः किं स्तुवन्ति विपश्र्चितः ।
 
विहायैवं शरीरं च बालो भवितुमर्हसि ॥ ९ ॥
 
 
वसुदेवकृतं स्तोत्रं त्रिसंध्यं यः पठेन्नरः ।
 
भक्तिदास्यमवाप्नोति श्रीकृष्णचरणाम्बुजे ॥ १० ॥
 
 
विशिष्टपुत्रं लभते हरिदासं गुणान्वितम् ।
 
सङकटं निस्तरेत् तूर्णं शत्रुभीत्या प्रमुच्यते ॥ ११ ॥ 
 
 
॥ इति श्रीब्रह्मवैवर्तपुराणे श्रीकृष्णजन्मखण्डे वासुदेव कृत श्री कृष्ण स्तोत्र संपूर्णम् ॥
  

वासुदेव कृत श्री कृष्ण स्तोत्र PDF


Leave a comment