श्री जयेन्द्र सरस्वती अष्टोत्तर शतनामावली स्तोत्रम

श्रीजगद्गुरु श्रीकाञ्चीकामकोटिपीठाधिपति,
 
श्रीशङ्कराचार्य श्रीजयेन्द्रसरस्वती श्रीचरणैः प्रणीता ।
 
अपारकरुणासिन्धुं ज्ञानदं शान्तरूपिणम् ।
 
श्रीचन्द्रशेखरगुरुं प्रणमामि मुदान्वहम् ॥ १॥
 
लोकक्षेमहितार्थाय गुरुभिर्बहुसत्कृतम् ।
 
स्मृत्वा स्मृत्वा नमामस्तान् जन्मसाफल्यहेतवे ॥ २॥
गुरुवारसभाद्वारा शास्त्रसंरक्षणं कृतम् ।
 
अनूराधासभाद्वारा वेदसंरक्षणं कृतम् ॥ ३॥
 
मार्गशीर्षे मासवरे स्तोत्रपाठप्रचारणम् ।
 
वेदभाष्यप्रचारार्थं रत्नोसवनिधिः कृतः ॥ ४॥
 
कर्मकाण्डप्रचाराय वेदधर्मसभा कृता ।
 
वेदान्तार्थविचाराय विद्यारण्यनिधिः कृतः ॥ ५॥
 
शिलालेखप्रचारार्थमुट्टङ्कित निधिः कृतः ।
 
गोब्राह्मणहितार्थाय वेदरक्षणगोनिधिः ॥ ६॥
 
गोशाला पाठशाला च गुरुभिस्तत्र निर्मिते ।
 
बालिकानां विवाहार्थं कन्यादाननिधिः कृतः ॥ ७॥
 
देवार्चकानां साह्यार्थं कच्चिमूदूर्निधिः कृतः ।
 
बालवृद्धातुराणां च व्यवस्था परिपालने ॥ ८॥
 
अनाथप्रेतसंस्कारादश्वमेधफलं भवेत् ।
 
इति वाक्यानुसारेण व्यवस्था तत्र कल्पिता ॥ ९॥
 
यत्र श्रीभगवत्पादैः क्षेत्रपर्यटनं कृतम् ।
 
तत्र तेषां स्मारणाय शिलामूर्तिनिवेशिता ॥ १०॥
 
भक्तवाञ्छाभिसिद्ध्यर्थं नामतारकलेखनम् ।
 
राजतं च रथं कृत्वा कामाक्ष्याः परिवाहणम् ॥ ११॥
 
कामाक्ष्यम्बाविमानस्य स्वर्णेनावरणं कृतम् ।
 
मूलस्योत्सवकामाक्ष्याः स्वर्णवर्म परिष्कृतिः ॥ १२॥
 
ललितानामसाहस्रस्वर्णमालाविभूषणम् ।
 
श्रीदेव्याः पर्वकालेषु सुवर्णरथचालनम् ॥ १३॥

 

चिदम्बरनटेशस्य सद्वैदूर्यकिरीटकम् ।
 
करेऽभयप्रदे पादे कुञ्चिते रत्नभूषणम् ॥ १४॥
 
मुष्टितण्डुलदानेन दरिद्राणां च भोजनम् ।
 
रुग्णालये भगवतः प्रसादविनियोजनम् ॥ १५॥
 
जगद्धितैषिभिर्दीनजनावनपरायणैः ।
 
गुरुभिश्चरिते मार्गे विचरेम मुदा सदा ॥ १६॥



श्री जयेन्द्र सरस्वती अष्टोत्तर शतनामावली स्तोत्रम | Jayendra Saraswati Shatanamavali Stotram
Jayendra Saraswati Shatanamavali Stotram

Leave a comment