श्री छिन्नमस्ता अष्टोत्तर शतनामावली
- श्रीछिन्नमस्तायै नमः ।
- श्रीमहाविद्यायै नमः ।
- श्रीमहाभीमायै नमः ।
- श्रीमहोदर्यै नमः ।
- श्रीचण्डेश्वर्यै नमः ।
- श्रीचण्डमात्रे नमः ।
- श्रीचण्डमुण्डप्रभञ्जिन्यै नमः ।
- श्रीमहाचण्डायै नमः ।
- श्रीचण्डरूपायै नमः ।
- श्रीचण्डिकायै नमः ।
- श्रीचण्डखण्डिन्यै नमः ।
- श्रीक्रोधिन्यै नमः ।
- श्रीक्रोधजनन्यै नमः ।
- श्रीक्रोधरूपायै नमः ।
- श्रीकुहवे नमः ।
- श्रीकलायै नमः ।
- श्रीकोपातुरायै नमः ।
- श्रीकोपयुतायै नमः ।
- श्रीकोपसंहारकारिण्यै नमः ।
- श्रीवज्रवैरोचन्यै नमः ।
- श्रीवज्रायै नमः ।
- श्रीवज्रकल्पायै नमः ।
- श्रीडाकिन्यै नमः ।
- श्रीडाकिनीकर्मनिरतायै नमः ।
- श्रीडाकिनीकर्मपूजितायै नमः ।
- श्रीडाकिनीसङ्गनिरतायै नमः ।
- श्रीडाकिनीप्रेमपूरितायै नमः ।
- श्रीखट्वाङ्गधारिण्यै नमः ।
- श्रीखर्वायै नमः ।
- श्रीखड्गधारिण्यै नमः ।
- श्रीखप्परधारिण्यै नमः ।
- श्रीप्रेतासनायै नमः ।
- श्रीप्रेतयुतायै नमः ।
- श्रीप्रेतसङ्गविहारिण्यै नमः ।
- श्रीछिन्नमुण्डधरायै नमः ।
- श्रीछिन्नचण्डविद्यायै नमः ।
- श्रीचित्रिण्यै नमः ।
- श्रीघोररूपायै नमः ।
- श्रीघोरदृष्ट्यै नमः ।
- श्रीघोररावायै नमः ।
- श्रीघनोदर्यै नमः ।
- श्रीयोगिन्यै नमः ।
- श्रीयोगनिरतायै नमः ।
- श्रीजपयज्ञपरायणायै नमः ।
- श्रीयोनिचक्रमय्यै नमः ।
- श्रीयोनये नमः ।
- श्रीयोनिचक्रप्रवर्तिन्यै नमः ।
- श्रीयोनिमुद्रायै नमः ।
- श्रीयोनिगम्यायै नमः ।
- श्रीयोनियन्त्रनिवासिन्यै नमः ।
- श्रीयन्त्ररूपायै नमः ।
- श्रीयन्त्रमय्यै नमः ।
- श्रीयन्त्रेश्यै नमः ।
- श्रीयन्त्रपूजितायै नमः ।
- श्रीकीर्त्यायै नमः ।
- श्रीकपर्दिन्यै नमः ।
- श्रीकाल्यै नमः ।
- श्रीकङ्काल्यै नमः ।
- श्रीकलकारिण्यै नमः ।
- श्रीआरक्तायै नमः ।
- श्रीरक्तनयनायै नमः ।
- श्रीरक्तपानपरायणायै नमः ।
- श्रीभवान्यै नमः ।
- श्रीभूतिदायै नमः ।
- श्रीभूत्यै नमः ।
- श्रीभूतिदात्र्यै नमः ।
- श्रीभैरव्यै नमः ।
- श्रीभैरवाचारनिरतायै नमः ।
- श्रीभूतसेवितायै नमः ।
- श्रीभैरवसेवितायै नमः ।
- श्रीभीमायै नमः ।
- श्रीभीमेश्वरीदेव्यै नमः ।
- श्रीभीमनादपरायणायै नमः ।
- श्रीभवाराध्यायै नमः ।
- श्रीभवनुतायै नमः ।
- श्रीभवसागरतारिण्यै नमः ।
- श्रीभद्रकाल्यै नमः ।
- श्रीभद्रतनवे नमः ।
- श्रीभद्ररूपायै नमः ।
- श्रीभद्रिकाभद्ररूपायै नमः ।
- श्रीमहाभद्रायै नमः ।
- श्रीसुभद्रायै नमः ।
- श्रीभद्रपालिन्यै नमः ।
- श्रीसुभव्यायै नमः ।
- श्रीभव्यवदनायै नमः ।
- श्रीसुमुख्यै नमः ।
- श्रीसिद्धसेवितायै नमः ।
- श्रीसिद्धिदायै नमः ।
- श्रीसिद्धिनिवहायै नमः ।
- श्रीसिद्धनिषेवितायै नमः ।
- श्रीअसिद्धनिषेवितायै नमः ।
- श्रीशुभदायै नमः ।
- श्रीशुभगायै नमः ।
- श्रीशुद्धायै नमः ।
- श्रीशुद्धसत्त्वायै नमः ।
- श्रीशुभावहायै नमः ।
- श्रीश्रेष्ठायै नमः ।
- श्रीदृष्टिमयीदेव्यै नमः ।
- श्रीदृष्टिसंहारकारिण्यै नमः ।
- श्रीशर्वाण्यै नमः ।
- श्रीसर्वगायै नमः ।
- श्रीसर्वायै नमः ।
- श्रीसर्वमङ्गलकारिण्यै नमः ।
- श्रीशिवायै नमः ।
- श्रीशान्तायै नमः ।
- श्रीशान्तिरूपायै नमः ।
- श्रीमृडान्यै नमः ।
- श्रीमदनातुरायै नमः ।