श्री चन्द्रशेखरेन्द्र सरस्वती अष्टोत्तर शतनामावली
- ॐ श्रीकाञ्चीकामकोटिपीठाधीश्वराय नमः ।
- ॐ श्रीचन्द्रशेखरेन्द्रसरस्वतीगुरुभ्यो नमः ।
- ॐ संन्यासाश्रमशिखराय नमः ।
- ॐ काषायदण्डधारिणे नमः ।
- ॐ सर्वपीडापहारिणे नमः ।
- ॐ स्वामिनाथगुरवे नमः ।
- ॐ करुणासागराय नमः ।
- ॐ जगदाकर्षणशक्तिमते नमः ।
- ॐ सर्वसराचरहृदयस्थाय नमः ।
- ॐ भक्तपरिपालकश्रेष्ठाय नमः ।
- ॐ धर्मपरिपालकाय नमः ।
- ॐ श्रीजयेन्द्रसरस्वत्याचार्याय नमः ।
- ॐ श्रीविजयेन्द्रसरस्वतीपूजिताय नमः ।
- ॐ शिवशक्तिस्वरूपाय नमः ।
- ॐ भक्तजनप्रियाय नमः ।
- ॐ ब्रह्मविष्णुशिवैक्यस्वरूपाय नमः ।
- ॐ काञ्चीक्षेत्रवासाय नमः ।
- ॐ कैलाशशिखरवासाय नमः ।
- ॐ स्वधर्मपरिपोषकाय नमः ।
- ॐ चातुर्वर्ण्यसंरक्षकाय नमः ।
- ॐ लोकरक्षणसङ्कल्पाय नमः ।
- ॐ ब्रह्मनिष्ठापराय नमः ।
- ॐ सर्वपापहराय नमः ।
- ॐ धर्मरक्षणसन्तुष्टाय नमः ।
- ॐ भक्तार्पितधनस्वीकर्त्रे नमः ।
- ॐ सर्वोपनिषत्सारज्ञाय नमः ।
- ॐ सर्वशास्त्रगम्याय नमः ।
- ॐ सर्वलोकपितामहाय नमः ।
- ॐ भक्ताभीष्टप्रदायकाय नमः ।
- ॐ ब्रह्मण्यपोषकाय नमः ।
- ॐ नानविधपुष्पार्चितपदाय नमः ।
- ॐ रुद्राक्षकिरीटधारिणे नमः ।
- ॐ भस्मोद्धूलितविग्रहाय नमः ।
- ॐ सर्वज्ञाय नमः ।
- ॐ सर्वचराचरव्यापकाय नमः ।
- ॐ अनेकशिष्यपरिपालकाय नमः ।
- ॐ मनश्चाञ्चल्यनिवर्तकाय नमः ।
- ॐ अभयहस्ताय नमः ।
- ॐ भयापहाय नमः ।
- ॐ यज्ञपुरुषाय नमः ।
- ॐ यज्ञानुष्ठानरुचिप्रदाय नमः ।
- ॐ यज्ञसम्पन्नाय नमः ।
- ॐ यज्ञसहायकाय नमः ।
- ॐ यज्ञफलदाय नमः ।
- ॐ यज्ञप्रियाय नमः ।
- ॐ उपमानरहिताय नमः ।
- ॐ स्फटिकतुलसीरुद्राक्षहारधारिणे नमः ।
- ॐ चातुर्वर्ण्यसमदृष्टये नमः ।
- ॐ ऋग्य़जुस्सामाथर्वणचतुर्वेदसंरक्षकाय नमः ।
- ॐ दक्षिणामूर्तिस्वरूपाय नमः ।
- ॐ जाग्रत्स्वप्नसुषुप्त्यवस्थातीताय नमः ।
- ॐ कोटिसूर्यतुल्यतेजोमयशरीराय नमः ।
- ॐ साधुसङ्घसंरक्षकाय नमः ।
- ॐ अश्वगजगोपूजानिर्वर्तकाय नमः ।
- ॐ गुरुपादुकापूजाधुरन्धराय नमः ।
- ॐ कनकाभिषिक्ताय नमः ।
- ॐ स्वर्णबिल्वदलपूजिताय नमः ।
- ॐ सर्वजीवमोक्षदाय नमः ।
- ॐ मूकवाग्दाननिपुणाय नमः ।
- ॐ नेत्रदीक्षादानाय नमः ।
- ॐ द्वादशलिङ्गस्थापकाय नमः ।
- ॐ गानरसज्ञाय नमः ।
- ॐ ब्रह्मज्ञानोपदेशकाय नमः ।
- ॐ सकलकलासिद्धिदाय नमः ।
- ॐ चातुर्वर्ण्यपूजिताय नमः ।
- ॐ अनेकभाषासम्भाषणकोविदाय नमः ।
- ॐ अष्टसिद्धिप्रदायकाय नमः ।
- ॐ श्रीशारदामठसुस्थिताय नमः ।
- ॐ नित्यान्नदानसुप्रीताय नमः ।
- ॐ प्रार्थनामात्रसुलभाय नमः ।
- ॐ पादयात्राप्रियाय नमः ।
- ॐ नानाविधमतपण्डिताय नमः ।
- ॐ श्रुतिस्मृतिपुराणज्ञाय नमः ।
- ॐ देवयक्षकिन्नरकिंपुरुषपूज्याय नमः ।
- ॐ श्रवणानन्दकरकीर्तये नमः ।
- ॐ दर्शनानन्दाय नमः ।
- ॐ अद्वैतानन्दभरिताय नमः ।
- ॐ अव्याजकरुणामूर्तये नमः ।
- ॐ शैववैष्णवादिमान्याय नमः ।
- ॐ शङ्कराचार्याय नमः ।
- ॐ दण्डकमण्डलुहस्ताय नमः ।
- ॐ वीणामृदङ्गादिसकलवाद्यनादस्वरूपाय नमः ।
- ॐ रामकथारसिकाय नमः ।
- ॐ वेदवेदाङ्गागमादि सकलकलासदःप्रवर्तकाय नमः ।
- ॐ हृदयगुहाशयाय नमः ।
- ॐ शतरुद्रीयवर्णितस्वरूपाय नमः ।
- ॐ केदारेश्वरनाथाय नमः ।
- ॐ अविद्यानाशकाय नमः ।
- ॐ निष्कामकर्मोपदेशकाय नमः ।
- ॐ लघुभक्तिमार्गोपदेशकाय नमः ।
- ॐ लिङ्गस्वरूपाय नमः ।
- ॐ सालग्रामसूक्ष्मस्वरूपाय नमः ।
- ॐ कालट्यांशङ्करकीर्तिस्तम्भनिर्माणकर्त्रे नमः ।
- ॐ जितेन्द्रियाय नमः ।
- ॐ शरणागतवत्सलाय नमः ।
- ॐ श्रीशैलशिखरवासाय नमः ।
- ॐ डमरुकनादविनोदाय नमः ।
- ॐ वृषभारूढाय नमः ।
- ॐ दुर्मतनाशकाय नमः ।
- ॐ आभिचारिकदोषहर्त्रे नमः ।
- ॐ मिताहाराय नमः ।
- ॐ मृत्युविमोचनशक्ताय नमः ।
- ॐ श्रीचक्रार्चनतत्पराय नमः ।
- ॐ दासानुग्रहकारकाय नमः ।
- ॐ अनुराधानक्षत्रजाताय नमः ।
- ॐ सर्वलोकख्यातशीलाय नमः ।
- ॐ वेङ्कटेश्वरचरणपद्मषट्पदाय नमः ।
- ॐ श्रीत्रिपुरसुन्दरीसमेतश्रीचन्द्रमौलीश्वरपूजप्रियाय नमः
॥ इति श्रीकाञ्चीकामकोटिपीठाधीश्वर जगद्गुरु शङ्कराचार्य श्रीचन्द्रशेखरेन्द्रसरस्वत्यष्टोत्तरशतनामावलिः सम्पूर्णा ॥