Subscribe Us

श्री कृष्ण मानस पूजा स्तोत्रम् || Krishna Manasa Puja Stotram

श्री कृष्ण मानस पूजा स्तोत्रम् || Sri Krishna Manasa Puja Stotram

हृदम्भोजे कृष्णस्सजलजलदश्यामलतनुः

सरोजाक्षः स्रग्वी मकुटकटकाद्याभरणवान् ।


शरद्राकानाथप्रतिमवदनः श्रीमुरलिकां

वहन् ध्येयो गोपीगणपरिवृतः कुङ्कुमचितः ॥ १ ॥


पयोम्भोधेर्द्वीपान्मम हृदयमायाहि भगवन्

मणिव्रातभ्राजत्कनकवरपीठं भज हरे ।


सुचिह्नौ ते पादौ यदुकुलज नेनेज्मि सुजलैः

गृहाणेदं दूर्वादलजलवदर्घ्यं मुररिपो ॥ २ ॥


त्वमाचामोपेन्द्र त्रिदशसरिदम्भोऽतिशिशिरं

भजस्वेमं पञ्चामृतरचितमाप्लावमघहन् ।


द्युनद्याः कालिन्द्या अपि कनककुम्भस्थितमिदं

जलं तेन स्नानं कुरु कुरु कुरुष्वाचमनकम् ॥ ३ ॥


तटिद्वर्णे वस्त्रे भज विजयकान्ताधिहरण

प्रलम्बारिभ्रातः मृदुलमुपवीतं कुरु गले ।


ललाटे पाटीरं मृगमदयुतं धारय हरे

गृहाणेदं माल्यं शतदलतुलस्यादिरचितम् ॥ ४ ॥


दशाङ्गं धूपं सद्वरद चरणाग्रेऽर्पितमिदं

मुखं दीपेनेन्दुप्रभ विरजसं देव कलये ।


इमौ पाणी वाणीपतिनुत सुकर्पूररजसा

विशोध्याग्रे दत्तं सलिलमिदमाचाम नृहरे ॥ ५ ॥


सदातृप्ताऽन्नं षड्रसवदखिलव्यञ्जनयुतं

सुवर्णामत्रे गोघृतचषकयुक्ते स्थितमिदम् ।


यशोदासूनो तत् परमदययाऽशान सखिभिः

प्रसादं वाञ्छद्भिः सह तदनु नीरं पिब विभो ॥ ६ ॥


सचूर्णं ताम्बूलं मुखशुचिकरं भक्षय हरे

फलं स्वादु प्रीत्या परिमलवदास्वादय चिरम् ।


सपर्यापर्याप्त्यै कनकमणिजातं स्थितमिदं

प्रदीपैरारार्तिं जलधितनयाश्लिष्ट रचये ॥ ७ ॥


विजातीयैः पुष्पैरतिसुरभिभिर्बिल्वतुलसी-

युतैश्चेमं पुष्पाञ्जलिमजित ते मूर्ध्नि निदधे ।


तव प्रादक्षिण्यक्रमणमघविद्ध्वंसि रचितं

चतुर्वारं विष्णो जनिपथगतिश्रान्तिद विभो(श्रान्तविदुषाम्) ॥ ८ ॥


नमस्कारोऽष्टाङ्गस्सकलदुरितध्वंसनपटुः

कृतं नृत्यं गीतं स्तुतिरपि रमाकान्त सततम्(तत इयम्) ।


तव प्रीत्यै भूयादहमपि च दासस्तव विभो

कृतं छिद्रं पूर्णं कुरु कुरु नमस्तेऽस्तु भगवन् ॥ ९ ॥


सदा सेव्यः कृष्णस्सजलघननीलः करतले

दधानो दध्यन्नं तदनु नवनीतं मुरलिकाम् ।


कदाचित् कान्तानां कुचकलशपत्रालिरचना-

समासक्तः स्निग्द्धैस्सह शिशुविहारं विरचयन् ॥ १० ॥


मणिकर्णीच्छया जातमिदं मानसपूजनम् ।

यः कुर्वीतोषसि प्राज्ञः तस्य कृष्णः प्रसीदति ॥ ११ ॥

Shri Krishna Manasa Puja Stotram

Shri Krishna Manasa Puja Stotram


टिप्पणी पोस्ट करें

0 टिप्पणियां