श्री दुर्गा देवी अष्टोत्तर शतनामावली || Durga Devi Ashtottara Shatanamavali

ॐ दुर्गायै नमः ।
ॐ दारिद्र्यशमन्यै नमः ।
ॐ दुरितघ्न्यै नमः ।
ॐ लक्ष्म्यै नमः ।
ॐ लज्जायै नमः ।
ॐ महाविद्यायै नमः ।

ॐ श्रद्धायै नमः ।
ॐ पुष्ट्यै नमः ।
ॐ स्वधायै नमः ।
ॐ ध्रुवायै नमः । 
ॐ महारात्र्यै नमः ।
ॐ महामायायै नमः ।

ॐ मेधायै नमः ।
ॐ मात्रे नमः ।
ॐ सरस्वत्यै नमः ।
ॐ शिवायै नमः ।
ॐ शशिधरायै नमः ।
ॐ शान्तायै नमः ।
ॐ शाम्भव्यै नमः ।

ॐ भूतिदायिन्यै नमः । 
ॐ तामस्यै नमः ।
ॐ नियतायै नमः ।
ॐ नार्यै नमः ।
ॐ काल्यै नमः ।
ॐ नारायण्यै नमः ।
ॐ कलायै नमः ।



ॐ ब्राह्म्यै नमः ।
ॐ वीणाधरायै नमः ।
ॐ वाण्यै नमः ।
ॐ शारदायै नमः । 
ॐ हंसवाहिन्यै नमः ।
ॐ त्रिशूलिन्यै नमः ।

ॐ त्रिनेत्रायै नमः ।
ॐ ईशानायै नमः ।
ॐ त्रय्यै नमः ।
ॐ त्रयतमायै नमः ।
ॐ शुभायै नमः ।
ॐ शङ्खिन्यै नमः ।

ॐ चक्रिण्यै नमः ।
ॐ घोरायै नमः । 
ॐ कराल्यै नमः ।
ॐ मालिन्यै नमः ।
ॐ मत्यै नमः ।
ॐ माहेश्वर्यै नमः ।

ॐ महेष्वासायै नमः ।
ॐ महिषघ्न्यै नमः ।
ॐ मधुव्रतायै नमः ।
ॐ मयूरवाहिन्यै नमः ।
ॐ नीलायै नमः ।
ॐ भारत्यै नमः । 
ॐ भास्वराम्बरायै नमः ।
ॐ पीताम्बरधरायै नमः ।

ॐ पीतायै नमः ।
ॐ कौमार्यै नमः ।
ॐ पीवरस्तन्यै नमः ।
ॐ रजन्यै नमः ।
ॐ राधिन्यै नमः ।
ॐ रक्तायै नमः ।

ॐ गदिन्यै नमः ।
ॐ घण्टिन्यै नमः । 
ॐ प्रभायै नमः ।
ॐ शुम्भघ्न्यै नमः ।
ॐ सुभगायै नमः ।
ॐ सुभ्रुवे नमः ।
ॐ निशुम्भप्राणहारिण्यै नमः ।

ॐ कामाक्ष्यै नमः ।
ॐ कामुकायै नमः ।
ॐ कन्यायै नमः ।
ॐ रक्तबीजनिपातिन्यै नमः ।
ॐ सहस्रवदनायै नमः । 
ॐ सन्ध्यायै नमः ।
ॐ साक्षिण्यै नमः ।

ॐ शाङ्कर्यै नमः ।
ॐ द्युतये नमः ।
ॐ भार्गव्यै नमः ।
ॐ वारुण्यै नमः ।
ॐ विद्यायै नमः ।
ॐ धरायै नमः ।

ॐ धरासुरार्चितायै नमः ।
ॐ गायत्र्यै नमः । 
ॐ गायक्यै नमः ।
ॐ गङ्गायै नमः ।
ॐ दुर्गायै नमः ।
ॐ गीतघनस्वनायै नमः ।

ॐ छन्दोमयायै नमः ।
ॐ मह्यै नमः ।
ॐ छायायै नमः ।
ॐ चार्वाङ्ग्यै नमः ।
ॐ चन्दनप्रियायै नमः ।
ॐ जनन्यै नमः । 
ॐ जाह्नव्यै नमः ।
ॐ जातायै नमः ।

ॐ शान्ङ्कर्यै नमः ।
ॐ हतराक्षस्यै नमः ।
ॐ वल्लर्यै नमः ।
ॐ वल्लभायै नमः ।
ॐ वल्ल्यै नमः ।
ॐ वल्ल्यलङ्कृतमध्यमायै नमः ।

ॐ हरीतक्यै नमः ।
ॐ हयारूढायै नमः । 
ॐ भूत्यै नमः ।
ॐ हरिहरप्रियायै नमः ।
ॐ वज्रहस्तायै नमः ।

ॐ वरारोहायै नमः ।
ॐ सर्वसिद्ध्यै नमः ।
ॐ वरप्रदायै नमः ।
ॐ सिन्दूरवर्णायै नमः ।
ॐ श्री दुर्गादेव्यै नमः । 

Post a Comment

Help us to Build Neat & Clean Content.if you have any information or useful content related to this site. Please Let us know and we are happy to update our content or Publish new Content on this website.

नया पेज पुराने