त्रिपुर सुन्दरी वेद पाद स्तोत्रम् || Tripura Sundari Veda Pada Stotram

वेदपादस्तवं वक्ष्ये देव्याः प्रियचिकीर्षया ।
यथामति मतिं देवस्तन्नो दन्तिः प्रचोदयात् ॥१॥

अकिञ्चित्करकर्मभ्यः प्रत्याहृत्य कृपावशात् ।
सुब्रह्मण्यः स्तुतावस्यां तन्नः षण्मुखः प्रचोदयात् ॥२॥

अकारादिक्षकारान्तवर्णावयवशालिनी ।
वीणापुस्तकहस्ताऽव्यात् प्रणो देवी सरस्वती ॥३॥

या वर्णपदवाक्यार्थगद्यपद्यस्वरूपिणी ।
वाचि नर्त्तयतु क्षिप्रं मेधां देवी सरस्वती ॥४॥

उपास्यमाना विप्रेन्द्रैः संध्यासु च तिसृष्वपि ।
सद्यः प्रसीद मे मातः संध्याविद्ये सरस्वती ॥५॥

मन्दा निन्दालोलुपाऽहं स्वभावात् एतत्स्तोत्रं पूर्यते किं मयेति ।
मा ते भीतिर्हे मते त्वादृशानाम् एषा नेत्री राधसा सूनृतानाम् ॥६॥

तरङ्गभृ(/भ्रु)कुटीकोटिभङ्ग्या तर्जयते जराम् ।
सुधामयाय शुभ्राय सिन्धूनां पतये नमः ॥७॥

तस्य मध्ये मणिद्वीपः कल्पकारामभूषितः ।
अस्तु मे ललितावासः स्वस्तिदा अभयंकरः ॥८॥

कदम्बमञ्जरीनिर्यद्वारुणीपारणोन्मदैः ।
द्विरेफैर्वर्णनीयाय वनानां पतये नमः ॥९॥

तत्र वप्रावलीलीलागगनोल्लङ्घिगोपुरम् ।
मातः कौतूहलं दद्यात्सु(/सं)हार्यं नगरं तव ॥१०॥

मकरन्दझरीमज्जन्मिलिन्दकुलसंकुलाम् ।
महापद्माटवीं वन्दे यशसा सम्परीवृताम् ॥११॥

तत्रैव चिन्तामणिधोरणार्चिभिः(णोर्चिभिः) विनिर्मितं रोपितरत्नशृङ्गम् ।
भजे भवानीभवनावतंसम् आदित्यवर्णं तमसः परस्तात् ॥१२॥

मुनिभिः स्वात्मलाभाय यच्चक्रं हृदि सेव्यते ।
तत्र पश्यामि बुद्ध्या तद् अक्षरे परमे व्योमन् ॥१३॥

पञ्चब्रह्ममयो मञ्चस्तत्र यो बिन्दुमध्यगः ।
तव कामेशि वासोऽयमायुष्मन्तं करोतु माम् ॥१४॥

नानारत्नगुलुच्छालीकान्तिकिर्मीरि(/म्मीलि)तोदरम् ।
विमृशामि वितानं तेऽतिश्लक्ष्णमतिलोमशम् ॥१५॥

पर्यङ्कतल्पोपरि दर्शनीयं सबाणचापाङ्कुशपाशपाणिम् ।
अशेषभूषारमणीयमीडे त्रिलोचनं नीलकण्ठं प्रशान्तम् ॥१६॥

जटारुणं चन्द्रकलाललामम् उद्वेललावण्यकलाभिरामम् ।
कामेश्वरं कामशरासनाङ्कं समस्तसाक्षिं तमसः परस्तात् ॥१७॥

तत्र कामेशवामाङ्के खेलन्तीमलिकुन्तलाम् ।
सच्चिदानन्दलहरीं महालक्ष्मीमुपास्महे ॥१८॥

चारुगोरोचनापङ्कजम्बालितघनस्तनीम् ।
नमामि त्वामहं लोकमातरं पद्ममालिनीम् ॥१९॥

शिवे नमन्निर्जरकुञ्जरासुर- प्रतोलिकामौलिमरीचिवीचिभिः ।
इदं तव क्षालनजातसौभगं चरणं नो लोके सुधितां दधातु ॥२०॥

कल्पस्यादौ कारणेशानपि त्रीन् स्रष्टुं देवि त्रीन्गुणानादधानाम् ।
सेवे नित्यं श्रेयसे भूयसे त्वाम् अजामेकां लोहितशुक्लकृष्णाम् ॥२१॥

केशोद्भूतैरद्भुतामोदपूरैः आशाबृन्दं सान्द्रमापूरयन्तीम् ।
त्वामानम्य त्वत्प्रसादात्स्वयंभूः अस्मान्मायी सृजते विश्वमेतत् ॥२२॥

अर्धोन्मीलद्यौवनोद्दामदर्पां दिव्याकल्पैरर्पयन्तीं मयूखान् ।
देवि ध्यात्वा त्वां पुरा कैटभारिः विश्वं बिभर्ति भुवनस्य नाभिः ॥२३॥

कह्लारश्रीमञ्जरीपुञ्जरीतिं धिक्कुर्वन्तीमम्ब ते पाटलिम्ना ।
मूर्तिं ध्यात्वा शाश्वतीं भूतिमायन् इन्द्रो राजा जगतो य ईशे ॥२४॥

देवतान्तरमन्त्रौघजपश्रीफलभूतया ।
जापकस्तव देव्यन्ते विद्यया विन्दतेऽमृतम् ॥२५॥

पुंस्कोकिलकलक्वाणकोमलालापशालिनि ।
भद्राणि कुरु मे मातर्दुरितानि परासुव ॥२६॥

अन्तेवासिन्नस्ति चेत्ते मुमुक्षा वक्ष्ये युक्तिं मुक्तसर्वैषणस्सन् ।
सद्भ्यः साक्षात् सुन्दरीं ज्ञप्तिरूपां श्रद्धाभक्तिज्ञानयोगादवेहि ॥२७॥

षोढान्यासादिदेवैश्च सेविता चक्रमध्यगा ।
कामेशमहिषी भूयः षोडशी शर्म यच्छतु ॥२८॥

शान्तो दान्तो देशिकेन्द्रं प्रणम्य तस्यादेशात्तारकं मन्त्रतत्त्वम् ।
जानीते चेदम्ब धन्यः समानं नातः परं वेदितव्यं हि किञ्चित् ॥२९॥

त्वमेव कारणं कार्यं क्रिया ज्ञानं त्वमेव च ।
त्वामम्ब न विना किञ्चित् त्वयि सर्वं प्रतिष्ठितम् ॥३०॥

परागमद्रीन्द्रसुते तवाङ्घ्रि- सरोजयोरम्ब दधामि मूर्ध्ना ।
अलंकृतं वेद(/देव)वधूशिरोभि-र्यतो जातो भुवनानि विश्वा ॥३१॥

दुष्टान् दैत्यान् हन्तुकामां महर्षीन् शिष्टानन्यान् पातुकामां कराब्जैः ।
अष्टाभिस्त्वां सायुधैर्भासमानां दुर्गां देवीं शरणमहं प्रपद्ये ॥३२॥

देवि सर्वानवद्याङ्गीं त्वामनादृत्य ये क्रियाः ।
कुर्वन्ति निष्फलास्तेषामदुग्धा इव धेनवः ॥३३॥

नाहं मन्ये दैवतं मान्यमन्यत् त्वत्पादाब्जादम्बिके कुम्भजाद्याः ।
ये ध्यातारो भक्तिसंशुद्धचित्ताः परामृतात् परिमुच्यन्ति सर्वे ॥३४॥

कुर्वाणोऽपि दुरारम्भान् तव नामानि शांभवि ।
प्रजपन्नेति मायान्तम् अतिमृत्युं तराम्यहम् ॥३५॥

कल्याणि त्वं कुन्दहासप्रकाशैः अन्तर्ध्वान्तं नाशयन्ती क्षणेन ।
हन्तास्माकं ध्यायतां त्वत्पदाब्जम् उच्चतिष्ठ महते सौभगाय ॥३६॥

तितीर्षया भवाम्भोधेर्हयग्रीवादयः पुरा ।
अप्रमत्ता भवत्पूजां सुविद्वांसो वितेनिरे ॥३७॥

मद्वंश्या ये दुराचारा ये च सन्मार्गगामिनः ।
भवत्याः कृपया सर्वे सुवर्यन्तु यजमानाः ॥३८॥

श्रीचक्रस्थां शाश्वतैश्वर्यदात्रीं पौण्ड्रं चापं पुष्पबाणान्दधानाम् ।
बन्धूकाभां भावयामि त्रिनेत्रां तामग्निवर्णां तपसा ज्वलन्तीम् ॥३९॥

भवानि तव पादाब्जनिर्णेजनपवित्रिताः ।
भवामयप्रशान्त्यै त्वामपो याचामि भेषजम् ॥४०॥

चिदानन्दसुधाम्भोधेस्तवानन्दलवोऽस्ति यः ।
कारणेशैस्त्रिभिस्साकं तद्विश्वमुपजीवति ॥४१॥

नो वा यागैर्नैव पूर्तादिकृत्यैः नो वा जप्यैर्नो महद्भिस्तपोभिः ।
नो वा योगैः क्लेशकृद्भिः सुमेधा निचाय्येमां शान्तिमत्यन्तमेति ॥४२॥

प्रातः पाहि महाविद्ये मध्याह्ने तु मृडप्रिये ।
सायं पाहि जगद्वन्द्ये पुनर्नः पाहि विश्वतः ॥४३॥

बन्धूकाभैर्भानुभिर्भासयन्ती विश्वं शश्वत्तुङ्गपीनस्तनार्धा ।
लावण्याब्धे(/धेः) सुन्दरि त्वं प्रसादाद् आयुः प्रजां रयिमस्मासु धेहि ॥ ४४ ॥

कर्णाकर्णय मे तत्त्वं या चिच्छक्तिरितीर्यते ।
त्रिर्वदामि मुमुक्षूणां सा काष्ठा सा परगतिः ॥४५॥

वाग्देवीति त्वां वदन्त्यम्ब केचित् लक्ष्मीर्गौरीत्येवमन्ये वदन्ति ।
शश्वन्मातः प्रत्यगद्वैतरूपां शंसन्ति केचिन्निविदो जनाः ॥४६॥

ललितेति सुधापूरमाधुरीचोरमम्बिके ।
तव नामास्ति यत्तेन जिह्वा मे मधुमत्तमा ॥४७॥

ये संपन्नाः साधनैस्तैश्चतुर्भिः शुश्रूषाभिर्देशिकं प्रीणयन्ति ।
सम्यग् विद्वान् शुद्धसत्त्वान्तराणां तेषामेवैतां ब्रह्मविद्यां वदेत ॥४८॥

अभिचारादिभिः कृत्यां यः प्रेरयति मय्युमे ।
तव हुंकारसंत्रस्ता प्रत्यक्कर्तारमृच्छतु ॥४९॥

जगत्पवित्रि मामिकाम् अपाहराशु दुर्ज्जराम् ।
प्रसीद मे दयाधुने(/नि) प्रशस्तिमम्ब नस्कृधि ॥५०॥
कदम्बारुणमम्बाया रूपं चिन्तय चित्त मे ।
मुञ्च पापीयसीं निष्ठां मा गृधः कस्य स्विद्धनम् ॥५१॥

भण्डभण्डनलीलायां रक्तचन्दनपङ्किलः ।
अङ्कुशस्तव तं हन्याद्यश्च नो द्वे(/द्वि)षते जनः ॥५२॥

रे रे चित्त त्वं वृथा शोकसिन्धौ मज्जस्यन्तर्वच्म्युपायं विमुक्त्यै ।
देव्याः पादौ पूजयैकाक्षरेण तत्ते पदं संग्रहेण ब्रवीम्योम् ॥५३॥

चञ्चद्बालातपज्योत्स्नाकलामण्डलशालिने ।
ऐक्षवाय नमो मातर्बाहुभ्यां तव धन्वने ॥५४॥

तामेवाद्यां ब्रह्मविद्यामुपासे मूर्तैर्वेदैः स्तूयमानां भवानीम् ।
हन्त स्वात्मत्त्वेन यां मुक्तिकामो मत्वा धीरो हर्षशोकौ जहाति ॥५५॥

शरणं करवाण्यम्ब चरणं तव सुन्दरि ।
शपे त्वत्पादुकाभ्यां मे नान्यः पन्था अयनाय ॥५६॥

रत्नच्छत्रैश्चामरैर्दर्पणाद्यैः चक्रेशानीं सर्वदोपचारयन्त्यः ।
योगिन्योऽन्याः शक्तयश्चाणिमाद्याः यूयं पात स्वस्तिभिः सदा नः ॥५७॥

दरिद्रं मां विजानीहि सर्वज्ञासि यतः शिवे ।
दूरीकृत्याशु दुरितम् अथ नो वर्धया रयिम् ॥५८॥

महेश्वरि महामन्त्रकूटत्रयकलेबरे ।
कादिविद्याक्षरश्रेणीमुशन्तस्त्वा हवामहे ॥५९॥

मूलाधारादूर्ध्वमन्तश्चरन्तीं भित्त्वा ग्रन्थीन्मूर्ध्नि निर्यत्सुधार्द्राम् ।
पश्यन्तस्त्वां ये च तृप्तिं लभन्ते तेषां शान्तिः शाश्वती नेतरेषाम् ॥ ६०॥

मह्यं द्रुह्यन्ति ये मातः त्वद्ध्यानासक्तचेतसे ।
तानंब सायकैरेभिः अव ब्रह्मद्विषो जहि ॥६१॥

त्वद्भक्तानामम्ब शान्तैषणानां ब्रह्मिष्ठानां दृष्टिपातेन पूतः ।
पापीयानप्यावृतः स्वर्वधूभिः शोकातिगो मोदते स्वर्गलोके ॥६२॥

सन्तु विद्या जगत्यस्मिन् संसारभ्रमहेतवः ।
भजेऽहं त्वां यया विद्वान् विद्ययाऽमृतमश्नुते ॥६३॥

विद्वन्मुख्यैः विद्रुमाभं विशाल-श्रोणीशिञ्जन्मेखलाकिङ्किणीकम् ।
चन्द्रोत्तंसं चिन्मयं वस्तु किञ्चिद् विद्धि त्वमेतन्निहितं गुहायाम् ॥६४॥

न विस्मरामि चिन्मूर्त्तिमिक्षुकोदण्डशालिनीम् ।
मुनयः सनकप्रेष्ठास्तामाहुः परमां गतिम् ॥६५॥

चक्षुःप्रेङ्खत्प्रेमकारुण्यधारां हंस(?)ज्योत्स्नापूरहृष्यच्चकोराम् ।
यामाश्लिष्यन्मोदते देवदेवः सा नो देवी सुहवा शर्म यच्छतु ॥६६॥

मुञ्च वञ्चकतां चित्त पामरं चापि दैवतम् ।
गृहाण पदमम्बाया एतदालम्बनं परम् ॥६७॥

का मे भीतिः का क्षतिः किं दुरापं कामेशाङ्कोत्तुङ्गपर्यङ्कसंस्थाम् ।
तत्त्वातीतामच्युतानन्ददात्रीं देवीमहं निर्ऋतिं वन्दमानः ॥६८॥

चिन्तामणिमयोत्तंसकान्तिकञ्चुकितानने ।
ललिते त्वां सकृन्नत्वा न बिभेति कुतश्चन ॥६९॥

तारुण्योत्तुङ्गितकुचे लावण्योल्लासितेक्षणे ।
तवाज्ञयैव कामाद्या मास्मान्प्रापन्नरातयः ॥७०॥

आकर्णाकृष्टकामास्त्रसञ्जातं तापमम्ब मे ।
आचामतु कटाक्षस्ते पर्जन्यो वृष्टिमानिव ॥७१॥

कुर्वे गर्वेणापचारानपारान् यद्यप्यम्ब त्वत्पदाब्जं तथापि ।
मन्ये धन्ये देवि विद्यावलम्बं मातेव पुत्रं बिभृतास्वेनम् ॥७२॥

यथोपास्तिक्षतिर्न स्यात्तव चक्रस्य सुन्दरि ।
कृपया कुरु कल्याणि तथा मे स्वस्तिरायुषि(/षी) ॥७३॥

चक्रं सेवे तावकं सर्वसिद्ध्यै श्रीमन्मातः सिद्धयश्चाणिमाद्याः ।
नित्या मुद्रा शक्तयश्चाङ्गदेव्यो यस्मिन्देवा अधि विश्वे निषेदुः ॥७४॥

सुकुमारे सुखाकारे सुनेत्रे सूक्ष्ममध्यमे ।
सुप्रसन्ना भव शिवे सुमृडीका सरस्वती ॥७५॥

विद्युद्वल्लीकन्दलीं कल्पयन्तीं मूर्त्तिं स्फूर्त्या पङ्कजं धारयन्तीम् ।
ध्यायन् हि त्वां जायते सार्वभौमो विश्वा आशाः पृतनाः सञ्जयञ्जयन् ॥७६॥

अविज्ञाय परां शक्तिमात्मभूतां महेश्वरीम् ।
अहो पतन्ति निरयेषु ये के चात्महनो जनाः ॥७७॥

सिन्दूराभैस्सुन्दरैरंशुबृन्दैः लाक्षालक्ष्म्यां मज्जयन्तीं जगन्ति ।
हेरम्बाम्ब त्वां हृदा लंबते यः तस्मै विशः स्वयमेवानमन्ते ॥७८॥

तव तत्त्वं विमृशतां प्रत्यगद्वैतलक्षणम् ।
चिदानन्दघनादन्यन्नेह नानास्ति किंचन ॥७९॥

कण्ठात्कुण्डलिनीं नीत्वा सहस्रारं शिवे तव ।
न पुनर्जायते गर्भे सुमेधा अमृतोक्षितः ॥८०॥

त्वत्पादुकानुसंधानप्राप्तसर्वात्मतादृशि ।
पूर्णाहंकृतिमत्यस्मिन्न कर्म लिप्यते नरे ॥८१॥

तवानुग्रहनिर्भिन्नहृदयग्रन्थिरद्रिजे ।
स्वात्मत्वेन जगन्मत्त्वा ततो न विजुगुप्सते ॥८२॥

कदा वसुदलोपेते त्रिकोणनवकान्विते ।
आवाहयामि चक्रे त्वां सूर्याभां श्रियमैश्वरीम् ॥८३॥

ह्रीमित्येकं तावकं वाचकार्णं यज्जिह्वाग्रे देवि जागर्ति किञ्चित् ।
को वायं स्यात्कामकामस्त्रिलोक्यां सर्वेऽस्मै देवाः बलिमावहन्ति ॥८४॥

नाकस्त्रीणां किन्नरीणां नृपाणाम् अप्याकर्षि चेतसा चिन्तनीयम् ।
त्वत्पाणिस्थं कुङ्कुमाभं शिवे यं द्विष्मस्तस्मिन्प्रतिमुञ्चामि पाशम् ॥८५॥

नूनं सिंहासनेश्वर्यास्तवाज्ञां शिरसा वहन् ।
भयेन पवमानोऽयं सर्वा दिशोऽनुविधावति ॥८६॥

त्रिक(/का)लाढ्यां त्रिहृल्लेखां द्विहंसस्वरभूषिताम् ।
यो जपत्यम्ब ते विद्यां सोऽक्षरः परमः स्वराट् ॥८७॥

दारिद्र्याब्धौ देवि मग्नोऽपि शश्वद् वाचा याचे नाहमम्ब त्वदन्यम् ।
तस्मादस्मद्वाञ्छितं पूरयैतद् उषासानक्ता सुदुघेव धेनुः ॥८८॥

यो वा यद्यत्कामनाकृष्टचित्तः स्तुत्वोपास्ते देवि ते चक्रविद्याम् ।
कल्याणानामालयः कालयोगात् तं तं लोकं जयते तांश्च कामान् ॥८९॥

साधकस्सततं कुर्यादैक्यं श्रीचक्रदेहयोः ।
तथा देव्यात्मनोरैक्यम् एतावदनुशासनम् ॥९०॥

हस्ताम्भोजप्रोल्लसच्चामराभ्यां श्रीवाणीभ्यां पार्श्वयोर्वीज्यमानाम्।
श्रीसाम्राज्ञि त्वां सदालोकयेयं सदा सद्भिः सेव्यमानां निगूढाम् ॥९१॥

इष्टानिष्टप्राप्तिविच्छित्तिहेतुः स्तोतुं वाचां कॢप्तिरित्येव मन्ये ।
त्वद्रूपं हि स्वानुभूत्यैकवेद्यं न चक्षुषा गृह्यते नापि वाचा ॥९२॥

हरस्वरैश्चतुर्वर्गपदं मन्त्रं सबिन्दुकम् ।
देव्या जपत विप्रेन्द्रा अन्या वाचो विमुञ्चथ ॥९३॥

यस्ते राकाचन्द्रबिम्बासनस्थां पीयूषाब्धिं कल्पयन्तीं मयूखैः ।
मूर्त्तिं भक्त्या ध्यायते हृत्सरोजे न तस्य रोगो न जरा न मृत्युः ॥९४ ॥

तुभ्यं मातर्योऽञ्जलिं मूर्ध्नि धत्ते मौलिश्रेण्या भूभुजस्तं नमन्ति ।
यः स्तौति त्वामम्ब चिद्वल्लिवाचा(?) तं धीरासः कवय उन्नयन्ति ॥९५॥

वैरिञ्चौ(/ञ्चो)घैर्विष्णुरुद्रेन्द्रबृन्दैः दुर्गाकालीभैरवीशक्तिसङ्घैः ।
यन्त्रेशि त्वं वर्तसे स्तूयमाना न तत्र सूर्यो भाति न चन्द्रतारकम् ॥९६॥

भूत्यै भवानि त्वां वन्दे सुराः शतमखादयः ।
त्वामानम्य समृद्धाः स्युः आ ये धामानि दिव्यानि ॥९७॥

पुष्पवत्फुल्लताटङ्कां प्रातरादित्यपाटलाम् ।
यस्त्वामन्तः स्मरत्यम्ब तस्य देवा असन्वशे ॥९८॥

वश्ये विद्रुमसङ्काशां विद्यायां विशदप्रभाम् ।
त्वामम्ब भावयेद्भूत्यै सुवर्णां हेममालिनीम् ॥९९॥

वामाङ्क(/ङ्ग)गस्थामीशितुर्दीप्यमानां भूषाबृन्दैरिन्दुरेखावतंसाम् ।
यस्त्वां पश्यन् सन्ततं(/सततं) नैव तृप्तः तस्मै च देवि वषडस्तु तुभ्यम् ॥१००॥

नवनीपवनीवासलालसोत्तम(/र)मानसे ।
शृङ्गारदेवते मातः श्रियं वासय मे कुले ॥१०१॥

भक्त्याऽभक्त्या वापि पद्यावसान-श्रुत्या स्तुत्या चैतया स्तौति यस्त्वाम् ।
तस्य क्षिप्रं त्वत्प्रसादेन मातः सत्याः सन्तु यजमानस्य कामाः ॥१०२॥

बालिशेन मया प्रोक्तमपि वात्सल्यशालिनोः ।
आनन्दमादिमदम्पत्योरिमा वर्धन्तु वाङ्गिरः ॥१०३॥

माधुरीसौरभावासचापसायकधारिणीम् ।
देवीं ध्यायन् पठेदेतत्सर्वकामार्थसिद्धये ॥१०४॥

स्तोत्रमेतत्प्रजपतस्तव त्रिपुरसुन्दरि ।
अनुद्वीक्ष्य भयाद्दूरं मृत्युर्धावति पञ्चमः ॥१०५॥

यः पठति स्तुतिमेतां विद्यावन्तं तमम्ब धनवन्तम् ।
कुरु देवि यशस्वन्तं वर्चस्वन्तं मनुष्येषु ॥१०६॥

ये शृण्वन्ति स्तुतिमिमां तव देव्यनसूयकाः ।
तेभ्यो देहि श्रियं विद्यामुद्वर्च‍म् उत्तनूबलम् ॥१०७॥

त्वामेवाहं स्तौमि नित्यं प्रणौमि श्रीविद्येशां वच्मि सञ्चिन्तयामि ।
अध्यास्ते या विश्वमाता विराजो हृत्पुण्डरीकं विरजं विशुद्धम् ॥१०८॥

शङ्करेण रचितं स्तवोत्तमं यः पठेज्जगति भक्तिमान्नरः ।
तस्य सिद्धिरतुला भवेद्ध्रुवा सुन्दरी च सततं प्रसीदति ॥१०९॥

यत्रैव यत्रैव मनो मदीयं तत्रैव तत्रैव तव स्वरूपम् ।
यत्रैव यत्रैव शिरो मदीयं तत्रैव तत्रैव पदद्वयं ते ॥११०॥

॥ श्रीशङ्करभवत्पादविरचितं त्रिपुरसुन्दरीवेदपादस्तोत्रम् ॥

Tripura Sundari Veda Pada Stotram

Tripura Sundari Veda Pada Stotram


Post a Comment

Help us to Build Neat & Clean Content.if you have any information or useful content related to this site. Please Let us know and we are happy to update our content or Publish new Content on this website.

नया पेज पुराने