श्री वेंकटेश मङ्गलाष्टक 

॥ श्रीवेङ्कटेश मङ्गलाष्टकम् ॥
 
श्रीक्षोण्यौ रमणीयुगं सुरमणीपुत्रोऽपि वाणीपतिः,
 
पौत्रश्चन्द्रशिरोमणिः फणिपतिः शय्या सुराः सेवकाः ।
 
 
तार्क्ष्यो यस्य रथो महश्च भवनं ब्रह्माण्डमाद्यः पुमान्,
 
श्रीमद्वेङ्कटभूधरेन्द्ररमणः कुर्याद्धरिर्मङ्गलम् ॥ १॥
 
 
यत्तेजो रविकोटिकोटिकिरणान् धिक्कृत्य जेजीयते,
 
यस्य श्रीवदनाम्बुजस्य सुषमा राकेन्दुकोटीरपि ।
 
 
सौन्दर्यं च मनोभवानपि बहून् कान्तिश्च कादम्बिनीं,
 
श्रीमद्वेङ्कटभूधरेन्द्ररमणः कुर्याद्धरिर्मङ्गलम् ॥ २॥
 
 
नानारत्न किरीटकुण्डलमुखैर्भूषागणैर्भूषितः,
 
श्रीमत्कौस्तुभरत्न भव्यहृदयः श्रीवत्ससल्लाञ्छनः ।
 
 
विद्युद्वर्णसुवर्णवस्त्ररुचिरो यः शङ्खचक्रादिभिः,
 
श्रीमद्वेङ्कटभूधरेन्द्ररमणः कुर्याद्धरिर्मङ्गलम् ॥ ३॥
 
 
यत्फाले मृगनाभिचारुतिलको नेत्रेऽब्जपत्रायते,
 
कस्तूरीघनसारकेसरमिलच्छ्रीगन्धसारो द्रवैः ।
 
 
गन्धैर्लिप्ततनुः सुगन्धसुमनोमालाधरो यः प्रभुः,
 
श्रीमद्वेङ्कटभूधरेन्द्ररमणः कुर्याद्धरिर्मङ्गलम् ॥ ४॥
 
 
एतद्दिव्यपदं ममास्ति भुवि तत्सम्पश्यतेत्यादरा-,
 
द्भक्तेभ्यः स्वकरेण दर्शयति यद्दृष्ट्याऽतिसौख्यं गतः ।
 
 
एतद्भक्तिमतो महानपि भवाम्भोधिर्नदीति स्पृशन्,
 
श्रीमद्वेङ्कटभूधरेन्द्ररमणः कुर्याद्धरिर्मङ्गलम् ॥ ५॥
 
 
यः स्वामी सरसस्तटे विहरतो श्रीस्वामिन्नाम्नः सदा,
 
सौवर्णालयमन्दिरो विधिमुखैर्बर्हिर्मुखैः सेवितः ।
 
 
यः शत्रून् हनयन् निजानवति च श्रीभूवराहात्मकः,
 
श्रीमद्वेङ्कटभूधरेन्द्ररमणः कुर्याद्धरिर्मङ्गलम् ॥ ६॥
 
 
यो ब्रह्मादिसुरान् मुनींश्च मनुजान् ब्रह्मोत्सवायागतान्,
 
दृष्ट्वा हृष्टमना बभूव बहुशस्तैरर्चितः संस्तुतः ।
 
 
तेभ्यो यः प्रददाद्वरान् बहुविधान् लक्ष्मीनिवासो विभुः,
 
श्रीमद्वेङ्कटभूधरेन्द्ररमणः कुर्याद्धरिर्मङ्गलम् ॥ ७॥
 
 
यो देवो भुवि वर्तते कलियुगे वैकुण्ठलोकस्थितो,
 
भक्तानां परिपालनाय सततं कारुण्यवारां निधिः ।
 
 
श्रीशेषाख्यमहीध्रमस्तकमणिर्भक्तैकचिन्तामणि,
 
श्रीमद्वेङ्कटभूधरेन्द्ररमणः कुर्याद्धरिर्मङ्गलम् ॥ ८॥
 
 
शेषाद्रिप्रभुमङ्गलाष्टकमिदं तुष्टेन यस्येशितुः,
 
प्रीत्यर्थं रचितं रमेशचरणद्वन्द्वैकनिष्टावता ।
 
 
वैवाह्यादिशुभक्रियासु पठितं यैः साधु तेषामपि,
 
श्रीमद्वेङ्कटभूधरेन्द्ररमणः कुर्याद्धरिर्मङ्गलम् ॥ ९॥
 
 
॥ इति श्री वेङ्कटेश मङ्गलाष्टकम् सम्पूर्णम् ॥

 

Venkatesha Mangalashtakam श्री वेंकटेश मङ्गलाष्टक
 

Leave a comment