श्री सुब्रह्मण्य मंगलाष्टक 

॥ श्रीसुब्रह्मण्यमङ्गळाष्टकं ॥
 
शिवयोसूनुजायास्तु श्रितमन्दार शाखिने ।
 
शिखिवर्यातुरंगाय सुब्रह्मण्याय मङ्गळं ॥१॥
 
 
भक्ताभीष्टप्रदायास्तु भवमोग विनाशिने ।
 
राजराजादिवन्द्याय रणधीराय मङ्गळं ॥२॥
 
 
शूरपद्मादि दैतेय तमिस्रकुलभानवे ।
 
तारकासुरकालाय बालकायास्तु मङ्गळं ॥३॥
 
 
वल्लीवदनराजीव मधुपाय महात्मने ।
 
उल्लसन्मणि कोटीर भासुरायास्तु मङ्गळं ॥४॥
 
 
कन्दर्पकोटिलावण्यनिधये कामदायिने ।
 
कुलिशायुधहस्ताय कुमारायास्तु मङ्गळं ॥५॥
 
 
मुक्ताहारलसत् कुण्ड राजये मुक्तिदायिने ।
 
देवसेनासमेताय दैवतायास्तु मङ्गळं ॥६॥
 
 
कनकांबरसंशोभि कटये कलिहारिणे ।
 
कमलापति वन्द्याय कार्तिकेयाय मङ्गळं ॥७॥
 
 
शरकाननजाताय शूराय शुभदायिने ।
 
शीतभानुसमास्याय शरण्यायास्तु मङ्गळं ॥८॥
 
 
मंगळाष्टकमेतन्ये महासेनस्यमानवाः ।
 
पठन्ती प्रत्यहं भक्त्याप्राप्नुयुस्तेपरां श्रियं ॥९॥
 
 
॥ इति सुब्रह्मण्य मङ्गळाष्टकं सम्पूर्णं ॥ 
 
श्री सुब्रह्मण्य मंगलाष्टक,Subramanya Mangalashtakam
श्री सुब्रह्मण्य मंगलाष्टक

Leave a comment