श्री रामचन्द्र स्तुति
नमामि भक्तवत्सलं कृपालुशीलकोमलं,
भजामि ते पदाम्बुजं अकामिनां स्वधामदम् ।
निकामश्यामसुन्दरं भवाम्बुनाथमन्दरं,
प्रफुल्लकञ्जलोचनं मदादिदोषमोचनम् ॥ १ ॥
प्रलम्बबाहुविक्रमं प्रभोऽप्रमेयवैभवं,
निषङ्गचापसायकं धरं त्रिलोकनायकम् ।
दिनेशवंशमण्डनं महेशचापखण्डनं,
मुनीन्द्रसन्तरञ्जनं सुरारिबृन्दभञ्जनम् ॥ २ ॥
मनोजवैरिवन्दितं अजादिदेवसेवितं,
विशुद्धबोधविग्रहं समस्तदूषणापहम् ।
नमामि इन्दिरापतिं सुखाकरं सतां गतिं,
भजे सशक्तिसानुजं शचीपतिप्रियानुजम् ॥ ३ ॥
त्वदङ्घ्रिमूल ये नरा भजन्ति हीनमत्सराः,
पतन्ति नो भवार्णवे वितर्कवीचिसङ्कुले ।
विविक्तवासिनः सदा भजन्ति मुक्तये मुदा,
निरस्य इन्द्रियादिकं प्रयान्ति ते गतिं स्वकाम् ॥ ४ ॥
त्वमेकमद्भुतं प्रभुं निरीहमीश्वरं विभुं,
जगत्गुरुं च शाश्वतं तुरीयमेव केवलम् ।
भजामि भाववल्लभं कुयोगिनां सुदुर्लभं,
स्वभक्तकल्पपादपं समस्तसेव्यमन्वहम् ॥ ५ ॥
अनूपरूपभूपतिं नतोऽहमुर्विजापतिं,
प्रसीद मे नमामि ते पदाब्जभक्ति देहि मे ।
पठन्ति ये स्तवं इदं नरादरेण ते पदं,
व्रजन्ति नात्र संशयस्त्वदीयभावसंयुतम् ॥ ६ ॥
। इति श्री रामचंद्र स्तुति सम्पूर्णम ।