श्री राधाकुण्ड अष्टकम 

वृषभदनुजनाशात् नर्मधर्मोक्तिरङ्गैः,
निखिलनिजतनूभिर्यत्स्वहस्तेन पूर्णम् ।
 
प्रकटितमपि वृन्दारण्यराज्ञा प्रमोदैः,
तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ १॥
 
व्रजभुवि मुरशत्रोः प्रेयसीनां निकामैः,
असुलभमपि तूर्णं प्रेमकल्पद्रुमं तम् ।
 
जनयति हृदि भूमौ स्नातुरुच्चैः प्रियं यत्,
तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ २॥
 
अघरिपुरपि यत्नादत्र देव्याः प्रसाद-,
प्रसरकृतकटाक्षप्राप्तिकामः प्रकामम् ।
 
अनुसरति यदुच्चैः स्नानसेवानुबन्धैः,
तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ ३॥
 
व्रजभुवनसुधांशोः प्रेमभूमिर्निकामं,
व्रजमधुरकिशोरीमौलिरत्नप्रियेव ।
 
परिचितमपि नाम्ना यच्च तेनैव तस्याः,
तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ ४॥
 
अपि जन इह कश्चिद्यस्य सेवाप्रसादैः,
प्रणयसुरलता स्यात्तस्य गोष्ठेन्द्रसूनोः ।
 
सपदि किल मदीशा दास्यपुष्पप्रशस्या,
तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ ५॥
 
ततमधुरनिकुञ्जाः क्लृप्तनामान उच्चैः,
निजपरिजनवर्गैः संविभज्याश्रितास्तैः ।
 
मधुकररुतरम्या यस्य राजन्ति काम्याः,
तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ ६॥
 
ततभुवि वरवेद्यं यस्य नर्मातिहृद्यं,
मधुरमधुरवार्तां गोष्ठचन्द्रस्य भङ्ग्या ।
 
प्रथयितुमित ईशप्राणसख्यालिभिः सा,
तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ ७॥
 
अनुदिनमतिरङ्गैः प्रेममत्तालिसङ्घैः,
वरसरसिजगन्धैः हारिवारिप्रपूर्णे ।
 
विहरत इह यस्मन् दम्पती तौ प्रमत्तौ,
तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ ८॥
 
। इति राधाकुण्डाष्टकं समाप्तम् ।
 
 
श्री राधाकुण्ड अष्टकम,Shri Radha Kund Ashtakam
श्री राधाकुण्ड अष्टकम

Leave a comment