श्री एकदन्त स्तोत्रम्  

 
महासुरं सुशांतं वै दृष्ट्वा विष्णुमुखा: सुरा: ।
 
भ्रग्वादयश्र्च मुनय एकदन्तं समाययु: ।।1।।
 
 
प्रणम्य तं प्रपूज्यादौ पुनस्तं नेमुरादरात् ।
 
तुष्टुवुर्हर्षसंयुक्ता एकदन्तं गणेश्र्वरम् ।।2।।
 
देवर्षय ऊचु:
 
सदात्मरूपं सकलादिभूतममायिनं सोऽहमचिन्त्यबोधम् ।
 
अनादिमध्यांतविहीनमेकं तमेकदन्तं शरणं व्रजाम: ।।3।।
 
 
अनन्तचिद्रूपमयं गणेशं ह्मभेदभेदादिविहीनमाद्यम् ।
 
हृदि प्रकाशस्य धरं स्वधीस्थं तमेकदन्तं शरणं व्रजाम: ।।4।।
 
 
विश्र्वादिभूतं ह्रदि योगिनां वै प्रत्यक्षरूपेण विभान्तमेकम् ।
 
सदा निरालम्बसमाधिगम्यं तमेकदन्तं शरणं व्रजाम: ।।5।।
 
 
स्वबिम्बभावेन विलासयुक्तं बिंदुस्वरूपा रचिता स्वमाया ।
 
तस्या स्ववीर्य प्रददाति यो वै तमेकदन्तं शरणं व्रजाम: ।।6।।
 
 
त्वदीयवीर्येण समर्थभूता माया तया संरचितं च विश्र्वम् ।
 
नादत्मकं ह्मात्मतया प्रतीतं तमेकदन्तं शरणं व्रजाम: ।।7।।
 
 
त्वदीयसत्ताधरमेकदन्तं गणेशमेकं त्रयबोधितारम् ।
 
सेवन्त आपुस्तमजं त्रिसंस्थास्तमेकदन्तं शरणं व्रजाम: ।।8।।
 
 
ततस्त्वया प्रेरित एव नादस्तेनेदमेवं रचितं जगद्वैतम् ।
 
आनन्दरूपं समभावसंस्थं तमेकदन्तं शरणं व्रजाम: ।।9।।
 
 
तदेव विश्र्वं कृपया तवैव सम्भूतमाद्यं तमसा विभातम् ।
 
अनेकरूपं ह्मजमेकभूतं तमेकदन्तं शरणं व्रजाम: ।।10।।
 
 
ततस्त्वया प्रेरितमेव तेन सृष्टं सुसूक्ष्मं जगदेकसंस्थम् ।
 
सत्त्वात्म्कं श्र्वेतमनन्तमाद्यं तमेकदन्तं शरणं व्रजाम: ।।11।।
 
 
तदेव स्वप्नं तपसा गणेशं संसिद्धिरूपं विविधं वभूव ।
 
तदेकरूपं कृपया तवापि तमेकदन्तं शरणं व्रजाम: ।।12।।
 
 
सम्प्रेरितं तच्य त्वया ह्रदिस्थं तथा सुसृष्टं जगदंशरूपम् ।
 
तेनैव जाग्रन्मयमप्रमेयं तमेकदन्तं शरणं व्रजाम: ।।13।।
 
 
जाग्रत्स्वरूपं रजसा विभातं विलोकितं तत्कृपया यदैव ।
 
तदा विभिन्नं भवदेकरूपं तमेकदन्तं शरणं व्रजाम: ।।14।।
 
 
एवं च सृष्ट्वा प्रक्रतिस्वभावात्तदन्तरे त्वं च विभासि नित्यम् ।
 
बुद्धिप्रदाता गणनाथ एकस्तमेकदन्तं शरणं व्रजाम: ।।15।।
 
 
त्वदाज्ञया भांति ग्रहाश्र्च सर्वे नक्षत्ररूपाणि विभान्ति खे वै ।
 
आधारहीनानि त्वया धृतानि तमेकदन्तं शरणं व्रजाम: ।।16।।
 
 
त्वदाज्ञया सृष्टिकरो विधाता त्वदाज्ञया पालक एव विष्णु: ।
 
त्वदाज्ञया संहरते हरोऽपि तमेकदन्तं शरणं व्रजाम: ।।17।।
 
 
यदाज्ञया भूर्जलमध्यसंस्था यदाज्ञयाऽऽप: प्रवहन्ति नद्य: ।
 
सीमां सदा रक्षति वै समुद्रस्तमेकदन्तं शरणं व्रजाम: ।।18।।
 
 
यदाज्ञया देवगणो दिविस्थो ददाति वै कर्मफलानि नित्यम् ।
 
यदाज्ञया शैलगणोऽचलो वै तमेकदन्तं शरणं व्रजाम: ।।19।।
 
 
यदाज्ञया शेष इलाधरो वै यदाज्ञया मोहकरश्र्च काल: ।
 
यदाज्ञया कालधरोऽर्यमा च तमेकदन्तं शरणं व्रजाम: ।।20।।
 
यदाज्ञया वाति विभाति वायुर्यदाज्ञयाऽग्निर्जठरादिसंस्थ: ।
 
यदाज्ञया वै सचराचरं च तमेकदन्तं शरणं व्रजाम: ।।21।।
 
 
सर्वान्तरे संस्थिततेकगूढं यदाज्ञया सर्वमिदं विभाति ।
 
अनन्तरूपं ह्रदि बोधकं वै तमेकदन्तं शरणं व्रजाम: ।।22।।
 
 
यं योगिनो योगबलेन साध्यं कुर्वन्ति तं क: स्तवनेन नौति ।
 
अत: प्रणामेन सुसिद्धिदोऽस्तु तमेकदन्तं शरणं व्रजाम: ।।23।।
 
 
ग्रत्सप्तद उवाच
 
एवं स्तुत्वा च प्रह्लादं देवा: समुनयश्र्च वै ।
 
तूष्णींभावं प्रपद्येव ननृतुर्हर्षसंयुता: ।।24।।
 
 
स तानुवाच प्रोतात्मा ह्मेकदंत: स्तवेन वै ।
 
जगाद तान्महाभागान्देवर्षीन्भक्तवत्सल: ।।25।।
 
एकदंत उवाच
 
प्रसन्नोस्मि च स्तोत्रेण सुरा: सर्षिगणा: किल ।
 
वृणुतां वरदोऽहं वो दास्यामि मनसीप्सितम् ।।26।।
 
 
भवत्कृतं मदीयं वै स्तोत्रं प्रीतिप्रदं मम ।
 
भविष्यति न संदेह: सर्वसिद्धिप्रदायकम् ।।27।।
 
 
यं यमिच्छति तं तं वै दास्यामि स्तोत्रपाठत: ।
 
पुत्रपौत्रादिकं सर्वं लभते धनधान्यकम् ।।28।।
 
 
गजाश्र्वादिकमत्म्यन्तं राज्यभोगं लभेद्ध्रुवम् ।
 
भुक्तिं मुक्तिं च योगं वै लभते शान्तिदायकम् ।।29।।
 
 
मारणोंचटनादीनि राज्यबंधादिकं च यत् ।
 
पठतां श्रृण्वतां न्रणां भवेच्च बंधहीनता ।।30।।
 
 
एकविंशतिवारं च श्लोकाच्श्रैवैकविंशतिम् ।
 
पठते नित्यमेवं च दिनानि त्वेकविंशतिम् ।।31।।
 
 
न तस्य दुर्लभं किंचित्त्रिषु लोकेशु वै भवेत् ।
 
असाध्यं साधयेन्मत्र्य: सर्वत्र विजयी भवेत् ।।32।।
 
 
नित्यं य: पठेत स्तोत्रं ब्रह्मभूत: स वै नर: ।
 
तस्य दर्शनत: सर्वे देवा: पूता भवन्ति वै ।।33।।
 
 
एवं तस्य वच: श्रुत्वा प्रह्रष्टा देवतर्षय: ।
 
ऊचु: करपुटा: सर्वे भक्तियुक्ता गजाननम् ।।34।।
  
श्री एकदन्त स्तोत्रम्
श्री एकदन्त स्तोत्रम्

श्री एकदन्त स्तोत्रम्  PDF


Leave a comment