श्री भैरवाष्टक 

॥ श्रीभैरवाय नमः ॥
 
सकलकलुषहारी धूर्तदुष्टान्तकारी, सुचिरचरितचारी मुण्डमौञ्जीप्रचारी ।
 
करकलितकपाली कुण्डली दण्डपाणिः, स भवतु सुखकारी भैरवो भावहारी ॥ १॥
 
 
विविधरासविलासविलासितं नववधूरवधूतपराक्रमम् ।
 
मदविधूणितगोष्पदगोष्पदं भवपदं सततं सततं स्मरे ॥ २॥
 
 
अमलकमलनेत्रं चारुचन्द्रावतंसं, सकलगुणगरिष्ठं कामिनीकामरूपम् ।
 
परिहृतपरितापं डाकिनीनाशहेतुं, भज जन शिवरूपं भैरवं भूतनाथम् ॥ ३॥
 
 
सबलबलविघातं क्षेत्रपालैकपालं, विकटकटिकरालं ह्यट्टहासं विशालम् ।
 
करगतकरवालं नागयज्ञोपवीतं, भज जन शिवरूपं भैरवं भूतनाथम् ॥ ४॥
 
 
भवभयपरिहारं योगिनीत्रासकारं, सकलसुरगणेशं चारुचन्द्रार्कनेत्रम् ।
 
मुकुटरुचिरभालं मुक्तमालं विशालं, भज जन शिवरूपं भैरवं भूतनाथम् ॥ ५॥
 
 
चतुर्भुजं शङ्खगदाधरायुधं, पीताम्बरं सान्द्रपयोदसौभगम् ।
 
श्रीवत्सलक्ष्मीं गलशोभिकौस्तुभं, शीलप्रदं शङ्कररक्षणं भजे ॥ ६॥
 
 
लोकाभिरामं भुवनाभिरामं, प्रियाभिरामं यशसाभिरामम् ।
 
कीर्त्याभिरामं तपसाऽभिरामं, तं भूतनाथं शरणं प्रपद्ये ॥ ७॥
 
 
आद्यं ब्रह्मसनातनं शुचिपरं सिद्धिप्रदं कामदं, सेव्यं भक्तिसमन्वितं हरिहरैः सहं साधुभिः ।
 
योग्यं योगविचारितं युगधरं योग्याननं योगिनं, वन्देऽहं सकलं कलङ्करहितं सत्सेवितं भैरवम् ॥ ८॥
 
 
॥ फलश्रुतिः ॥
 
भैरवाष्टकमिदं पुण्यं प्रातःकाले पठेन्नरः ।
 
दुःस्वप्ननाशनं तस्य वाञ्छितर्थफलं भवेत् ॥ ९॥
 
 
राजद्वारे विवादे च सङ्ग्रामे सङ्कटेत्तथा ।
 
राज्ञाक्रुद्धेन चाऽऽज्ञप्ते शत्रुबन्धगतेतथा दारिद्रश्चदुःखनाशाय पठितव्यं समाहितैः ।
 
न तेषां जायते किञ्चिद दुर्लभं भुवि वाञ्छितम् ॥१०॥
 
 
॥ इति श्रीस्कान्दे महापुराणे पञ्चमेऽवन्तीखण्डे अवन्तीक्षेत्रमाहात्म्याऽऽन्तर्गते श्रीभैरवाष्टकं संपूर्णम् ॥
 
Bhairava Ashtak श्री भैरवाष्टक
 

Leave a comment