महाकाल भैरवाष्टकम् || Mahakala Bhairava Ashtakam

महाकाल भैरवाष्टकम् || Mahakala Bhairava Ashtakam || Maha Kalabhairava Ashtakam

यं यं यं यक्षरूपं दशदिशिविदितं भूमिकम्पायमानं,

सं सं संहारमूर्तिं शिरमुकुटजटा शेखरंचन्द्रबिम्बम् ।


दं दं दं दीर्घकायं विक्रितनख मुखं चोर्ध्वरोमं करालं,

पं पं पं पापनाशं प्रणमत सततं भैरवं क्षेत्रपालम् ॥ १॥


रं रं रं रक्तवर्णं, कटिकटिततनुं तीक्ष्णदंष्ट्राकरालं,

घं घं घं घोष घोषं घ घ घ घ घटितं घर्झरं घोरनादम् ।


कं कं कं कालपाशं द्रुक् द्रुक् दृढितं ज्वालितं कामदाहं,

तं तं तं दिव्यदेहं, प्रणामत सततं, भैरवं क्षेत्रपालम् ॥ २॥


लं लं लं लं वदन्तं ल ल ल ल ललितं दीर्घ जिह्वा करालं,

धूं धूं धूं धूम्रवर्णं स्फुट विकटमुखं भास्करं भीमरूपम् ।


रुं रुं रुं रूण्डमालं, रवितमनियतं ताम्रनेत्रं करालम्,

नं नं नं नग्नभूषं , प्रणमत सततं, भैरवं क्षेत्रपालम् ॥ ३॥


वं वं वायुवेगं नतजनसदयं ब्रह्मसारं परन्तं,

खं खं खड्गहस्तं त्रिभुवनविलयं भास्करं भीमरूपम् ।


चं चं चलित्वाऽचल चल चलिता चालितं भूमिचक्रं,

मं मं मायि रूपं प्रणमत सततं भैरवं क्षेत्रपालम् ॥ ४॥


शं शं शं शङ्खहस्तं, शशिकरधवलं, मोक्ष सम्पूर्ण तेजं,

मं मं मं मं महान्तं, कुलमकुलकुलं मन्त्रगुप्तं सुनित्यम् ।


यं यं यं भूतनाथं, किलिकिलिकिलितं बालकेलिप्रदहानं,

आं आं आं आन्तरिक्षं , प्रणमत सततं, भैरवं क्षेत्रपालम् ॥ ५॥


खं खं खं खड्गभेदं, विषममृतमयं कालकालं करालं,

क्षं क्षं क्षं क्षिप्रवेगं, दहदहदहनं, तप्तसन्दीप्यमानम् ।


हौं हौं हौंकारनादं, प्रकटितगहनं गर्जितैर्भूमिकम्पं,

बं बं बं बाललीलं, प्रणमत सततं, भैरवं क्षेत्रपालम् ॥ ६॥


वं वं वं वाललीलं सं सं सं सिद्धियोगं, सकलगुणमखं,

देवदेवं प्रसन्नं, पं पं पं पद्मनाभं, हरिहरमयनं चन्द्रसूर्याग्नि नेत्रम् ।


ऐं ऐं ऐं ऐश्वर्यनाथं, सततभयहरं, पूर्वदेवस्वरूपं,

रौं रौं रौं रौद्ररूपं, प्रणमत सततं, भैरवं क्षेत्रपालम् ॥ ७॥


हं हं हं हंसयानं, हसितकलहकं, मुक्तयोगाट्टहासं,

धं धं धं नेत्ररूपं, शिरमुकुटजटाबन्ध बन्धाग्रहस्तम् ।


तं तं तंकानादं, त्रिदशलटलटं, कामगर्वापहारं,

भ्रुं भ्रुं भ्रुं भूतनाथं, प्रणमत सततं, भैरवं क्षेत्रपालम् ॥ ८॥


इति महाकालभैरवाष्टकं सम्पूर्णम् ।

नमो भूतनाथं नमो प्रेतनाथं नमः कालकालं नमः रुद्रमालम् ।


। नमः कालिकाप्रेमलोलं करालं नमो भैरवं काशिकाक्षेत्रपालम् ॥

Mahakaala Bhairava Ashtakam

Mahakaal Bhairava Ashtakam


टिप्पणी पोस्ट करें

0 टिप्पणियां