श्री कृष्ण लहरी स्तोत्रम्  Shri Krishna Lahari Stotra

कदा बृन्दारण्ये विपुलयमुनातीरपुलिने
 
चरन्तं गोविन्दं हलधरसुदामादिसहितम् ।
 
 
अहो कृष्ण स्वामिन् मधुरमुरली मोहन विभो
 
प्रसीदेत्याक्रोशन् निमिषमिव नेष्यामि दिवसान् ॥ १ ॥
 
 
कदा कालिन्दीये हरिचरणमुद्राङ्किततटे
 
स्मरन् गोपीनाथं कमलनयनं सस्मितमुखम् ।
 
 
अहो कृष्णानन्दाम्बुजवदन भक्तैकसुलभ
 
प्रसीदेत्याक्रोशन् निमिषमिव नेष्यामि दिवसान् ॥ २ ॥
 
 
कदाचित् खेलन्तं व्रजपरिसरे गोपतनयैः
 
कथञ्चित् संप्राप्तं किमपि भजतं कञ्जनयनम् ।
 
 
अये राधे किल हरसि रसिके कञ्चुकयुगं
 
प्रसीदेत्याक्रोशन् निमिषमिव नेष्यामि दिवसान् ॥ ३ ॥
 
 
कदाचित् गोपीनां हसितचकितं स्निग्धनयनं
 
स्थितं गोपीवृन्दे नटमिव नटन्तं सुललितम् ।
 
 
सुराधीशैः सर्वैः स्तुतपदममुं श्रीहरिमिति
 
प्रसीदेत्याक्रोशन् निमिषमिव नेष्यामि दिवसान् ॥ ४ ॥
 
 
कदाचित् कालिन्द्यां तटतरुकदंबे स्थितममुं
 
स्मयन्तं साकूतं हृतवसनगोपीस्तनतटम् ।
 
 
अहो शक्रानन्दाम्बुजवदन गोवर्द्धनधर
 
प्रसीदेत्याक्रोशन् निमिषमिव नेष्यामि दिवसान् ॥ ५ ॥
 
 
कदाचित् कान्तारे विजयसखमिष्टं नृपसुतं
 
वदन्तं पार्थेन्द्रं नृपसुत सखे बन्धुरिति च ।
 
 
भ्रमन्तं विश्रान्तं श्रितमुरसि रम्यं हरिमहो
 
प्रसीदेत्याक्रोशन् निमिषमिव नेष्यामि दिवसान् ॥ ६ ॥
 
Krishna Lahari Stotram,श्री कृष्ण लहरी स्तोत्रम्
श्री कृष्ण लहरी स्तोत्रम्

Leave a comment