अक्रूर कृत श्रीकृष्ण स्तुति: || Akrura Krita Sri Krishna Stuti || Krishna Stuti
नम: श्रीकृष्णचन्द्राय परिपूर्णतमाय च ।
असंख्याण्डाधिपतये गोलोकपतये नम: ॥१॥
श्रीराधापतये तुभ्यं व्रजाधीशाय ते नम:
नम: श्रीनन्दपुत्राय यशोदानन्दनाय च ॥२॥
देवकीसुत गोविन्द वासुदेव जगत्पते ।
यदूत्तम जगन्नाथ पाहि मां पुरुषोत्तम ॥३॥
वाणी सदा ते गुणवर्णने स्यात्
कर्णौ कथायां ममदोश्च कर्मणि ।
मन: सदा त्वच्चरणारविन्दयो
र्दृशौ स्फुरद्धामविशेषदर्शने ॥४॥
(गर्ग०, मथुरा० ५।९-१२ )
0 टिप्पणियां