माँ तारा प्रत्यंगिरा कवच 

|| ईश्वर उवाच ||
 
ॐ तारायाः स्तम्भिनी देवी मोहिनी क्षोभिनी तथा ।
 
हस्तिनी भ्रामिनी रौद्री संहारण्यापि तारिणी ॥ १ ॥
 
 
शक्तयोहष्टौ क्रमादेता शत्रुपक्षे नियोजिताः ।
 
धारिता साधकेन्द्रेण सर्वशत्रु निवारिणी ॥ २ ॥
 
 
|| कवचमारम्भम् ||
 
 
ॐ स्तम्भिनी स्त्रें स्त्रें मम शत्रुन् स्तम्भय स्तम्भय ॥ ३ ॥
 
 
ॐ क्षोभिनी स्त्रें स्त्रें मम शत्रुन् क्षोभय क्षोभय ॥ ४ ॥
 
 
ॐ मोहिनी स्त्रें स्त्रें मम शत्रुन् मोहय मोहय ॥ ५ ॥
 
 
ॐ जृम्भिनी स्त्रें स्त्रें मम शत्रुन् जृम्भय जृम्भय ॥ ६ ॥
 
 
ॐ भ्रामिनी स्त्रें स्त्रें मम शत्रुन् भ्रामय भ्रामय ॥ ७ ॥
 
 
ॐ रौद्री स्त्रें स्त्रें मम शत्रुन् सन्तापय सन्तापय ॥ ८॥
 
 
ॐ संहारिणी स्त्रें स्त्रें मम शत्रुन् संहारय संहारय ॥ ९ ॥
 
 
ॐ तारिणी स्त्रें स्त्रें सर्वपद्भ्यः सर्वभूतेभ्यः सर्वत्र रक्ष रक्ष मां स्वाहा ॥ १० ॥
 
|| फलश्रुति ||
 
य इमां धारयेत् विद्यां त्रिसन्ध्यं वापि यः पठेत् ।
 
स दुःखं दूरतस्त्यक्त्वा ह्यन्याच्छ्त्रुन् न संशयः ॥ ११ ॥
 
 
रणे राजकुले दुर्गे महाभये विपत्तिषु ।
 
विद्या प्रत्यङ्गिरा ह्येषा सर्वतो रक्षयेन्नरं ॥ १२ ॥
 
 
अनया विद्यया रक्षां कृत्वा यस्तु पठेत् सुधी ।
 
मन्त्राक्षरमपि ध्यायन् चिन्तयेत् नीलसरस्वतीं ।
 
अचिरे नैव तस्यासन् करस्था सर्वसिद्धयः
 
 
ॐ ह्रीं उग्रतारायै नीलसरस्वत्यै नमः ॥ १३ ॥
 
 
इमं स्तवं धीयानो नित्यं धारयेन्नरः ।
 
सर्वतः सुखमाप्नोति सर्वत्रजयमाप्नुयात् ॥ १४ ॥
 
 
नक्कापि भयमाप्नोति सर्वत्रसुखमाप्नुयात् ॥ १५ ॥
 
॥ इति रुद्रयामले श्रीमदुग्रताराय प्रत्यङ्गिरा कवचं समाप्तम् ॥
 
Maa Tara Devi Pratyangira Kavacham माँ तारा प्रत्यंगिरा कवच

Leave a comment