Ram Ashtottara Shatanama Stotram

॥ अथ श्रीमदानन्दरामायणान्तर्गत श्री रामाष्टोत्तरशतनाम स्तोत्रम्

 
विष्णुदास उवाच-
 
ॐ अस्य श्रीरामचन्द्रनामाष्टोत्तरशतमन्त्रस्य ब्रह्मा ऋषिः ।
 
अनुष्टुप् छन्दः । जानकीवल्लभः श्रीरामचन्द्रो देवता ॥
 
 
ॐ बीजम् । नमः शक्तिः । श्रीरामचन्द्रः कीलकम् ।
 
श्रीरामचन्द्रप्रीत्यर्थे जपे विनियोगः ॥
 
 
अङ्गुलीन्यासः ।
 
ॐ नमो भगवते राजाधिराजाय परमात्मने अङ्गुष्ठाभ्यां नमः ।
 
ॐ नमो भगवते विद्याधिराजाय हयग्रीवाय तर्जनीभ्यां नमः ।
 

 

ॐ नमो भगवते जानकीवल्लभाय मध्यमाभ्यां नमः ।
 
ॐ नमो भगवते रघुनन्दनायामिततेजसे अनामिकाभ्यां नमः ।
 
 
ॐ नमो भगवते क्षीराब्धिमध्यस्थाय नारायणाय कनिष्ठिकाभ्यां नमः ।
 
ॐ नमो भगवते सत्प्रकाशाय रामाय करतलकरपृष्ठाभ्यां नमः ।
 
षडङ्गन्यासः ।
 
ॐ नमो भगवते राजाधिराजाय परमात्मने हृदयाय नमः ।
 
ॐ नमो भगवते विद्याधिराजाय हयग्रीवाय शिरसे स्वाहा ।
 
 
ॐ नमो भगवते जानकीवल्लभाय शिखायै वषट् ।
 
ॐ नमो भगवते रघुनन्दनायामिततेजसे कवचाय हुम् ।
 
 
ॐ नमो भगवते क्षीराब्धिमध्यस्थाय नारायणाय नेत्रत्रयाय वौषट् ।
 
ॐ नमो भगवते सत्प्रकाशाय रामाय अस्त्राय फट् । इति दिग्बन्धः ॥
 
अथ ध्यानम् ।
 
मन्दाराकृतिपुण्यधामविलसद्वक्षस्थलं कोमलं,
 
शान्तं कान्तमहेन्द्रनीलरुचिराभासं सहस्राननम् ।
 
 
वन्देऽहं रघुनन्दनं सुरपतिं कोदण्डदीक्षागुरुं,
 
रामं सर्वजगत्सुसेवितपदं सीतामनोवल्लभम् ॥ १६॥
 
अथ स्तोत्रम् ।
 
सहस्रशीर्ष्णे वै तुभ्यं सहस्राक्षाय ते नमः ।
 
नमः सहस्रहस्ताय सहस्रचरणाय च ॥ १७॥
 
 
नमो जीमूतवर्णाय नमस्ते विश्वतोमुख ।
 
अच्युताय नमस्तुभ्यं नमस्ते शेषशायिने ॥ १८॥
 
 
नमो हिरण्यगर्भाय पञ्चभूतात्मने नमः ।
 
नमो मूलप्रकृतये देवानां हितकारिणे ॥ १९॥
 
 
नमस्ते सर्वलोकेश सर्वदुःखनिषूदन ।
 
शङ्खचक्रगदापद्मजटामुकुटधारिणे ॥ २०॥
 
 
नमो गर्भाय तत्त्वाय ज्योतिषां ज्योतिषे नमः ।
 
ॐ नमो वासुदेवाय नमो दशरथात्मज ॥ २१॥
 
 
नमो नमस्ते राजेन्द्र सर्वसम्पत्प्रदाय च ।
 
नमः कारुण्यरूपाय कैकेयीप्रियकारिणे ॥ २२॥
 
 
नमो दन्ताय शान्ताय विश्वामित्रप्रियाय ते ।
 
यज्ञेशाय नमस्तुभ्यं नमस्ते क्रतुपालक ॥ २३॥
 
 
नमो नमः केशवाय नमो नाथाय शर्ङ्गिणे ।
 
नमस्ते रामचन्द्राय नमो नारायणाय च ॥ २४॥
 
 
नमस्ते रामचन्द्राय माधवाय नमो नमः ।
 
गोविन्द्राय नमस्तुभ्यं नमस्ते परमात्मने ॥ २५॥
 
 
नमस्ते विष्णुरूपाय रघुनाथाय ते नमः ।
 
नमस्तेऽनाथनाथाय नमस्ते मधुसूदन ॥ २६॥
 
 
त्रिविक्रम नमस्तेऽस्तु सीतायाः पतये नमः ।
 
वामनाय नमस्तुभ्यं नमस्ते राघवाय च ॥ २७॥
 
 
नमो नमः श्रीधराय जानकीवल्लभाय च ।
 
नमस्तेऽस्तु हृषीकेश कन्दर्पाय नमो नमः ॥ २८॥
 
 
नमस्ते पद्मनाभाय कौसल्याहर्षकारिणे ।
 
नमो राजीवनेत्राय नमस्ते लक्ष्मणाग्रज ॥ २९॥
 
 
नमो नमस्ते काकुत्स्थ नमो दामोदराय च ।
 
विभीषणपरित्रातर्नमः सङ्कर्षणाय च ॥ ३०॥
 
 
वासुदेव नमस्तेऽस्तु नमस्ते शङ्करप्रिय ।
 
प्रद्युम्नाय नमस्तुभ्यमनिरुद्धाय ते नमः ॥ ३१॥
 
 
सदसद्भक्तिरूपाय नमस्ते पुरुषोत्तम ।
 
अधोक्षज नमस्तेऽस्तु सप्ततालहराय च ॥ ३२॥
 
 
खरदूषणसंहर्त्रे श्रीनृसिम्हाय ते नमः ।
 
अच्युताय नमस्तुभ्यं नमस्ते सेतुबन्धक ॥ ३३॥
 
 
जनार्दन नमस्तेऽस्तु नमो हनुमदाश्रय ।
 
उपेन्द्रचन्द्रवन्द्याय मारीचमथनाय च ॥ ३४॥
 
 
नमो बालिप्रहरण नमः सुग्रीवराज्यद ।
 
जामदग्न्यमहादर्पहराय हरये नमः ॥ ३५॥
 
 
नमो नमस्ते कृष्णाय नमस्ते भरताग्रज ।
 
नमस्ते पितृभक्ताय नमः शत्रुघ्नपूर्वज ॥ ३६॥
 
 
अयोध्याधिपते तुभ्यं नमः शत्रुघ्नसेवित ।
 
नमो नित्याय सत्याय बुद्ध्यादिज्ञानरूपिणे ॥ ३७॥
 
 
अद्वैतब्रह्मरूपाय ज्ञानगम्याय ते नमः ।
 
नमः पूर्णाय रम्याय माधवाय चिदात्मने ॥ ३८॥
 
 
अयोध्येशाय श्रेष्ठाय चिन्मात्राय परात्मने ।
 
नमोऽहल्योद्धारणाय नमस्ते चापभञ्जिने ॥ ३९॥
 
 
सीतारामाय सेव्याय स्तुत्याय परमेष्ठिने ।
 
नमस्ते बाणहस्ताय नमः कोदण्डधारिणे ॥ ४०॥
 
 
नमः कबन्धहन्त्रे च वालिहन्त्रे नमोऽस्तु ते ।
 
नमस्तेऽस्तु दशग्रीवप्राणसंहारकारिणे ॥ ४१॥
 
 
अष्टोत्तरशतं नाम्नां रमचन्द्रस्य पावनम् ।
 
एतत्प्रोक्तं मया श्रेष्ठ सर्वपातकनाशनम् ॥ ४२॥
 
 
प्रचरिष्यति तल्लोके प्राण्यदृष्टवशाद्द्विज ।
 
तस्य कीर्तनमात्रेण जना यास्यन्ति सद्गतिम् ॥ ४३॥
 
 
तावद्विजृम्भते पापं ब्रह्महत्यापुरःसरम्।
 
यावन्नामाष्टकशतं पुरुषो न हि कीर्तयेत् ॥ ४४॥
 
 
तावत्कलेर्महोत्साहो निःशङ्कं सम्प्रवर्तते ।
 
यावच्छ्रीरामचन्द्रस्य शतनाम्नां न कीर्तनम् ॥ ४६॥
 
 
तावत्स्वरूपं रामस्य दुर्बोधं प्राणिनां स्फुटम् ।
 
यावन्न निष्ठया रामनाममाहात्म्यमुत्तमम् ॥ ४७॥
 
 
कीर्तितं पठितं चित्ते धृतं संस्मारितं मुदा ।
 
अन्यतः शृणुयान्मर्त्यः सोऽपि मुच्येत पातकात् ॥ ४८॥
 
 
ब्रह्महत्यादिपापानां निष्कृतिं यदि वाञ्छति ।
 
रामस्तोत्रं मासमेकं पठित्वा मुच्यते नरः ॥ ४९॥
 
 
दुष्प्रतिग्रहदुर्भोज्यदुरालापादिसम्भवम् ।
 
पापं सकृत्कीर्तनेन रामस्तोत्रं विनाशयेत् ॥ ५०॥
 
 
श्रुतिस्मृतिपुराणेतिहासागमशतानि च ।
 
अर्हन्ति नाल्पां श्रीरामनामकीर्तिकलामपि ॥ ५१॥
 
 
अष्टोत्तरशतं नाम्नां सीतारामस्य पावनम् ।
 
अस्य सङ्कीर्तनादेव सर्वान् कामान् लभेन्नरः ॥ ५२॥
 
 
पुत्रार्थी लभते पुत्रान् धनार्थी धनमाप्नुयात् ।
 
स्त्रियं प्राप्नोति पत्न्यर्थी स्तोत्रपाठश्रवादिना ॥ ५३॥
 
 
कुम्भोदरेण मुनिना येन स्तोत्रेण राघवः ।
 
स्तुतः पूर्वं यज्ञवाटे तदेतत्त्वां मयोदितम् ॥ ५४॥
 
 
॥ इति श्रीशतकोटिरामचरितान्तर्गते श्रीमदानन्दरामायणे वाल्मीकीये यात्राकाण्डे श्रीरामनामाष्टोत्तरशतनामस्तोत्रं नाम पञ्चमः सर्गः ॥

Shri Ram Ashtottara Shatanama Stotram

Leave a comment