श्री शनिकवचम् - Shree Shani Kavach

श्री शनिकवचम् - Shree Shani Kavach



अथ श्री शनिकवचम्

अस्य श्री शनैश्चरकवचस्तोत्रमंत्रस्य कश्यप ऋषिः 

अनुष्टुप् छन्दः ॥ शनैश्चरो देवता ॥ शीं शक्तिः 

शूं कीलकम् ॥ शनैश्चरप्रीत्यर्थं जपे विनियोगः 

निलांबरो नीलवपुः किरीटी गृध्रस्थितस्त्रासकरो धनुष्मान् 

चतुर्भुजः सूर्यसुतः प्रसन्नः सदा मम स्याद्वरदः प्रशान्तः ॥ १ 

ब्रह्मोवाच 

 श्रुणूध्वमृषयः सर्वे शनिपीडाहरं महत् 

कवचं शनिराजस्य सौरेरिदमनुत्तमम् ॥ २ 

कवचं देवतावासं वज्रपंजरसंज्ञकम् 

शनैश्चरप्रीतिकरं सर्वसौभाग्यदायकम् ॥ ३ 

ॐ श्रीशनैश्चरः पातु भालं मे सूर्यनंदनः 

नेत्रे छायात्मजः पातु पातु कर्णौ यमानुजः ॥ ४ 

नासां वैवस्वतः पातु मुखं मे भास्करः सदा 

स्निग्धकंठःश्च मे कंठं भुजौ पातु महाभुजः ॥ ५ 

स्कंधौ पातु शनिश्चैव करौ पातु शुभप्रदः 

वक्षः पातु यमभ्राता कुक्षिं पात्वसितत्सथा ॥ ६


नाभिं ग्रहपतिः पातु मंदः पातु कटिं तथा 

ऊरू ममांतकः पातु यमो जानुयुगं तथा ॥ ७ 

पादौ मंदगतिः पातु सर्वांगं पातु पिप्पलः 

अङ्गोपाङ्गानि सर्वाणि रक्षेन्मे सूर्यनंदनः ॥ ८ 

इत्येतत्कवचं दिव्यं पठेत्सूर्यसुतस्य यः 

न तस्य जायते पीडा प्रीतो भवति सूर्यजः ॥ ९ 

व्ययजन्मद्वितीयस्थो मृत्युस्थानगतोSपि वा 

कलत्रस्थो गतो वापि सुप्रीतस्तु सदा शनिः ॥ १० 

अष्टमस्थे सूर्यसुते व्यये जन्मद्वितीयगे 

कवचं पठतो नित्यं न पीडा जायते क्वचित् ॥ ११ 

इत्येतत्कवचं दिव्यं सौरेर्यनिर्मितं पुरा 

द्वादशाष्टमजन्मस्थदोषान्नाशायते सदा 

जन्मलग्नास्थितान्दोषान्सर्वान्नाशयते प्रभुः ॥ १२ 

 ॥ इति श्रीब्रह्मांडपुराणे ब्रह्म-नारदसंवादे शनैश्चरकवचं संपूर्णं 

Shree Shani Kavacham in hindi

Shani Kavacham


टिप्पणी पोस्ट करें

0 टिप्पणियां