राहु ग्रह कवच - Rahu Graha Kavacham

राहु ग्रह कवच - Rahu Graha Kavacham


अथ राहुकवचम्

अस्य श्रीराहुकवचस्तोत्रमंत्रस्य चंद्रमा ऋषिः 

अनुष्टुप छन्दः । रां बीजं । नमः शक्तिः 

स्वाहा कीलकम् । राहुप्रीत्यर्थं जपे विनियोगः 

प्रणमामि सदा राहुं शूर्पाकारं किरीटिन् 

सैन्हिकेयं करालास्यं लोकानाम भयप्रदम् ॥ १ 


निलांबरः शिरः पातु ललाटं लोकवन्दितः 

चक्षुषी पातु मे राहुः श्रोत्रे त्वर्धशरीरवान् ॥ २ 

नासिकां मे धूम्रवर्णः शूलपाणिर्मुखं मम 

जिव्हां मे सिंहिकासूनुः कंठं मे कठिनांघ्रीकः ॥ ३ 

भुजङ्गेशो भुजौ पातु निलमाल्याम्बरः करौ 

पातु वक्षःस्थलं मंत्री पातु कुक्षिं विधुंतुदः ॥ ४ 

कटिं मे विकटः पातु ऊरु मे सुरपूजितः 

स्वर्भानुर्जानुनी पातु जंघे मे पातु जाड्यहा ॥ ५ 

गुल्फ़ौ ग्रहपतिः पातु पादौ मे भीषणाकृतिः 

सर्वाणि अंगानि मे पातु निलश्चंदनभूषण: ॥ ६ 


राहोरिदं कवचमृद्धिदवस्तुदं यो 

भक्ता पठत्यनुदिनं नियतः शुचिः सन् 

 प्राप्नोति कीर्तिमतुलां श्रियमृद्धिमायु

रारोग्यमात्मविजयं च हि तत्प्रसादात् ॥ ७ 

 इति श्रीमहाभारते धृतराष्ट्रसंजयसंवादे द्रोणपर्वणि राहुकवचं संपूर्णं 
Rahu Kavacham, Rahu Raksha Kavach, Rahu Kavach

Rahu Raksha Kavach


टिप्पणी पोस्ट करें

0 टिप्पणियां