Subscribe Us

Ketu Graha Kavacham-केतु ग्रह कवच


Ketu Kavacham-केतु ग्रह  कवच


अथ केतुकवचम्

अस्य श्रीकेतुकवचस्तोत्रमंत्रस्य त्र्यंबक ऋषिः 

अनुष्टप् छन्दः । केतुर्देवता । कं बीजं । नमः शक्तिः 

केतुरिति कीलकम् I केतुप्रीत्यर्थं जपे विनियोगः 

केतु करालवदनं चित्रवर्णं किरीटिनम् 

प्रणमामि सदा केतुं ध्वजाकारं ग्रहेश्वरम् ॥ १ 

चित्रवर्णः शिरः पातु भालं धूम्रसमद्युतिः 

पातु नेत्रे पिंगलाक्षः श्रुती मे रक्तलोचनः ॥ २ 


घ्राणं पातु सुवर्णाभश्चिबुकं सिंहिकासुतः 

पातु कंठं च मे केतुः स्कंधौ पातु ग्रहाधिपः ॥ ३ 

हस्तौ पातु श्रेष्ठः कुक्षिं पातु महाग्रहः 

सिंहासनः कटिं पातु मध्यं पातु महासुरः ॥ ४ 

ऊरुं पातु महाशीर्षो जानुनी मेSतिकोपनः 

पातु पादौ च मे क्रूरः सर्वाङ्गं नरपिंगलः ॥ ५ 


य इदं कवचं दिव्यं सर्वरोगविनाशनम् 

सर्वशत्रुविनाशं च धारणाद्विजयि भवेत् ॥ ६ 

 इति श्रीब्रह्माण्डपुराणे केतुकवचं संपूर्णं 

Ketu Kavach

Ketu Kavach


टिप्पणी पोस्ट करें

0 टिप्पणियां