बुध ग्रह कवच

 
II श्री गणेशाय नमः II 
 
अस्य श्रीबुधकवचस्तोत्रमंत्रस्य कश्यप ऋषिः I
 
अनुष्टुप् छंदःI बुधो देवता I
 
बुधपीडाशमनार्थं जपे विनियोगः II
 
 
बुधस्तु पुस्तकधरः कुंकुमस्य समद्दुतिः I
 
पितांबरधरः पातु पितमाल्यानुलेपनः II १ II
 
 
कटिं च पातु मे सौम्यः शिरोदेशं बुधस्तथा I
 
नेत्रे ज्ञानमयः पातु श्रोत्रे पातु निशाप्रियः II २ II
 
 
घ्राणं गंधप्रियः पातु जिह्वां विद्याप्रदो मम I
 
कंठं पातु विधोः पुत्रो भुजा पुस्तकभूषणः II ३ II
 
 
वक्षः पातु वरांगश्च हृदयं रोहिणीसुतः I
 
नाभिं पातु सुराराध्यो मध्यं पातु खगेश्वरः II ४ II
 
 
जानुनी रौहिणेयश्च पातु जंघेSखिलप्रदः I
 
पादौ मे बोधनः पातु पातु सौम्योSखिलं वपु II ५ II
 
 
एतद्धि कवचं दिव्यं सर्वपापप्रणाशनम् I
 
सर्व रोगप्रशमनं सर्व दुःखनिवारणम् II ६ II
 
 
आयुरारोग्यधनदं पुत्रपौत्रप्रवर्धनम् I
 
यः पठेत् श्रुणुयाद्वापि सर्वत्र विजयी भवेत् II ७ II
 
 
 II इति श्रीब्रह्मवैवर्तपुराणे बुधकवचं संपूर्णं II
 
 
बुध ग्रह कवच,Budha Graha Kavach
बुध ग्रह कवच

Leave a comment